श्रीविष्णोरकाराद्यष्टोत्तरशतनामार्थविवरणम्
(श्रीविष्णुसहस्रनामावल्यन्तर्गतं)
अतीतोऽ यं क्षरं यस्मात् अक्षरः प्रोच्यते ततः । १७
अयं न जायते यस्मात् अज इत्युच्यते ततः ॥ ९५
अयं न च्यवते यस्मात्स्वस्थितेरच्युतस्ततः । १००
अमोघो यस्य सङ्कल्पो मोघो च स्यात्कदाचन ॥ ११०
अनिरुद्धो न केनापि निरुद्धः संयुगादिषु । १८५
अयं ह्यनिमिषो नित्यं जागरूकोऽवनादिषु ॥ २१५
अग्रे सर्वस्य नेतृत्वाद् अग्रणीः उच्यते प्रभुः । २१८
अव्ययोऽयं सर्वगतिःन व्येति च कुतश्चन ॥ १३
अनादित्वादनन्तत्वात् अनादिनिधनो ह्यसौ । ४३
अमेयात्मा यतो ह्यात्मा मानैर्मातुं च शक्यते ॥ १०१
असम्मितो यतो नास्य देशकालव्यवस्थितिः । १०८
अनिलो यस्य नाधारः सर्वभूतधरो ह्यसौ ॥ २३४
अगम्यत्वात्प्रमाणानां अप्रमेय इति स्मृतः । ४७
अपक्षयविहीनत्वात्पुनरेवायमव्ययः ॥ ३१
अग्राह्यात्वान्मनोवाचांअग्राह्य इति कीर्त्यते । ५६
अमृतः कीर्तितो यस्मान्नित्यो मरणवर्जितः ॥ ११९
अव्यङ्गो हरिरेवस्याद्यतः सर्वाङ्गसुन्दरः । १२९
अच्युतोऽयं यतो भक्तान्न कदापि विमुञ्चति ॥ १००
अतुलो यस्य नास्त्येव सदृशो भुवनत्रये । ३५५
अतीन्द्रोऽयं यतो वीर्यादिन्द्रमत्येति भूरिशः ॥ १५७
अतीन्द्रियो यतोऽगम्य इन्द्रियैश्चक्षुरादिभिः । १६९
अग्राह्यश्चक्षुषा बुद्ध्या ततोऽदृश्यः स उच्यते ॥ ५६
अशक्यत्वात्सुनिर्देष्टुमनिर्देश्यवपुः स्मृतः । १७७
अन्तकत्वात्स सर्वेषां प्राणिनामन्तकः स्मृतः ॥ ५२०
अनुत्तमो यतस्तस्मादुत्तमो नैव विद्यते । ८१
अनघोऽयं सदा शुद्धः पापसंसर्गवर्जितः ॥ १४६
अमोघा यस्य पादाब्जसेवा मोघा कदापि न । १५४
अयं स्यादप्रमेयात्मा यः प्रत्यक्षाद्यगोचरः ॥ २४८
अशेषस्यापि लोकस्य ह्यत्तृत्वादमिताशनः । ३७२
अहः संवर्तको यस्माद्दिवसानां प्रवर्तकः ॥ २३२
अनन्तजिद्यतो जेता सर्वेषामपि युध्यताम् । ३०७
अनुत्पन्नः कदापीति सोऽभूरित्यभिधीयते ॥ ४३७
अजितो यो न केनापि कदाचिदपि निर्जितः ॥ ५४९
अच्युतः सततं सिद्धः च्युतिहेतोरभावतः ॥ ५५२
अनन्तगुणसम्पत्तेः असङ्ख्येयः स उच्यते । २४७
एष एवामृतवपुः यद्वपुर्मृतिवर्जितम् ॥ ८१४
अर्थोऽसावर्थ्यमानत्वात्पुरुषार्थस्वरूपतः । ४३०
अनर्थोऽयं यतो लोके तेन प्रार्थ्यं च किञ्चन ॥ ४८१
अमेयो विक्रमो यस्य प्रोच्यतेऽमितविक्रमः । ५१६
अविज्ञाता यतो भिन्नो विज्ञातुः जीवशब्दितात् ॥ ४८२
अक्षिणी यस्य पद्माभे सोऽरविन्दाक्ष ईर्यते । ३४७
अनुकूलः स सर्वेषां स्थितिरक्षणतत्परः ॥ ३४२
अहस्करस्वरूपत्वादेषोऽप्यहरितीर्यते । ९०
अपां निधिर्यतस्तस्य स्याद्विभूतिर्हि सागरः ॥ ३२३
अमृतांशूद्भवस्तस्मात् चन्द्रस्यापि समुत्थितेः । २८३
अमृत्युः स यतो मृत्योरपि मृत्युर्भवत्यसौ ॥ १९८
अमराणामशेषाणां प्रभुत्वादमरप्रभुः । ४९
अक्षरो च क्षरत्येष सच्चिदानन्दलक्षणात् ॥ १७
अगाधत्वाद्गभीरत्वादम्भोनिधिरिति स्मृतः । ५१७
अशेषवस्तुरूपत्वादनन्तात्मेति विश्रुतः ॥ ५३८
अज इत्युच्यते विष्णुर्विराड्रूपेण संस्थितेः । २०४
अनलः कीर्त्यते विष्णुः परञ्ज्योतिःस्वरूपतः ॥ २९३
असदित्युच्यते तस्य नागरूपाद्यभावतः । ४७९
अधः कृत्वाऽक्षजा वृत्तीः ज्ञेयस्तस्मादधोक्षजः ॥ ४१५
अशोको नित्यमेवासौ नित्यानन्दस्वरूपतः । ३३६
