अपामार्जनस्तोत्रम् २ महिमसहितम्
अथोनाशीतितमोऽध्यायः ।
महादेव उवाच -
अथातः संप्रवक्ष्यामि अपामार्जनमुत्ततम् ।
पुलस्त्येन यथोक्तं तु दालभ्याय महात्मने ॥ १॥
सर्वेषां रोगदोषाणां नाशनं मङ्गलप्रदम् ।
तत्तेऽहं तु प्रवक्ष्यामि शृणु त्वं नगनन्दिनि ॥ २॥
पार्वत्युवाच (श्रीदालभ्यौवाच) -
भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवाः ।
दुष्टग्रहाभिभूताश्च सर्वकाले ह्युपद्रुताः ॥ ३॥
अभिचारककृत्यादिबहुरोगैश्च दारुणैः ।
न भवन्ति सुरश्रेष्ठ तन्मे त्वं वक्तुमर्हसि ॥ ४॥ (न भवन्ति मुनिश्रेष्ठ)
महादेव उवाच (श्रीपुलस्त्य उवाच) -
व्रतोपवासैर्नियमैर्विष्णुर्वै तोषितस्तु यैः ।
ते नरा नैव रोगार्ता जायन्ते नगनन्दिनि ॥ ५॥ (जायन्ते मुनिसत्तम)
यैः कृतं न व्रतं पुण्यं न दानं न तपस्तथा ।
न तीर्थं देवपूजा च नान्नं दत्तं तु भूरिशः ॥ ६॥
ते वै लोकाः सदा ज्ञेया रोगदोषप्रपीडिताः ।
आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति ॥ ७॥
तत्तदाप्नोत्यसन्दिग्धं विष्णोः सेवाविशेषतः ।
नाऽऽधिं प्राप्नोति न व्याधिं न विषग्रहबन्धनम् ॥ ८॥
कृत्यास्पर्शभयं चापि तोषिते मधुसूदने ।
समस्तदोषनाशश्च सर्वदा च शुभा ग्रहाः ॥ ९॥
देवानामप्यधृष्योऽसौ तोषिते च जनार्दने ।
यः सर्वेषु च भूतेषु यथाऽऽत्मनि तथाऽपरे ॥ १०॥
उपवासदिनान्ते तु तोषितो मधुसूदनः ।
तोषिते तत्र जायन्ते नराः पूर्णमनोरथाः ॥ ११॥
अरोगाः सुखिनो भोगभोक्तारो नगनन्दिनि ।
तेषां च शत्रवो नैव न च रोगाभिचारिकम् ॥ १२॥
ग्रहरोगादिकं चैव पापकार्यं न जायते ।
अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि वै ॥
रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः ॥ १३॥
पार्वत्युवाच (श्रीदालभ्यौवाच) -
अनाराधितगोविन्दा ये नरा दुःखभाजिनः ।
तेषां दुःखाभिभूतानां यत्कर्तव्यं दयालुभिः ॥ १४॥
पश्यद्भिः सर्वभूतस्थं वासुदेवं सनातनम् ।
समदृष्टिभिरप्यत्र तन्मे ब्रूहि विशेषतः ॥ १५॥
महादेव उवाच (श्रीपुलस्त्य उवाच) -
तद्वक्ष्यामि सुरश्रेष्ठे समाहितमनाः शृणु । (मुनिश्रेष्ठ)
रोगदोषाशुभहरं विद्विडापद्विनाशनम् ॥ १६॥
शिखायां श्रीधरं न्यस्य शिखाधः श्रीकरं तथा ।
हृषीकेशं तु केशेषु मूर्ध्नि नारायणं परम् ॥ १७॥
ऊर्ध्वश्रोत्रे न्यसेद्विष्णुं ललाटे जलशायिनम् ।
विष्णुं वै भ्रुयुगे न्यस्य भ्रूमध्ये हरिमेव च ॥ १८॥
नरसिंहं नासिकाग्रे कर्णयोरर्णवेशयम् ।
चक्षुषोः पुण्डरीकाक्षं तदधो भूधरं न्यसेत् ॥ १९॥
कपोलयोः कल्किनाथं वामनं कर्णमूलयोः ।
शङ्खिनं शङ्खयोर्न्यस्य गोविन्दं वदने तथा ॥ २०॥
