श्रीविंशत्यक्षरीध्यानम्
श्रीमत्यां द्वारवत्यां नवकनकमये भूतले रत्ननद्योः
मध्ये कल्पद्रमाधो विविधमणिलसन्मण्डपे सन्निविष्टम् ।
चक्रं शङ्खं च वेणुं नलिनमथ गदां योगमुद्रां दधानं
वन्दे संसिच्यमानं मणिमयकलशैर्वल्लभाभिर्मुकुन्दम् ॥ १॥
इति श्रीविंशत्यक्षरीध्यानं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan