श्रीवरदराजस्तवः २
अप्पय्यदीक्षितेन्द्रविरचितः ।
(काञ्च्यां वरदराजक्षेत्रे)
उद्धाट्य योगकलया हृदयाब्जकोशं
धन्यैश्चिरादपि यथारुचि गृह्यमाणः ।
यः प्रस्फुरत्यविरतं परिपूर्णरूपः
श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ १॥
जातो न वेत्ति भगवन्न जनिष्यमाणः
पारं परं परमपूरुष ते महिम्नः ।
तस्य स्तुतौ तव तरङ्गितसाहसिक्यः
किं मादृशो बुधजनस्य भवेन्न हास्यः ॥ २॥
मन्ये निजस्खलनदोषमवर्जनीय-
मन्यस्य मूर्ध्नि विनिवेश्य बहिर्बुभूषुः ।
आविश्य देव रसनानि महाकवीनां
देवी गिरामपि तव स्तवमातनोति ॥ ३॥
नेतस्तथापि तव निर्ममलोकसेव्यां
मूर्तिं मदावलमहीधररत्नभूषाम् ।
वैकुण्ठ वर्णयितुमस्मि धृताभिलाषः
त्वन्नामरूपगुणचिन्तनलाभलोभात् ॥ ४॥
मन्ये सृजन्त्वभिनुतिं कविपुङ्गवास्ते
तेभ्यो रमारमण मादृश एव धन्यः ।
त्वद्वर्णने धृतरसः कवितातिमान्द्यात्
यस्तत्तदङ्गचिरचिन्तनभाग्यमेति ॥ ५॥
काञ्ची महार्घमणिकाञ्चनधामचित्रा
विश्वम्भरां विबुधनाथ विभूषयन्ती ।
भाता गजाद्रिशिखरे तव भक्तचिन्ता-
रत्नेन राजतितरां शुभविग्रहेण ॥ ६॥
अस्यां भवन्तमभितः स्थितदुग्धसिन्धौ
मध्ये त्रयीमय महारविमण्डलस्य ।
पश्यन्नधःकृतचतुर्मुखविष्टपायां
धामत्रयेऽपि कुतुकं विजहाति विद्वान् ॥ ७॥
अस्याममेयगुणपुर्यपराजितायां
अश्वत्थवर्यजुषि दिव्यसरःसमीपे ।
मध्ये हिरण्मयगृहं महिषीयुतं त्वां
दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥ ८॥
सम्प्राप्य दुग्धतटिनीविरजां विशुद्धाः
सन्तो भवद्भजनदां पदमागतास्ते ।
त्वत्पादतोयतुलसीकुसुमेषु लग्नं
गन्धं रसं च गरुडध्वज ते लभन्ते ॥ ९॥
सौवर्णसालवलयान् समनुप्रविश्य
कोशानिव त्रिदशनायक कोऽपि धन्यः ।
आनन्दवल्ल्युदितदिव्यफलानुरूपं
रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥ १०॥
मातङ्गशैलमणिशृङ्गमहाविमान
सोपानपर्वचतुरुत्तरविंशतिर्वा ।
तामेव तत्त्वविततिं पुरुषो विलङ्घ्य
पश्यन्भवन्तमुपयाति भवाब्धिपारम् ॥ ११॥
नापारि लब्धुमरविन्दभुवाऽपि साक्षाद्-
यं पूर्वमीश्वर विना हयमेधपुण्यम् ।
अन्यैरनाप्य स कथं तव पुण्यकोटिं
प्राप्यस्त्वदाकृतिविलोकनजः प्रमोदः ॥ १२॥
प्रत्यङ्मुखं तव गजाचलराजरूपं
प्रत्यङ्मुखाश्चिरतरं नयनैर्निपीय ।
अस्थानमाप्तवचसामवितर्कणीय-
माश्चर्यमेतदिति निश्चयमावहन्ते ॥ १३॥
यस्मिञ्जहात्यतिशयोक्तिरलङ्कृतित्वं
न्यूनोपमात्वमुपमा समुपैति सर्वा ।
सूक्ष्मस्वभावकलनापि च न प्रतर्क्या
तद्वर्णयामि भवतः कथमाभिरूप्यम् ॥ १४॥
लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि
विश्वैकमोहनरसस्य च देवताऽसि ।
आवासभूमिरसि सर्वगुणोत्तमानां
वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥ १५॥
सर्वोत्तरोऽसि सकलत्रिदशाश्रयोऽसि
ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि ।
शृङ्गारशेवधिरसि द्विपशैलमौले
कल्याणरूप इति कस्त्वयि चित्रवादः ॥ १६॥
अङ्गानि ते निखिललोकविलोचनानां
सम्भावनीयगुणसंसरणानि सत्यम् ।
येष्वेकमाप्य न पुराऽधिगतं स्मरन्ति
वाञ्छन्ति नान्यदपि लब्धुमदो विहाय ॥ १७॥
एकत्र मन्मथमजीजनदिन्दरायां
पूर्वं भवानिति बुधा किमपूर्वमाहुः ।
अद्यापि तं न जनयस्यरविन्दनाभ
कासु प्रसन्नमधुरस्मितकामिनीषु ॥ १८॥
निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि
निर्यात इत्यधिप न त्वयि चित्रमेतत् ।
हत्वा हठान्मृगदृशां हृदयानि यस्त्व-
मेवं निलीय किल तिष्ठसि शैलशृङ्गे ॥ १९॥
मोहं जगत्त्रयभुवामपनेतुमेत-
दादाय रूपमखिलेश्वर देहभाजाम् ।
निस्सीमकान्तिरसनीरधिनाऽमुनैव
मोहं विवर्धयसि मुग्धविलोचनानाम् ॥ २०॥
उच्छेदमेकविषयात्कथयन्ति बोधान्
मोहस्य ये खलु कथं न मृषावदास्ते ।
लावण्यमीश तव यन्नयनैर्निपीय
तत्रैव मोहमधिकं दधते तरुण्यः ॥ २१॥
शुभ्रांशुवक्त्र शुभगोचरलाभतोषात्
सम्प्रस्थितो मृगदृशां नयनाम्बुजौघः ।
त्वद्भासरित्यथ बिभर्ति मोहं
प्रायः फलन्ति विफलन्ति च दैवचिन्ताः ॥ २२॥
यत्प्राणसंयमजुषां यमिनां मनांसि
मूर्तिं विशन्ति तव माधव कुम्भकेन ।
प्रत्यङ्गमूर्छदतिवेलमहाप्रवाह-
लावण्यसिन्धुतरणाय तदित्यवैमि ॥ २३॥
लावण्य सागरभुवि प्रणयं विशेषाद्-
दुग्धाम्बुराशिदुहितुस्तव तर्कयामि ।
यत्तां बिभर्षि वपुषा निखिलेन लक्ष्मी-
मन्यां तु केवलमधोक्षज वक्षसैव ॥ २४॥
सारस्वतं वदनपद्मभुवं प्रवाहं
त्रैस्रोतसं च तव पादभुवं निरीक्ष्य ।
सर्वप्रतीकनिकरात्प्रवहन्त्यजस्र-
मीर्ष्यावतीश यमुना किमु कायकान्तिः ॥ २५॥
आपूरितत्रिभुवनोदरमंशुजालं
मन्ये महेन्द्रमणिवृन्दमनोहरं ते ।
त्वद्रागदीपितहृदां त्वरितं वधूनां
प्राप्ते सरित्सहचरं प्रलयेऽभिवृद्धम् ॥ २६॥
युक्त्याऽऽगमेन च भवान् शशिवर्ण एव
निष्कृष्टसत्त्वगुणमात्रविवर्तभूमिः ।
धत्ते कृपाम्बुभरतस्त्विषमैन्द्रनीलीं
शुभ्रोऽपि साम्बुरसितः खलु दृश्यतेऽब्दः ॥ २७॥
सर्वातिशायिसहजद्युतिभूषितस्य
विश्वैकनायक विभूषणधारणं ते ।
आबद्धसौहृदमपारसुखाम्बुराशेः
वीक्षे तवैव विषयादिकुतूहलेन ॥ २८॥
मध्ये स्फुरन्मकरतोरणमण्डलस्य
चामीकराभरणभूषितसर्वगात्रः ।
आदित्यबिम्बगतमाप्रपदात्सुवर्णं
भासा भवाननुकरोति भवन्तमेव ॥ २९॥
सेवारसागतसुराद्यनुबिम्बदृश्यं
भूषामणिप्रकरदर्शितसर्ववर्णम् ।