मुकुन्दं दन्तपङ्क्तौ तु जिह्वायां वाक्पतिं तथा ।
रामं हनौ तु विन्यस्य कण्ठे वैकुण्ठमेव च ॥ २१॥
बलघ्नं बाहुमुलाधश्चांसयोः कंसघातिनम् ।
अजं भुजद्वये न्यस्य शार्ङ्गपाणिं करद्वये ॥ २२॥
सङ्कर्षणं कराङ्गुष्ठे गोपमङ्गुलिपङ्क्तिषु ।
वक्षस्यधोक्षजं न्यस्य श्रीवत्सं तस्य मध्यतः ॥ २३॥
स्तनयोरनिरुद्धं च दामोदरमथोदरे ।
पद्मनाभं तथा नाभौ नाभ्यधश्चापि केशवम् ॥ २४॥
मेढ्रे धराधरं देवं गुदे चैव गदाग्रजम् ।
पीताम्बरधरं कट्यामूरुयुग्मे मधुद्विषम् ॥ २५॥
मुरद्विषं पिण्डकयोर्जानुयुग्मे जनार्दनम् ।
फणीशं गुल्फयोर्न्यस्य क्रमयोश्च त्रिविक्रमम् ॥ २६॥
पादाङ्गुष्ठे श्रीपतिं च पादाधो धरणीधरम् ।
रोमकूपेषु सर्वेषु विष्वक्सेनं न्यसेद्बुधः ॥ २७॥
मत्स्यं मांसे तु विन्यस्य कूर्मं मेदसि विन्यसेत् ।
वाराहं तु वसामध्ये सर्वास्थिषु तथाऽच्युतम् ॥ २८॥
द्विजप्रियं तु मज्जायां शुक्रे श्वेतपतिं तथा ।
सर्वाङ्गे यज्ञपुरुषं परमात्मानमात्मनि ॥ २९॥
एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् ।
यावन्न व्याहरेत्किञ्चित्तावद्विष्णुमयः स्थितः ॥ ३०॥
गृहीत्वा तु समूलाग्रान्कुशांशुद्धान्समाहितः ।
मार्जयेत्सर्वगात्राणि कुशाग्रैरिह शान्तिकृत् ॥ ३१॥
विष्णुभक्तो विशेषेण रोगग्रहविषार्तिनः । (विषार्दितः)
विषार्तानां रोगिणां च कुर्याच्छान्तिमिमां शुभाम् ॥ ३२॥
जपेत्तत्र तु भो देवि सर्वरोगप्रणाशनम् ।
ॐ नमः श्रीपरमार्थाय पुरुषाय महात्मने ॥ ३३॥
अरूपबहुरूपाय व्यापिने परमात्मने ।
वाराहं नारसिंहं च वामनं च सुखप्रदम् ॥ ३४॥
ध्यात्वा कृत्वा नमो विष्णोर्नामान्यङ्गेषु विन्यसेत् ।
निष्कल्मषाय शुद्धाय व्याधिपापहराय वै ॥ ३५॥
गोविन्दपद्मनाभाय वासुदेवाय भूभृते ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वच ॥ ३६॥ (वचः)
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ।
वाराहाय नृसिंहाय वामनाय महात्मने ॥ ३७॥
हयग्रीवाय शुभ्राय हृषीकेश हराशुभम् ।
परोपतापमहितं प्रयुक्तं चाभिचारिणम् ॥ ३८॥ (चाभिचारिणाम्)
गरस्पर्शमहारोगप्रयोगं जरया जर ।
नमोऽस्तु वासुदेवाय नमः कृष्णाय खङ्गिने ॥ ३९॥
नमः पुष्करनेत्राय केशवायऽऽदिचक्रिणे ।
नमः किञ्जल्कवर्णाय पीतनिर्मलवाससे ॥ ४०॥
महादेववपुःस्कन्धधृष्टचक्राय चक्रिणे ।
दंष्ट्रोद्धृतक्षितितलत्रिमूर्तिपतये नमः ॥ ४१॥
महायज्ञवराहाय श्रीविष्णवे नमोऽस्तु ते ।
तप्तहाटककेशान्तज्वलत्पावकलोचन ॥ ४२॥
वज्राधिकनखस्पर्शदिव्यसिंह नमोऽस्तु ते ।
कश्यपायातिह्रस्वाय ऋग्यजुःसामलक्षण ॥ ४३॥
तुभ्यं वामनरूपाय क्रमते गां नमो नमः ।
वाराहाशेषदुःखानि सर्वपापफलानि च ॥ ४४॥
मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् ।
नरसिंह करालास्यदन्तप्रान्त नखोज्ज्वल ॥ ४५॥
भञ्ज भञ्ज निनादेन दुःखान्यस्याऽऽर्तिनाशन ।
ऋग्यजुःसामभिर्वाग्भिः कामरूपधरादिधृक् ॥ ४६॥
प्रशमं सर्वदुःखानि नय त्वस्य जनार्दन ।
ऐकाहिकं व्द्याहिकं च तथा त्रिदिवसं ज्वरम् ॥ ४७॥
चातुर्थिकं तथाऽनुग्रं तथा वै सततज्वरम् ।
दोषोत्थं सन्निपातोत्थं तथैवाऽऽगन्तुकज्वरम् ॥ ४८॥
शमं नयतु गोविन्दो भित्त्वा छित्त्वाऽस्य वेदनम् ।
नेत्रदुःखं शिरोदुःखं दुःखं तूदरसम्भवम् ॥ ४९॥
अनुच्छ्वासं महाश्वासं परितापं तु वेपथुम् ।
गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगं तथा क्षयम् ॥ ५०॥
कामलादींस्तथा रोगान्प्रमेहादींश्च दारुणान् ।
ये वातप्रभवा रोगा लूताविस्फोटकादयः ॥ ५१॥
ते सर्वे विलयं यान्तु वासुदेवापमार्जिताः ।
विलयं यान्ति ते सर्वे विष्णोरुच्चारणेन वा ॥ ५२॥
क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः ।
अच्युतानन्तगोविन्दनामोच्चारणभेषजात् ॥ ५३॥
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ।
स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् ॥ ५४॥
दन्तोद्भवं नखोद्भूतमाकाशप्रभवं च यत् ।
भूतादिप्रभवं यच्च विषमत्यन्तदुःसहम् ॥ ५५॥
शमं नयतु तत्सर्वं कीर्तितोस्य जनार्दनः ।
ग्रहान्प्रेतग्रहांश्चैव तथाऽन्यांशाकिनीग्रहान् ॥ ५६॥
मुखमण्डलकान्कूरान्रेवतीं वृद्धरेवतीम् ।
वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ॥ ५७॥
बालस्य विष्णोश्चरितं हन्ति बालग्रहानपि ।
वृद्धानां ये ग्रहाः केचिद्बालानां चापि ये ग्रहाः ॥ ५८॥
नृसिंहदर्शनादेव नश्यन्ते तत्क्षणादपि ।
दंष्ट्राकरालवदनो नृसिंहो दैत्यभीषणः ॥ ५९॥
तं दृष्ट्वा ते ग्रहाः सर्वे दूरं यान्ति विशेषतः ।
नरसिंह महासिंह ज्वालामालोज्ज्वलानन ॥ ६०॥
ग्रहानशेषान्सर्वेश नुद स्वास्यविलोचन ।
ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ॥ ६१॥
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ।
शस्त्रक्षतेषु ये रोगा ज्वालागर्दभकादयः ॥ ६२॥
विस्फोटकादयो ये च ग्रहा गात्रेषु संस्थिताः ।
त्रैलोक्यरक्षाकर्तस्त्वं दुष्टदानववारण ॥ ६३॥
सुदर्शनमहातेजश्छिन्धि च्छिन्धि महाज्वरम् ।
छिन्धि वातं च लूतं च च्छिन्धि घोरं महाविषम् ॥ ६४॥
उद्दण्डामरशूलं च विषज्वालासगर्दभम् ।
ॐ ह्रांह्रांह्रूंह्रूं प्रधारेण कुठारेण हन द्विषः ॥ ६५॥
ॐ नमो भगवते तुभ्यं दुःखदारणविग्रह ।
यानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै ॥ ६६॥
तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः ।
किञ्चिद्रूपं समास्थाय वासुदेव नमोऽस्तु ते ॥ ६७॥
क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभीषणम् ।
सर्वदुष्टोपशमनं कुरु देववराच्युत ॥ ६८॥
सुदर्शन महाचक्र गोविन्दस्य वरायुध ।
तीक्ष्णधार महावेग सूर्यकोटिसमद्युते ॥ ६९॥
सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव ।
सर्वदुःखानि रक्षांसि पापानि च विभीषण ॥ ७०॥
दुरितं हन चाऽऽरोग्यं कुरु त्वं भोः सुदर्शन ।
प्राच्यां चैव प्रतीच्यां च दक्षिणोत्तरतस्तथा ॥ ७१॥
रक्षां करोतु विश्वात्मा नरसिंहः स्वगर्जितैः ।
भूम्यन्तरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः ॥ ७२॥
रक्षां करोतु भगवान्बहुरूपी जनार्दनः ।
(तथा विष्णुमयं सर्वं सदेवासुरमानुषम्) ॥ ७३॥
तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ।
यथा योगेश्वरो विष्णुः सर्ववेदेषु गीयते ॥ ७४॥
तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ।
परमात्मा यथा विष्णुर्वेदाङ्गेषु च गीयते ॥ ७५॥
तेन सत्येन विश्वात्मा सुखदस्तस्य केशवः ।
शान्तिरस्तु शिवं चास्तु प्रणाशं यातु चासुखम् ॥ ७६॥
वासुदेवशरीरोत्थैः कुशैः सम्मार्जितं मया ।
अपामार्जितगोविन्दो नरो नारायणस्तथा ॥ ७७॥
तथाऽपि सर्वदुःखानां प्रशमो वचनाद्धरेः ।
शान्ताः समस्तदोषास्ते ग्रहाः सर्वे विषाणि च ।
भूतानि च प्रशाम्यन्ति संस्मृते मधुसूदने ॥ ७८॥
एते कुशा विष्णुशरीरसम्भवा
जनार्दनोऽहं स्वयमेव चाग्रतः ।
हतं मया दुःखमशेषमस्य वै
स्वस्थो भवत्वेष वचो यथा हरेः ॥ ७९॥
शान्तिरस्तु शिवं चास्तु प्रणश्यत्वसुखं च यत् ।
यदस्य दुरितं किञ्चित्क्षिप्तं तल्लवणाम्भसि ॥ ८०॥
स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात् ।
यद्यतोऽत्र गतं पापं तत्तु तत्र प्रगच्छतु ॥ ८१॥
एतद्रोगेषु पीडासु जन्तूनां हितमिच्छुभिः ।
विष्णुभक्तैश्च कर्तव्यमपामार्जनकं परम् ॥ ८२॥
अनेन सर्वदुःखानि विलयं यान्त्यशेषतः ।
सर्वपापविशुद्ध्यर्थं विष्णोश्चैवापमार्जनात् ॥ ८३॥
आर्द्रं शुष्कं लघु स्थूलं ब्रह्महत्यादिकं तु यत् ।
तत्सर्वं नश्यते तूर्णं तमोवद्रविदर्शनात् ॥ ८४॥
नश्यन्ति रोगा दोषाश्च सिंहात्क्षुद्रमृगा यथा ।
ग्रहभूतपिशाचादि श्रवणादेव नश्यति ॥ ८५॥
द्रव्यार्थं लोभपरमैर्न कर्तव्यं कदाचन ।
कृतेऽपामार्जने किञ्चिन्न ग्राह्यं हितकाम्यया ॥ ८६॥
निरपेक्षैः प्रकर्तव्यमादिमध्यान्तबोधकैः ।
विष्णुभक्तैः सदा शान्तैरन्यथाऽसिद्धिदं भवेत् ॥ ८७॥
अतुलेयं नृणां सिद्धिरियं रक्षा परा नृणाम् ।
