श्रीवेङ्कटेश्वरस्तुतिमणिमाला
विश्वं सर्वमिदं चराचरमयं यः स्वेच्छया निर्ममे
तच्चैतज्जननीव रक्षति सदा यः शक्तिमान् लीलया ।
अन्ते नाशयते दशैव निखिलं यो देवराजः क्षणात्
तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ १॥
स्तोतुं यं प्रभवन्ति नैव निखिला वेदाश्च शास्त्राणि षट्
न ब्रह्मा चतुरः, सहस्रवदनः शेषोऽपि शक्तस्तथा ।
विद्वांसः कवयः सुकाव्यनिपुणा न प्राभवन् यत्स्तवे
तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ २॥
चन्द्रोऽयं वसुधामिमां स्नपयते स्वीयैः सुधारश्मिभिः
ध्वान्तं सर्वमिदं विनाश्य गगने देदीप्यते भास्करः ।
मेघो वर्षति वात्ययं च पवनो यस्य प्रभोराज्ञया
तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ३॥
आन्ध्रे सुप्रथिते पुरे तिरुपतौ यस्याग्रजो विश्रुतो
वासं स्वीकृतवान् विपत्रशरणं गोविन्दराजः प्रभुः ।
पद्मा पद्ममुखी चकार वसतिं मङ्गापुरे यत्प्रिया
तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ४॥
रम्ये पर्वतसप्तके विरचितो यस्यास्ति देवालयः
पाषाणैः सुदृढैर्विनिर्मितदृढप्राकारसंवेष्टितः ।
उत्तुङ्गः कलशः सुवर्णखचितो यन्मन्दिरे राजते
तस्मैः नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ५॥
मत्स्योऽभूत् प्रथमं ततः समभवत् कर्मो वराहश्च यः
प्रह्लादस्य कृते नृसिंहतनुभाग् यो वामनो भार्गवः ।
रामो यश्च हरिस्तथा च सुगतो यः स्याच्च कल्किः कलौ
तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ६॥
ग्रामो वेङ्कटपर्वते तिरुमला वैकुण्ठलोकोऽपरः
तत्रैतत् सकलं हिरण्यबहुलं लोकातिगं वैभवम् ।
``आनन्दे निलये'' सुवर्णरचिते रम्ये विमानेऽस्ति यः
तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ७॥
मूर्तिकृष्णमयी सुललिता या दृष्टिसौख्यप्रदा
यामायान्ति विलोकितुं प्रतिदिनं भक्ताश्च लक्षाधिकाः ।
स्वर्णं रत्नयुतं च हीरकमयं यस्यातुलं वैभवं
तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ८॥
वक्तुं द्रष्टुमपि प्रभुर्न मनुजो यत्प्रेरणाया ऋते
नो चेत्सत्यमिदं कथं रचयितुं मादृग् जनः स्यात् प्रभुः ।
मूकं या कुरुते बृहस्पतिसमं ह्येतादृशी यत्कृपा
तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ९॥
भूस्त्वं वारि कृशानुरेवमनिलः खं भास्करस्त्वं शशी
विश्वं स्थावरजङगमात्मकमिदं त्वद्रूपमेतत् खलु ।
यद्यद् ब्रह्मतृणान्तमेतदखिलं श्रीवेङ्कटेशात्मकं
इत्येवंविधभावना शुभतमा जागर्तु शश्वद् हृदि ॥ १०॥
विद्यां सत्त्ववतीं प्रयच्छ भगवन् ! सत्कीर्तिदां में शुभां
विद्यादानपरान् गुरूनपि विभो ! मां सर्वदा प्रापय ।
श्रद्धेया गुणिनो भवन्तु सुहृदो ये मां न जह्युः क्वचित्
यल्लभ्येत मया तवैव कृपया तेनास्तु तुष्टिर्मम ॥ ११॥
इति श्रीवेङ्कटेश्वरस्तुतिमणिमाला समाप्ता ।
रचनाकारः पं. पु. म. जोशी (सांगली)
Composed by Pandit Pu. Ma. JoshI from Sangali
Encoded and proofread by Mandar Mali aryavrutta at gmail.com