श्रीवेङ्कटेश्वरशतकम्
विधाय गुरुवन्दनं महितविघ्नराड्वन्दनं
मदिष्टसुरवन्दनं तदनु भारतीवन्दनम् ।
अमन्दबुधवन्दनं निखिलविद्वदानन्दनं
वदामि शतकं बुधा वृषगिरीश्वरानन्दनम् ॥ १॥ (शतकं मुदा)
श्रीमद्वेङ्कटनायकार्यपृतनापालस्य यस्याज्ञया
यद्वेत्राग्रविचालने त्रिभुवनं संरक्षितावस्थितम् ।
प्रत्यूहाद्रिविभेदनाशनिनिभं मोक्षप्रदं ज्ञानिनां
वन्दे सूत्रवतीपतिं तमनघं विघ्नोपशान्त्यै सदा ॥ २॥
पूर्वं व्यासपतञ्जलिप्रभृतिभिर्यच्छास्त्रषट्कं कृतं
धात्रा वेदचतुष्टयं विखनसा सूत्रं च यद्यत्कृतम् ।
तेषां तत्त्वपदार्थवेदिनमहं वेदान्तवंशाम्बुधे
राकाचन्द्रमनन्तदीक्षितगुरुं वन्दे श्रितज्ञानदम् ॥ ३॥
श्रीमद्वेङ्कटनायकक्षितिपतेरक्षीणलक्ष्मीवतः
क्षोणीं काङ्क्षय चित्रवाटनगरे तस्मै सुपुत्रं दिशेः । (क्षोणीकाङ्क्षित)
क्षोणीरक्षणदक्षमक्षयकृपावीक्षासुसंरक्षित-
क्षोणीनिर्जरद[प]क्षमक्षयसुखापेक्षावतामिष्टदम् ॥ ४॥
शारदाम्बुजविभासुरानना
शारदा मदवने विशारदा ।
शारदेन्दुधवला ममानने
सर्वदा वसतु सर्वदादरात् ॥ ५॥
सच्छात्रवृन्दं यदपाङ्गदृष्टया
षट्शास्त्रवेदाकलनक्षमं स्यात् ।
तेभ्यो महद्भयोऽखिलगूसुरेभ्यो
नमो नमो भागवतोत्तमेभ्यः ॥ ६॥
श्रीवेङ्कटेश्वर मया क्रियतेऽधुना ते ।
विज्ञापना सुमहती भृणु तां दयालो ।
कृत्वापराधमनिशं शरणागतं मां
रक्षस्व देव कृपया क्षमया च युक्तः ॥ ७॥
श्रीवेङ्कटेश्वर विभो मयि तेऽनुकम्पा
यद्यस्ति संस्तुतिमहं करवाणि शक्त्या ।
नो चेत् कथं सुरवरैर्मनसोऽप्यगम्यां
ब्रह्मादिभिश्च वचसः प्रभवामि कर्तुम् ॥ ८॥
श्रीवेङ्कटेश्वर विमो भवता प्रणीतं
कर्माखिलं न सुकरं चिदभूदवेद्या ।
मत्वाप्यशक्यमिति ते भजनं प्रपत्तुं
स्मृत्वा दृढोऽस्मि चरमं वचनं तवाहम् ॥ ९॥
श्रीवेङ्कटेश्वर विभो न मयाप्यधीतं
तप्तं तपो न हि हुतं न च नास्ति दत्तम् ।
आराधनं न विधिना कृतमेव ते मां
चित्राडवास कृपया परिपाहि दीनम् ॥ १०॥
श्रीवेङ्कटेश्वर विभो भवता च सर्वं
ज्ञातं मया न हि मदस्ति समोऽधिको वा ।
त्राताप्ययं मदवनीय इतीह लोके
चित्राडवास परिपालय मां दयालो ॥ ११॥
श्रीवेङ्कटेश्वर विभो करणत्रयेण
कालत्रये दुरितमेव कृतं मयासीत् ।
तस्मान्निवारणकृते तव चास्ति शक्ति-
र्विष्णो विमोचयतु मां दुरितात् कृपा ते ॥ १२॥
