विष्णुप्रार्थना
संवत्सरान्ते सुप्तोत्थिते अच्युते करणीया प्रार्थना ।
(VishNu Prayer to be recited on VishNu's waking up after
the end of year-long sleep)
एवं संवत्सरस्यान्ते ततः सुप्तोत्थितेऽच्युते ।
संयक् सम्पूज्य विप्रर्षे तमेव पुरुषोत्तमम् ।
प्रणम्य प्रार्थयेद्विद्वान् शुचिः स्नातो यथाविधि ॥ ११॥
नमो नमस्तेऽच्युत सङ्क्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम् ।
ऐश्वर्यवित्तादि सदाऽक्षयं मेऽक्षया च मे सन्ततिरच्युतास्तु ॥ १२॥
यथाच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतात्परतः परात्मन् ।
तथाच्युतं मे कुरु वाञ्छितं यन्मया पदं पापहराप्रमेय ॥ १३॥
अच्युतानन्त गोविन्द प्रसीद यदभीप्सितम् ।
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ॥ १४॥
एवमन्ते समभ्यर्च्य प्रार्थयित्वा तथाशिषः ।
यथावन्मुनिशार्दूल च्युतिं नाप्नोति मानवः ॥ १५॥
इति विष्णुधर्मेषु षट्विंशोऽध्यायान्तर्गता विष्णुप्रार्थना समाप्ता ।
Proofread by PSA Easwaran