भेषजं परमं ह्येतद्विष्णोर्यदपमार्जनम् ॥ ८८॥
उक्तं हि ब्रह्मणा पूर्वं पौ(पु)लस्त्याय सुताय वै ।
एतत्पुलस्त्यमुनिना दालभ्यायोदितं स्वयम् ॥ ८९॥
सर्वभूतहितार्थाय दालभ्येन प्रकाशितम् ।
त्रैलोक्ये तदिदं विष्णोः समाप्तं चापमार्जनम् ॥ ९०॥
तवाग्रे कथितं देवि यतो भक्ताऽसि मे सदा ।
श्रुत्वा तु सर्वं भक्त्या च रोगान्दोषान्व्यपोहति ॥ ९१॥
इति श्रीमहापुराणे पाद्मे उत्तरखणे उमामहेश्वरसंवादे
(दालभ्यपुलस्त्यसंवादे) विष्णोरपामार्जनस्तोत्रं सम्पूर्णम् ।
(अपामार्जनस्तोत्रस्तोत्रकथनं नामोनाशीतितमोऽध्यायः ॥ ७९/८० ॥)
अथाशीतितमोऽध्यायः ।
महादेव उवाच-
अपामार्जनकं दिव्यं परमाद्भुतमेव च ।
पठितव्यं विशेषेण पुत्रकामार्थसिद्धये ॥ १॥
एतत्स्तोत्रं पठेत्प्राज्ञः सर्वकामार्थसिद्धये ।
एककालं द्विकालं वा ये पठन्ति द्विजातयः ॥ २॥
आयुश्च श्रीर्बलं तेषां वृद्धिं यान्ति दिने दिने ।
ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमेव वा ॥ ३॥
वैश्यो धनसमृद्धिं च शूद्रो भक्तिं च विन्दति ।
अन्यश्च लभते भक्ति पठनाच्छ्रवणाज्जपात् ॥ ४॥
सामवेदफलं तस्य जायते नगनन्दिनि ।
अखिलः पापसङ्घातस्तत्क्षणादेव नश्यति ॥ ५॥
इति ज्ञात्वा तु भो देवि पठितव्यं समाहितैः ।
पुत्राथैव तथा लक्ष्मीः सम्पूर्णा भवति ध्रुवम् ॥ ६॥
लिखित्वा भूर्जपत्रे तु यो धारयति वैष्णवः ।
इह लोके सुखं भुक्त्वा याति विष्णोः परं पदम् ॥ ७॥
पठित्वा श्लोकमेकं तु तुलसीं यः समर्पयेत् ।
सर्व तीर्थे कृतं तेन तुलस्याः (स्या) पूजने कृते ॥ ८॥
एतत्स्तोत्रं तु परमं वैष्णवं मुक्तिदायकम् ।
पृथिवीदानमात्रेण विष्णुलोकं तु गच्छति ॥ ९॥
जपेत्स्तोत्रं विशेषेण विष्णुलोकस्य वाञ्छया ।
बालानां जीवनार्थाय पठितव्यं समाहितैः ॥ १०॥
रोगग्रहाभिभूतानां बालानां शान्तिकारकम् ।
भूतग्रहविषं चैव पठनादेव नश्यति ॥ ११॥
कण्ठे तुलसिजां मालां धृत्वा विमो हि यः पठेत् ।
स च वै वैष्णवो ज्ञेयो विष्णुलोकं स गच्छति ॥ १२॥
कण्ठे माला धृता येन शङ्खचक्रादिचिह्नितः ।
वैष्णवः प्रोच्यते विप्रः स्तोत्रं चैतत्पठन्सदा ॥ १३॥
इहलोकं परित्यज्य विष्णुलोकं स गच्छति ।
मोहमायापरित्यक्तो दम्भतृष्णाविवर्जितः ॥ १४॥
एतत्स्तोत्रं पठन्दिव्यं परं निर्वाणमामुयात् ।
ते धन्याः सन्ति भूर्लोके ये विमा वैष्णवाः स्मृताः ॥ १५॥
स्वात्मा वै तारितस्तैस्तु सकुलो नात्र संशयः ।
ते वै धन्यतमा लोके नारायणपरायणाः ।
तैर्भक्तिश्व सदा कार्या ते वै भागवता नराः ॥ १६॥
इति श्रीमहापुराणे पाद्मे उत्तरखण्डे उमामहेश्वरसंवादेऽपामार्जनमहिमकथनं
नामाशीतितमोऽध्यायः ॥ ८०/८१॥
Proofread by NA