श्रीवेङ्कटेश्वर कृता भवता प्रतिज्ञा
मामेकमेव शरणं व्रज सर्वधर्मान् ।
त्यक्त्वाथ सर्वदुरितादपि मोक्षयिष्ये
त्वामेव चाहमिति या ननु मा शुचस्त्वम् ॥ १३॥
श्रीविङ्कटेश्वर निशम्य तव प्रतिज्ञां
तां प्रत्ययात् पदमहं शरणं प्रपन्नः ।
मां पाहि सर्वदुरितात् परिमोचयित्वा
चित्राडवास भगवन् भव सत्यसन्धः ॥ १४॥
श्रीवेङ्कटेदवरभुजान्तरमास सद्म
यस्यास्तु जन्म वसुधा तव धाम चेष्टम् ।
यद्वीक्षणाश्रयमिदं जगतां त्रयं स्या-
द्बद्धस्त्वयाम्बुधिरमन्थि च यत्कृतेऽभूत् ॥ १५॥
श्रीवेङ्कटेश्वर विभो दयितां श्रियं तां
रूपेण चेष्टितगुणैर्भवतोऽनुरूपाम् ।
त्वद्वल्लभां भगवती कृपया श्रिताना-
मिष्टार्थदामुदधिजां प्रणमामि नित्यम् ॥ १६॥
श्रीवेङ्कटेश्वर विभो कृपणाय मह्यं
दातुं त्वमर्हसि धियं गुणकीर्तने ते ।
चित्राडवास शरणागतवत्सलत्वात्
त्वत्पादपद्ममनिशं शरणागतोऽस्मि ॥ १७॥
श्रीवेङ्कटेश्वर जनार्दन वासुदेव
गोविन्द माधव हरेऽच्युत कृष्ण विष्णो ।
श्रीकेशव त्रिभुवनेश मुकुन्द राम
नारायणेति सततं स्मरणं करिष्ये ॥ १८॥
श्रीवेङ्कटेश्वर विभो शरणागतस्य
चित्ते ममास्तु सततं तव पादभक्तिः ।
संसारसागरवितारणमिच्छतां नौ-
र्मोहान्धकारविनिवारणसूर्यरश्मिः ॥ १९॥
श्रीवेङ्कटेश्वर भवच्चरणारविन्द
ध्यानामृताम्बुधिविगाहननिर्मलात्मा ।
ब्रह्मादिभिस्तव कृपारहितैर्यदीदृग्-
गच्छाम्यगम्यपदमन्यजनैः कदा ते ॥ २०॥
श्रीवेङ्कटेश्वर सुदर्शनपाञ्चजन्यौ
पञ्चायुधान्यहमनन्यमनाः स्मरामि ।
कौमोदकीप्रवरनन्दकदीप्य शार्ङ्गा- (नन्दकदीप्र)
ण्यज्ञानकाण्डपटुदैत्यनिबर्हणानि ॥ २१॥
श्रीवेङ्कटेश्वरविभुं शिरसा नमामि
ध्यायाम्यनन्यमनसा वचसा वदामि ।
चित्राडवासमुरसा श्रियमादधानं
हस्तद्वयेन कुसुमैरपि पूजयामि ॥ २२॥
श्रीवेङ्कटेश्वरविभुं जगति स्थितानां
संसारमाकलयतां मनसाप्यसारम् ।
हिंसाकरासुरतमिस्रनिरासहंसं (सूर्यः)
कंसासुरारिमनिशं शिरसा नमामि ॥ २३॥
श्रीवेङ्कटेश्वर विभो परिपाहि मां त्वं
वेतण्डदैत्यवरदण्डनपण्डितस्य ।
कोदण्डदण्डपटुखण्डनशौण्डशुण्डा-
दोर्दण्डमण्डितसुदर्शनकाण्डजाब्जः ॥ २४॥
श्रीवेङ्कटेश्वर विभो भवतः प्रभावात्
शैलीं तनुं चरणयो रजसाप्यहल्या ।
त्यक्त्वाथ गौतममगान्मुदिता सती त-
त्पादारविन्दमनिशं कलयामि चित्ते ॥ २५॥
