श्रीविष्णुरपामार्जनकवचम्
पूर्वे नारायणः पातु वारिजाक्षस्तु दक्षिणे ।
प्रद्युम्नः पश्चिमे पातु वासुदेवस्तथोत्तरे ॥ १॥
ऐशान्यां रक्षताद्विष्णुराग्नेय्यां च जनार्दनः ।
नैरृत्यां पद्मनाभस्तु वायव्यां मधुसूदनः ॥ २॥
ऊर्ध्वं गोवर्धनोद्धर्ता ह्यधरायां त्रिविक्रमः ।
एताभ्यो दशदिग्भ्यश्च सर्वतः पातु केशवः ॥ ३॥
एवं कृत्वा तु दिग्बन्घं विष्णुं सर्वत्र संस्मरेत् ।
अव्यग्रचित्तः कुर्वीत न्यासकर्मं यथाविधि ॥ ४॥
अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् ।
मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् ॥ ५॥
कनिष्ठायां न्यसेद्विष्णुं करपृष्ठे तु वामनम् ।
एवमेवाङ्गुलिन्यासः पश्चादङ्गेषु विन्यसेत् ॥ ६॥
शिखायां केशवं न्यस्य मूर्ध्नि नारायणं न्यसेत् ।
माधवं च ललाटे तु गोविन्दं तु भुवोर्न्यसेत् ॥ ७॥
चक्षुर्मध्ये न्यसेद्विष्णुं कर्णयोर्मधुसूदनम् ।
त्रिविक्रमं कण्ठमूले वामनं तु कपोलयोः ॥ ८॥
नासारन्ध्रद्वये चापि श्रीधरं कल्पयेद्बुधः ।
उत्तरोष्ठे हृषीकेशं पद्मनाभं तथाऽधरे ॥ ९॥
दामोदरं दन्तपङ्क्तौ वाराहं चुबुके तथा ।
जिह्वायां वासुदेवं च ताल्वोश्चैव गदाधरम् ॥ १०॥
वैकुण्ठं करमध्ये तु अनन्तं नासिकोपरि ।
दक्षिणे तु भुजे विप्रो विन्यसेत्पुरुषोत्तमम् ॥ ११॥
वामे भुजे महायोगं राघवं हृदि विन्यसेत् ।
कुक्षौ पृथ्वीधरं चैव पार्श्वयोः केशवं न्यसेत् ॥ १२॥
वक्षःस्थले माधवं च कक्षयोर्योगशायिनम् ।
पीताम्बरं स्तनतटे हरिं नाभ्यान्तु विन्यसेत् ॥ १३॥
दाक्षिणे तु करे देवं ततस्सङ्कर्षणं न्यसेत् ।
वामे रिपुहरं विद्यात्कटिमध्ये जनार्दनम् ॥ १४॥
पृष्ठे क्षितिधरं विद्यादच्युतं स्कधयोरपि ।
वामकुक्षौ वारिजाक्षं दक्षिणे जलशायिनम् ॥ १५॥
स्वयम्भुवं मेढ्रमध्ये ऊर्वोश्चैव गदाधरम् ।
जानुमध्ये चक्रधरं जङ्घयोरमृतं न्यसेत् ॥ १६॥
गुल्फयोर्नारसिंहं च पादयोरमितत्विषम् ।
अङ्गुलीषु श्रीधर च पद्माक्षं सर्वसन्धिषु ॥ १७॥
नखेषु माधवं चैव न्यसेत्पादतलेऽच्युतम् ।
रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जसु ॥ १८॥
मनोबुद्ध्योरहङ्कारे चित्ते न्यस्य जनार्दनम् ।
अच्युतानन्तगोविन्दान्वातपित्तकफेषु च ॥ १९॥
एवं न्यासविधिं कृत्वा यत्कार्यं द्विज तच्छृणु ।
पादमुले तु देवस्य शङ्खं चैव तु विन्यसेत् ॥ २०॥
वनमालां हृदि न्यस्य सर्वदेवाभिपूजिताम् ॥
गदां वक्षःस्थले न्यस्य चक्रं चैव तु पृष्ठतः ॥ २१॥
श्रीवत्समुरसि न्यस्य पञ्चाङ्गं कवचं न्यसेत् ।
आपादमस्तकं चैव विन्यसेत्पुरुषोत्तमम् ॥ २२॥
एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् ।
तनुर्विष्णुमयी तस्य यत्कञ्चिन्न स भासते ॥ २३॥
अपामार्जनको न्यासस्सर्वव्याधिविनाशनः ।
आत्मनश्च परस्यापि विधिरेष सनातनः ॥ २४॥
वैष्णवेन तु कर्तव्यस्सर्वसिद्धिप्रदायकः ।
विष्णुस्तदूर्ध्वं रक्षेत्तु वैकुण्ठो विदिशो दिशः ॥ २५॥
पातु मां सर्वतो रामो धन्धी चक्री च केशवः ।
एतत्समस्तं विन्यस्य पश्चान्यमन्त्रान् प्रयोजयेत् ॥ २६॥
अथ मूलमन्त्रः -
ॐ नमो भगवते क्लेशापहर्त्रे नमः ।
पूजाकाले तु देवस्य जपकाले तथैव च ।
होमकाले च कर्तव्यं त्रिसन्ध्यासु च नित्यशः ॥ २७॥
आयुरारोग्यमैश्वर्यं ज्ञानं वित्तं फलं लभेत् ।
यद्यत्सुखतरं लोके तत्सर्वं प्राप्नुयान्नरः ॥ २८॥
एवं भक्त्या समभ्यर्च्य हरिं सर्वार्थदायकम् ।
अभयं सर्वभूतेभ्यो विष्णुलोकं स गच्छति ॥ २९॥
श्रीविष्णुलोकं स गच्छत्यों नम इति ॥
इति श्रीविष्णुधर्मोत्तरपुराणे श्रीविष्णुरपामार्जनकवचं सम्पूर्णम् ।
Proofread by PSA Easwaran