विष्णोः माहात्म्यम्
%१२
विष्णोर्हास्यमसौ माया तदाधारा जडाधमा
प्रध्वंसोऽस्या अनादेश्च विष्णोः पदविलोचनात् ॥ १॥
देवानां परमो विष्णुरवमोऽग्निरिति श्रुतेः ।
अयं विष्णुरजोऽनादिरनन्तो विश्वकारणः ॥ २॥
सूरयस्तत्पदं श्रेष्ठं सदा पश्यन्ति नेतरे ।
वीर्याणि तस्य कोऽप्यत्र न वेदोरुक्रमस्य च ॥ ३॥
प्रागुत्पाद्य विधिं नाभेर्वेदान्दत्वा ततो जगत् ।
उत्पादयत्यसावेव बुद्धिदीपो मुमुक्षुराट् ॥ ४॥
भीत्याप्यधिकृता यस्मा उद्वहन्ति बलिं सुराः ।
माययाऽश्नन्त्यन्यदत्तं सम्राज्ञ इव भूमिपाः ॥ ५॥
यस्य भ्रूभङ्गमात्रेण त्रिलोकी नश्यति क्षणात् ।
इच्छामात्रे पुनर्जाते सेश्वरोत्पद्यते च सा ॥ ६॥
आत्मभूतस्यास्य शत्रुः स क्रूरो यात्यधोगतिम् ।
दुरत्ययामपि घ्नन्ति मायां यद्रूपचिन्तकाः ॥ ७॥
अर्वाचीनाः सुराः केऽपि न विदुर्यं तदुद्भवाः ।
स सर्वज्ञोऽपि चात्मानं कार्त्स्न्यान्नो वेद वेद वा ॥ ८॥
यस्यैकपादियं माया त्रिपादस्यामृतं दिवि ।
स देवदेवदेवेशः कथं नार्च्यस्त्रिविक्रमः ॥ ९॥
श्रीवैष्णवैशगाणेशसौर्यशाक्त्यादिरूपधृक् ।
दत्तात्रेयोऽस्त्वजोऽनन्तः सदा मे हृदि सद्गुरुः ॥ १०॥
कृत्वैकदेशभकिन्त ये मात्सर्येण द्विषन्ति च ।
अन्यदेवं च तद्भक्तं ते यान्ति नरकं ध्रुवम् ॥ ११॥
विष्णुः शिवो गणेशोऽर्कः शक्तिश्चेति पृथङ् न हि ।
एकोऽजः पञ्चधा जातः कुतो भेदोऽस्ति दैवतैः ॥ १२॥
एतानीशाङ्गानि तृप्येदेकस्यापीह तर्पणात् ।
यथास्याक्ष्यादितृप्त्याङ्गी चोद्विजेदेकनिन्दया ॥ १३॥
देवद्रोहस्ततस्त्याज्यस्तद्भक्तस्यापि सर्वदा ।
यथारुचीश्वरः सेव्यो नान्यथा भेदमाचरेत् ॥ १४॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं विष्णोः माहात्म्यं सम्पूर्णम् ।