श्रीवेङ्कटेश्वर विभो प्रवदन्ति धीरा
नीलाद्रिवेङ्कटमहीध्रपतिप्रसिद्धौ ।
द्वावत्र तौ पतितपावनदीनबन्धू
त्वामित्ययं तु शरणागतरक्षकाख्यः ॥ २६॥
श्रीवेङ्कटेश्वर विभो भवतोऽत्र लोके
दीनार्त (अपराधी) मन्तुकरपालनतत्परत्वात् ।
नीलाद्रिवेङ्कटमहीपतिनामधेयम् ।
त्वामेव तत्त्रिविधरूपमहं वदामि ॥ २७॥
श्रीवेङ्कटेश्वर विभो न गजावलिं च
न स्यन्दनानि न भटान्न तु वाजिराजिम् ।
याचे प्रसादमवनं भवतः क्षमां त्वां
चित्राडवास भगवन् त्रिविधात्मकोऽहम् ॥ २८॥
श्रीवेङ्कटेश्वर कृता भवते प्रतिज्ञा
नीलाद्रिरायविभुना क्षयवत्सरे तु ।
क्षेत्र स्थितं युधि परत्र हृतं खलैस्ते
दत्तं भवेदिति मया कुरु सत्यसन्धम् ॥ २९॥
श्रीवेङ्कटेश्वर कलौ भवता समोऽपि
देवो न हीति विदिता भुवि सम्प्रतीतिः ।
चित्राडधामनिलयस्य समा दशाष्टौ
याता ह्रिया विरहितस्य तवाद्य विष्णो ॥ ३०॥
श्रीवेङ्कटेश्वर विभो तव चाग्रपत्न्यो
रेका चलाग्रमहिषी च कथं स्थिराभूत् ।
अन्या स्थिरापि चपला कथमास चित्रं-
श्रीभूमिदेविसहितः खलु तिष्ठसीह ॥ ३१॥
श्रीवेङ्कटेश्वर भुवस्तनयोऽपवार्ता (भुवस्तवयोऽपवाह)
तस्यावनिं क्षितिपतिस्तमसूययेव ।
हृत्वापि भीमवरकोऽपि निवासिनस्त्वं
शक्तोऽसि वेङ्कटपतिर्विलयेऽपि नूनम् ॥ ३२॥ (विषयेऽपि नूनं)
श्रीवेङ्कटेश्वर विभो भवदीयवर्गं
ये विद्विषन्ति ननु तान् विगतान् करोषि ।
चित्राडवास भवति प्रतिपत्तियुक्ता
ये तान् करोषि ससुखानिह सम्पदा त्वम् ॥ ३३॥
श्रीवेङ्कटेश्वर विभो मम दुष्कृताद्वा
क्षेत्रं खलैरपहृतं स्थितमन्यदेशे ।
यद्यस्ति तेऽद्य महिमा तदपि स्वदेशे
नीलाद्विराराड्र वितरति स्वयमेव राजा ॥ ३४॥
श्रीवेङ्कटेश्वर युवा खलु सम्प्रति त्व-
मष्टादशाब्दवयसा सहितोऽसि देव ।
संस्थापनात् प्रभृति वा तव चित्रवाड-
ग्रामे ह्रिया विरहितोऽसि लभस्व मानम् ॥ ३५॥
श्रीवेङ्कटेश्वर विभो भव सुप्रसन्नः
स्वप्नेऽथवावनिपतेरपि बोधय त्वम् ।
शक्तिर्न ते मदवने किमु चित्रवाड-
क्षेत्रं प्रदातुमिति मेऽवनिचक्रवर्तिन् ॥ ३६॥
श्रीमद्वेङ्कटशब्दपूर्वविलसन्नीलाद्रिरार्यप्रभु-
र्दासस्ते खलु वेङ्कटेश्वरनिजस्स्वामी भावांस्तस्य च ।
दत्तास्मै भवतान्यराज्यवसुधा तुभ्यं न तेनावनि-
र्भो चित्राडनिवासिने जनपदे स्वीये निजस्वामिने ॥ ३७॥