निजानन्दसुधापाननिरतोऽमृतपः स्मृतः ।
अनीशः खलु सर्वेषां ईशानोऽयमिति स्मृतेः । ६२६
अशेषबन्धनिर्मुक्तो योऽनिरुद्धः स एव हि । ६३८
अनवच्छिन्नशौर्यत्वात्प्रोच्यतेऽमितविक्रमः ॥ ६४१
अनिर्विण्णः सदैवासौ नित्यतृप्तस्वभावतः । ४२५
अनयोऽयं यतो नेता नास्ति लोकत्रयेऽपि च ॥ ४००
अनन्तो योऽपरिच्छिन्नो देशकालान्यवस्तुभिः । ५२८
अयमेवाविधेयात्मा स्वतन्त्रः सर्वथा सदा । ६२१
अपराजित इत्युक्तो यस्य नास्ति पराजितिः ॥ ७१६
अधिष्ठानं प्रपञ्चस्य मायाकल्पितवस्तुनः । ३२४
अनन्तं यस्य चैश्वर्यं अनन्तश्रीः स एव हि ॥ ९३३
अप्रमत्तो भवेद्यस्मात्प्रमादरहितः सदा । ३२५
अशेषस्य लये मुक्तौ प्राप्यत्वादप्ययः सदा ॥ ९००
अशेषाणां च भूतानां पुरा सिद्धोऽग्रजः स्मृतः । ८९१
अयोनिजो यतो नास्य कर्माधीना जनिर्भवेत् ॥ ५७३
अनिवर्ती निवर्तन्ते यं प्राप्य न कदाचन । ५९६
अर्को भास्करमध्यस्थज्योतीरूपेण संस्थितेः ॥ ७९५
अनिर्देश्यवपुर्यस्मान्निर्देशार्हं न तद्वपुः । ६५६
अशेषैः पूज्यमानैश्च पूज्यमानोऽर्चितः खलु ॥ ६३४
अर्चिस्मान्दीप्तिमानेष स्वयञ्ज्योतिः स्वभावतः । ६३३
रथी चास्य समो नैव तेनाप्रतिरथः स्मृतः ॥ ६३९
अन्तो नास्त्यस्य रूपस्यानन्तरूपो भवत्यतः । ९३२
अनिशं जयशीलोऽसौ तस्मात्प्रोक्तोऽपराजितः ॥ ८६२
अनामयो यतो व्याधिराधिर्वाऽस्य च जायते । ६८९
अनलोऽग्निसमानोऽयं तेजःपुञ्जस्वभावतः ॥ ७११
अस्य क्षोभणकृन्नैव विद्यतेऽक्षोभ्य एव सः । ९९९
अनेकमूर्तरित्युक्तः सर्वास्तस्यैव मूर्तयः ॥ ७२१
अमूर्तिमान्निगूढत्वान्मूर्तिमत्स्वखिलेष्वपि । ७२०
अमृताशः स्वयं चाश्नत्प्राशयत्यमृतं सुरान् ॥ ८१३
अचलो व्याप्तरूपत्वात्क्वचित् चलनवर्जितः । ७४५
अहङ्कारादिमानित्वरिक्तोऽमानीति कीर्त्यते ॥ ७४७
अधृतोऽन्येन केनापि स्वयं धत्तेऽखिलं जगत् ॥ ८४२
अणीयान्न यतः कश्चित्तस्मादणुरिति स्मृतः ॥ ८३५
अनिलो वायुरूपेण चेष्टयत्यखिलं जगत् । ८१२
अचिन्त्यरचनारूपजगत्स्रष्टाऽद्भुतः किल ॥ ८९५
अमूर्तिः स यतस्तस्य मूर्तिः काऽपि न विद्यते । ८३०
अर्हः पूज्यतमैः सर्वैः पूज्यमानो निरन्तरम् ॥ ८७०
अभिप्रायः स सर्वेषां प्राणिनां मनसि स्थितः । ८७१
अचिन्त्योऽयं यतश्चिन्ताविषयो न कदाचन ॥ ८३२
अनिर्विण्णः सदाऽऽनन्दी निर्वेदस्याप्रसक्तितः । ८९२
अजन्यत्वात्सदासिद्धो ह्यनादिः स सनातनः ॥ ९४१
अयं भोज्यस्वरूपेण स्थितत्वादन्नमुच्यते । ९८३
अयं भोक्तृस्वरूपेण तिष्ठन्नन्नाद उच्यते ॥ ९८४
अनुत्पन्नस्वभावत्वादज इत्युच्यते बुधैः । ५२१
अव्यक्तो नामरूपादिव्यञ्जकानामभावतः ॥ ७२२
अक्रूरः कूरचेष्टानां हिंसादीनां विवर्जनात् । ९१५
अमेयात्मा न मानार्हः आत्मा यस्य च केनचित् ॥ १७९
अघस्पर्शविहीनत्वादनघः सर्वदाऽपि सः । ८३१
अश्वत्थः प्रोच्यते देवोऽस्थिरलोकस्वरूतः ॥ ८२४
अक्षोभ्यः क्षोभ्यमाणोऽपि न क्षुब्धो भवति क्वचित् । ९९९
अरौद्रो रौद्रवृत्तीनां क्रोधादीनामभावतः ॥ ९०६
अन्यधातृविहीनत्वादधातेति स कीर्त्यते । ९५१
अन्तवत्सु स्थितोऽप्येष ह्यनन्तो नाशवर्जितः ॥ ५३६
इति श्रीज्ञानानन्दभारतीस्वामिविरचितं
विष्णोरकाराद्यष्टोत्तरशतनामार्थविवरणं सम्पूर्णम् ।
Proofread by PSA Easwaran