श्रीवेङ्कटेश्वर विभो वृषवत्सरे तु
न्यायादहं स्वपरराष्ट्रभुवा युतोऽस्मि ।
चित्राडदेव कृपया न मयीति येन
क्षेत्रं न दत्तमधुनापि सविस्मितोऽभूत् ॥ ३८॥
श्रीवेङ्कटेश्वर भुवा सहितो भवाद्य
तत्त्वं प्रबोध्य निजदेशपतेः स्वदेशे ।
सुक्षेत्रमेव भवतेति च दीयतां मे
सम्प्रार्थय त्वमथवार्जय पौरुषेण ॥ ३९॥
श्रीमद्रावुकुलोद्भवः स गुणवान् श्रीवेङ्कटाद्रिं गतः
तत्रासीन्निजदैवमेव शरणं प्राप्तः पुनर्लक्ष्मणः ।
वत्सं गौरिव धावतीति विदितन्यायेन तस्माद्गिरे
रायातः स तु चित्रवाडनगरं नूनं स्वदासास्पदम् ॥ ४०॥
श्रीवेङ्कटेश्वर विभो जलधौ निभग्न-
स्त्वं मीनरूपमुपलभ्य जगद्धितार्थम् ।
ब्रह्माखिलं कमलजाय ददासि भूय-
श्चित्राडवास भवतः परमा हि शक्तिः ॥ ४१॥
श्रीवेङ्कटेश्वर विलो कमठ प्रभुत्वात्
पृष्ठे महीं धृतवतः कृपयाश्रितेषु ।
चित्राडधाम्न्यवनिरेव न तेऽस्ति किं वा
शक्तः कथं मदवने वद सम्प्रति त्वम् ॥ ४२॥
श्रीवेङ्कटेश्वर वराहतनुर्निमग्नां
रत्नाकरे धरणिमुद्धृतवान् किल त्वम् ।
किञ्चनया सह रतिं प्रतिलभ्य सूनु-
मुत्पाद्य किं ह्रियमवाप्य न याचकोऽसि ॥ ४३॥
श्रीवेङ्कटेश्वर यथा नरसिंहमूर्ति-
स्त्रातुं कयाधुसुतमुत्तमभक्तियुक्तम् ।
पातुं भवार्तनिजभक्तजनांस्तथास्मां
श्चित्राडधाम्नि वसतिं गतवानसि त्वम् ॥ ४४॥
श्रीवेङ्कटेश्वर पुरन्दरशत्रुसत्रे
त्वं वामनत्वमुपलभ्य बलेर्धरित्रीम् ।
लब्ध्वा च तां मघवते पुनरेव दत्त्वा
लक्ष्म्या ह्रियापि सहितः किभयाचकस्त्वम् ॥ ४५॥
श्रीवेङ्कटेश्वर भवान् खलु भार्गवः सन्
रामः पुरार्जुनमरिं किल कार्तवीर्यम् ।
निर्जित्य भूमिमखिलामपि कश्यपाय
प्रादादथाम्बुधिभुवं प्रति याचकः किम् ॥ ४६॥
श्रीवेङ्कटेश्वर विभो शरणं प्रपद्ये
पादौ तवाहमधुना भव रक्षको मे ।
रामो यतः खलु विभीषणरक्षसे वं
दत्त्वाभयं पुनरपि प्रददासि लङ्काम् ॥ ४७॥
श्रीवेङ्कटेश्वर भवान् खलु रामरूपं
धृत्वावनाय जगतस्तु तवाग्रजोऽभूत् ।
कृष्णावतारवत एव सविश्वरूप-
स्वातुं स्थितोऽसि निखिलान् खलु चित्रवाटे ॥ ४८॥
श्रीवेङ्कटेश्वर विभो सुगतावतारः-
कृत्वा सुशास्त्रमपि मोहयितुं जनांस्त्वम् ।
शक्तोऽद्य सौगतबुधान् सुगतान् करोषि
त्वं पाहि मां स कृपया शरणागतं ते ॥ ४९॥
श्रीवेङ्कटेश्वर विभो कलिकावतारं
गत्वाधिरुह्य हयमुत्तममेव विष्णो ।
धृत्वासिमाशु कलिकिन्करकन्धराणि
छित्त्वावनिं सुखवतीमनिशं करोषि ॥ ५०॥
श्रीवेङ्कटेश्वर विभो तव वत्सलत्व
ज्ञानादिदिव्यगुणषट्कविराजितत्वात् ।
त्वं पाहि वीक्ष्य पतितं कृपयातिदीनं
कामादिदोषरिपुषट्कपराजितं माम् ॥ ५१॥
श्रीवेङ्कटेश्वर जनानसि पातुकाम-
स्त्वार्चात्मनावतरितः कृपयास्मदादीन् ।
क्षेत्रेषु रङ्गवृषशैलगजाद्रिभद्र
नीलाचलप्रमुखदिव्यनिकेतनेषु ॥ ५२॥
श्रीमद्वेङ्कटशैलराण्मम हरेश्चित्राडवासप्रभो (हरिश्चित्राडवासप्रभुः)
कामारण्यदवानलोद्भवमहाक्रोधानलासारदः ।
लोभासारदमेघवातपटलो मोहप्रवाताहिरा-
ण्मात्सर्याहिखगेश्वरो मदमहामातङ्गकण्ठीरवः ॥ ५३॥
श्रीवेङ्कटेश्वर मम प्रबलौ रिपू द्वौ
देहाभिमानजनितौ जगति प्रसिद्धौ ।
ज्ञानासिनातिनिशितेन निकृन्तनीयौ
वैराग्यखेदमुपगृह्य कदा भवेताम् ॥ ५४॥
श्रीवेङ्कटेश्वर विभो निखिलाव्जजाण्ड-
जन्मस्थितिप्रलयकारणमप्रमेयम् ।
वेदा रुवन्त्यकृतकाः स्मृतयो भवन्तं
नारायणं परमपूरुषमाहुरार्यः ॥ ५५॥
श्रीवेङ्कटेश्वर भवान् पुरुषात् परस्मात्
व्यूहैरवातरदजाण्डकटाहमध्ये ।
सङ्कर्षणाख्यरविमण्डलवासुदेव
प्रद्युम्रनामभिरतो ह्यनिरुद्धनामा ॥ ५६॥
श्रीवेङ्कटेश्वर भवद्विभवावताराः
श्रीरामकृष्णनरसिंहवराहमुख्याः ।
पर्याप्नुवन्त्यमरसाधुजनावनाय
दुष्टक्षितीशजनदैत्यनिबर्हणाय ॥ ५७॥
श्रीवेङ्कटेश्वर विभोऽखिलदेवदेव
क्षीरेषु सर्पिरिव वह्निरिवेन्धनेषु ।
देहान्तरात्मसु निविष्टसदन्तरात्मा
शास्तासि भूतनिवहस्य चराचरस्य ॥ ५८॥
श्रीवेङ्कटेश्वर हरे श्रितवत्सलत्वा
ल्लोकेऽस्मदाद्यखिलदीनजनावनाय ।
ग्रामाग्रहारपुरवेश्मनदीवनाद्रि-
ष्वर्चात्मनावतरितः सुलभोऽखिलानाम् ॥ ५९॥
श्रीवेङ्कटेश्वर जलांशुकधूपदीप-
नैवेद्यपुष्पमुखवासफलार्पणाद्यैः ।
प्रीतः कुचेलमुनयेऽपि यथासि पूर्वं
दाता भवाद्य निजभक्तजनाय लक्ष्म्याः ॥ ६०॥
श्रीवेङ्कटेश्वर विभो भवदीयसद्म
सम्मार्जनाम्बुपरिषेचनलेपनाद्यैः ।
स्तोत्राभिवन्दनपरिक्रमणप्रमोद-
वीक्षादिकर्मभिरकिञ्चनरक्षकोऽसि ॥ ६१॥
श्रीवेङ्कटेश्वर कुशेशयसन्निकाश-
स्वास्यश्रिया हसितशारदशीतरश्मिः ।
सीताशया च पिशिताशविनाशनेशः
कीशेशसंशयनिरासशरासनोऽसि ॥ ६२॥
इन्दिराह्रुदरविन्द मन्दिर
कुन्दसुन्दरशुभाङ्गमण्डन ।
नन्दनन्दन मुकुन्द वन्दनं
कुर्महे श्रितजनस्य चन्दन ॥ ६३॥
इन्द्रादिवृन्दारकवन्दिताङ्घ्रिं
चन्द्राननं चन्दनचर्चिताङ्गम् ।
गोवृन्दवृन्दावनसञ्चरन्तं
गोविन्दमीडे भुजगाचलेन्द्रम् ॥ ६४॥
श्रीमद्वेङ्कटनायक द्रुपदजाप्रह्लादवेतण्डराट्-
कालिङ्गाहिविभीषणामरगणाहल्याम्बरीषादयः ।
गोपीगोकुलगोपवृन्दहरिराट्काकार्जुनेन्द्रादय-
श्चैते ते शरणागतार्तिहरणे सन्त्येव मे साक्षिणः ॥ ६५॥
श्रीवेङ्कटेश्वर विधुन्तुदचैद्यनक्र-
दैत्यादिदुष्टरिपुकन्धरकर्तनाय ।
पाणौ बिभर्षि निशितं च सुदर्शनं यत्
तस्मै नमोऽस्तु सततं तमसो निहन्त्रे ॥ ६६॥
अण्डजेन्द्रनगमन्दिरावमां-
मण्डजेन्द्रतुरगाभिमण्डित ।
कुण्डलीन्द्रशयन स्ववाहिनी-
मण्डलेन्द्रकृतदैत्यदण्डन ॥ ६७॥
इन्दिरासखमन्दिराव मां- (सुखमन्दिराव)
पण्डितेन्द्रनतसुन्दराङ्ग्ध्रिक् ।
पुण्डरीकजभवेन्द्रवन्दित
खण्डितासुरविरोधिकन्धर ॥ ६८॥
नारदसंस्तुतदिव्यगुणाकर
क्षीरपयोनिधिमध्यनिकेतन ।
नीरदसन्निभगात्रमनोहर
वेङ्कटनायक मामव माधव ॥ ६९॥
कमलासनदिनुतामलगुणवैभवचरितं
कमलाकरविलसत्पदकमलानतविबुधम् ।
अचलारुणकमलाकृतिकरपीडितचरणं
भज मानस भुजगाधिपगिरिनायकमधुना ॥ ७०॥
पन्नगेन्द्रगिरिमस्तकालये
दानवेन्द्रकुलपर्वताशनिः ।
कोसलेन्द्रकुलवार्धिचन्द्रमा
राघवेन्द्र परिपालयाद्य माम् ॥ ७१॥
तरुणारुणकिरणारुणकरपङ्कजयुगलं
वरुणालयतरुणीमणिजननाकरचरणाम् ।
करुणाकरमरुणाधरमलिकुन्तलमनिशं
भज मानस फणिराड्गिरिशिखरालयमनघम् ॥ ७२॥
अरिकेतनकुलिशाङ्कुशजलजाम्बुजकलितं
कलिकल्मषविनिवारणपटुवाहिनिजनकम् ।
जनकाधिपतनयाकरकमलाम्बुजललितं
करवाणि सुचरणं तव शरणं सुमसुगुणम् ॥ ७३॥
करुणाकरविनतासुततुरगावनचतुरं-
चतुरानननुतवैभवफणिराङ् गिरिनिलयम् ।
रजसा वरतरुणीकृतदृषदद्भुतचरितं
करवाणि च चरणं तव शरणं सुमसुगुणम् ॥ ७४॥
विधिनिर्मितभुवनत्रयपदविक्रमकलितं
खरदूषणशुकसारणतरुखण्डनपरशुम् ।
दशकन्धरकदळीतरुवनभञ्जनपवनं
पवनात्मजविनुतं तव चरणं सुरशरणम् ॥ ७५॥
चरणद्वय गमनं कुरु हरिमन्दिरमभितः
कमलापतिचरणं करयुगलार्चय सततम् ।
नयनद्वय भगवन्मुखमवलोकय सुभगं
भज मानस भुजगाधिपगिरिराट्पदकमलम् ॥ ७६॥
रसने पिब मम माधवसुकथामृतमधुना
श्रवणे भवहरणाच्युतचरितं बहु शृणुतम् ।
नतिमाचर मधुसूदनपदयोः शिर उभयो-
र्भज मानस फणिराङ् गिरिशिखरालयचरणम् ॥ ७७॥
चरितं मम कथितं तव विदितं ननु विततं
दुरितं हर मुदितं कुरु हितमाचर सततम् ।
वरवेङ्कटगिरिनायक सुर मामव शरणा-
गतमच्युत कलयामलमनिशं सुरविनुतम् ॥ ७८॥
प्रायो वसन्ततिलकाभिधवृत्तजात-
पद्यान्यनेकविधलक्षणलक्षितानि ।
सन्तीह वेङ्कटमहीध्रपतिमभावात्
शब्दार्थलक्षणविदां शतकेऽस्ति तोषः ॥ ७९॥
चित्रादग्रामवासी घनरुचिरतनुः पार्श्वयोर्विद्युदाभ-
श्रीभूदेवीसमेतः तरणिशशिलसच्चक्रशङ्खोर्ध्वपाणिः ।
भक्तेभ्यो वेङ्कटेशो विलसति चरणपावृतोरुस्थिताभ्यां
हस्ताभ्यामाश्रितेभ्यः प्रविततविरजागाधमुक्तिप्रदेशः (?) ॥ ८०॥
पुंसोऽर्थंश्चतुरोऽपि मोक्षसहितान् धर्मार्थकामान् दिशन्
यस्मिन् यस्य मनोरथो यदि भवेत्तं तस्य धर्मादिकम् ।
दासान्नस्तव चित्रवाटनिलय श्रीवेङ्कटाद्रीश्वर
श्रीभूदेविलसत्सुपार्श्वयुगल त्राहि प्रसादार्थिनः ॥ ८१॥
चित्रं तेऽप्यधुना कुचेलमुनये दातास्यनल्पश्रियो
भिक्षित्वामरवैरिणं मघवते त्रैलोक्यराज्यश्रियः ।
क्षेत्रं यद्यपि वेङ्कटाचलपते चित्राटवासस्य ते
नादत्तं भुवि नोपतिष्टत इति न्यायः कथं स्यान्मृषा ॥ ८२॥
ब्रह्माण्डोदरसंस्थिताखिलजनत्राणाय रङ्गस्थले
सौलभ्यादिगुणान्वितः फणिपतेर्भोगे शयानः स्थितः ।
त्वं नाभीकमलोद्भवाद्विखनसः सञ्जातवेदस्तुत-
श्श्रीभूदेविकरार्पितात्मचरणश्रीरङ्गराण्मामव ॥ ८३॥
विश्वस्यावनकर्मणे दिखनसा सम्प्रार्थितः सात्वतां
वंशे चानकदुन्दुभेर्जनिमगाः कृष्णात्मना यः पुरा ।
दातुश्चेतसि तत्त्वचिन्तनवशात् सञ्जातवैखानस- (ध्यातश्चेतसि)
श्रौताराधनराधितः स सततं शेषाद्रिराण्मामव ॥ ८४॥
वेदाङ्गप्रविराजमानगरुडारूढोऽञ्जसा गां गतो
वेतण्डार्ति निवारणाय मकरं च्छित्त्वारिणा यः स्वयम् ।
वेतण्डाचलमस्तके वरदराजाख्यातनाम्ना स्थितः ।
स त्वं वेङ्कटनायकाश्रितजनत्राता भवाद्य प्रभो ॥ ८५॥
सीतालक्ष्मणमध्यभागविलसन्मूर्त्या घनश्यामलः
कोदण्डेन स खण्डितामररिपुः सरक्षितारवण्डलः ।
रक्षोवानरराजयोरवरजौ संरक्षितौ च त्वया
श्रीमद्वेङ्कटनायक त्वमधुना भद्राद्रिराण्मामव ॥ ८६॥
यस्त्वं श्रीबलभद्ररामसहितस्त्वद्दर्शनायागतान्
दासांस्तान् पतितानपि त्रिजगतां नाथः सुभद्रान्वितः ।
क्षेत्रे श्रीपुरुषोत्तमे स्थितिमगाः पातुं प्रसादान्मुदा
स त्वं वेङ्कटनायकाद्य कृपणं नीलाद्रिराण्मामव ॥ ८७॥
स्मरामि मनसा श्रिया सकललोकमात्रा स्थितं
वदामि वचसा भुवाप्यखिललोकधात्राश्रितम् ।
नमामि शिरसा गुरुं त्रिजगतां सुसंरक्षकं
सदा परिचराम्यहं वृषगिरीशमिष्टप्रदम् ॥ ८८॥
कलये सततं वृषशैलपतिं
कलिदोषहरं करुणाजलधिम् ।
कमनीयवपुःकलितं सरमं
कमलालयवक्षसमाधिहरम् ॥ ८९॥
कमलायताक्षममलात्मवैभवं
विमलाम्बुजास्यमतुलाखिलामरम् ।
तरसा नमामि शिरसा च वेङ्कटं
मनसा भजामि वचसा स्तवीम्यहम् ॥ ९०॥
श्रीमद्वेङ्कटनाथ ते यदि कृपा दीनो धनाढ्यो भवेत्
नो चेत्तद्विपरीतवानिति बुधाः प्राहुर्विशिष्टादयः ।
रक्षां यस्य करोमि तस्य कृपया वित्तं हरामीति य-
त्तथ्यं तद्वचनं हरे प्रियतरं नान्यस्य वित्तं तव ॥ ९१॥
मूको वदत्यनिशमेव निरीक्षतेऽन्धो
पङ्गुर्गतिं प्रलभते बधिरः शृणोति ।
दीनोऽप्यतीव धनवान् भवतः प्रसादा-
न्नैतन्मृषा भवति वेङ्कटशैलनाथ ॥ ९२॥
सप्तप्राकारभूतावनिधरवरशेषाद्रिकूटाधिरूढ-
श्रीदेवीमन्तरा भूरमणिमपि लसन्नीलमेघोज्ज्वलाङ्गः ।
श्रीमन्नीलाद्रिरामप्रभुवरनगरप्रान्तदेशे विराजत्
चित्राटग्रामवासी मम भवतु मुदे वेङ्कटेशो मुकुन्दः ॥ ९३॥
सनकादियोगिवर्यैरनवरतसेव्यमानपदपद्म ।
चित्राटनगरवासिन् क्षिप्रं मे प्रदिश पादभक्तिं ते ॥ ९४॥
मित्राब्जनेत्रसुभगः सुत्रामाद्यमरविनुतचारित्रः ।
चित्राटवेङ्कटेशः सुत्रासितदेवतारिरवतान्माम् ॥ ९५॥
ब्रह्मेशानसुरेशमुख्यविबुधैर्मान्यैः सुमान्यो दिशा-
वल्याखण्डलपूर्वदेवनिवहैर्मान्यैः सुमान्योऽपि सन् ।
हे चित्राटनिवास वेङ्कटपते नीलाद्रिरायप्रभो-
र्देशे पुण्य जनैरमर्त्यचरितैर्मान्यो ह्यमान्यः कथम् ॥ ९६॥
शाखा यस्य तु तैत्तरीयविदिता सूत्रं च वैखानसं
गोत्रं गौतममाहुतिश्च हविषां यागाः श्रुतिर्याजुषी । (हुतिश्च)
कालोऽयं निगमागमप्रवचनैर्विद्यार्थिनां यापितः
स्वाचार्यस्तु पिता पितामहनिभः श्रीपद्मनाभाह्वयः ॥ ९७॥
श्रीमद्गौतमगोत्रजस्य विदुषोऽनन्तार्यनाम्नो गुरो-
स्तस्याहं नरसिंहनामविदितः शिष्यस्तुरीयोऽनुजः ।
श्रीमद्वेङ्कटनायकास्पदमिदं हृद्यं सतां शृण्वतां
पद्यानां शतकं चकार विदुषां विद्यानवद्यात्मनाम् ॥ ९८॥
श्रीभूदेवीसमेताय भक्ताभीष्टप्रदायिने ।
चित्राटाख्यपुरेशाय वेङ्कटेशाय मङ्गलम् ॥ ९९॥
इति श्रीवेङ्कटेश्वरशतकं सम्पूर्णम् ।
Proofread by Saritha Sangameswaran