त्वां विश्वरूपवपुषेव जनं समस्तं
पश्यामि नागगिरिनाथ कृतार्थयन्तम् ॥ ३०॥
शृङ्गीसुवर्णरुचिपिञ्जरितैकभागा-
न्यङ्गेषु देव तव भूषणमौक्तिकानि ।
प्रत्यक्षयन्ति भवतः प्रतिरोमकूप-
विश्रान्तिसान्द्रजगदण्डसहस्रशोभम् ॥ ३१॥
आबद्धपङ्क्तिमहितानि तव त्रिधामन्
वीध्राणि हीरशकलानि विभूषणेषु ।
सम्मोहनानि सरसीरुहलोचनानां
मन्त्राक्षराणि कलये मकरध्वजस्य ॥ ३२॥
आपादमौलिविधृतेषु विभान्ति देव
स्थूलेन्द्रनीलमणयो मणिभूषणेषु ।
रागादुपेत्य तव सुन्दर तत्तदङ्ग-
लग्नानि लोकसुदृशामिव लोचनानि ॥ ३३॥
त्वां वीक्ष्य मुक्तिद जनास्तरणिं सखायं
भिन्द्युः किलेति तव भूषणपद्मरागाः ।
शङ्के चिरं जनदृशः स्वकरैः क्षिपन्ति
तन्मात्रतोऽपि तव मुक्तिदतामबुद्ध्वा ॥ ३४॥
पादावुपेन्द्र सुकुमारतमाविमौ ते
भूषाभरादरुणिमानमिवोद्वमन्तौ ।
इत्थं किमस्ति सुकुमारमितीव बोद्धुं
लोकत्रयेऽपि च करैः स्पृशतः पदार्थान् ॥ ३५॥
मूर्तिं प्रसाधयति ते चरणांशुपुञ्जः
तां जैमिनिः कथमधीश निराकरोतु ।
सर्वत्र योगमुपपादयताऽरुणिम्नः
तेनारुणाधिकरणे हि मुनिः स भग्नः ॥ ३६॥
अन्तस्तमांसि यमिनामपसारयन्ती
हृत्पङ्कजान्यपि च नाथ विकासयन्ती ।
भक्तप्रवेकभववारिनिधेस्तरण्योः
त्वत्पादयोर्जयति काऽपि मयूखमाला ॥ ३७॥
मुष्णन्प्रभातसमयेषु मुरान्तकारिन्
अङ्घ्रिद्वयश्रियमहस्करतस्करस्ते ।
यत्प्राप्यते न करभङ्गममुष्य बाल-
मित्रत्वमेव मिषति ध्रुवमत्र हेतुः ॥ ३८॥
अङ्घ्रिद्वयस्य तव सन्ततमन्तरङ्ग-
मम्भोजवर्गमिह योजयति श्रिया यत् ।
उत्कोचदानमिदमुष्णकरस्य बाल्यात्
तत्कान्तिरत्नचयचोरणतत्परस्य ॥ ३९॥
भानुर्निशासु भवदङ्घ्रिमयूखशोभा
लोभात्प्रताप्य किरणोत्करमाप्रभातम् ।
तत्रोद्धृते हुतवहात्क्षणलुप्तरागे
तापं भजत्यनुदिनं स हि मन्दतातः ॥ ४०॥
तौल्यं वदन्तु कवयस्तरुपल्लवानां
मुग्धास्त्वदीयचरणेन मुकुन्द किं तैः ।
तान्येव तत्तदधरोष्ठमिषात्तदानीं
कम्पं भजन्ति कथयन्ति किलात्मनैच्यम् ॥ ४१॥
पद्मोपमात्पदयुगात्तव रत्नगर्भा-
ज्जातेति पद्मसदृशाकृतिमाहुरेनाम् ।
कार्यं हि कारणगुणानतिवर्ति लोके
प्रायः पतङ्गपतिवाह विलोकयामः ॥ ४२॥
कल्याणशालिकमलाकरलालनीय-
मासेवकश्रुतिमनोहरनादि हंसम् ।
आमोदमेदुरमरुन्नमितालिकान्तं
शङ्के तवेश्वर पदं शतपत्रमेव ॥ ४३॥
स्पर्शं ययोः समधिगम्य झटित्यहल्या
देवी च भूरभवदुज्झितसर्वपङ्का ।
ताभ्यां घटेत समता भवतः पदाभ्यां
आजन्मपङ्कवसतेः कथमम्बुजस्य ॥ ४४॥
मातङ्गशैलमणिशेखर ते पदाभ्यां
मोहेन साम्यमनुचिन्त्य कृतापराधम् ।
शङ्के सरोजमनयोरुभयोरुपेत्य
रेखाच्छलेन सततं विदधाति सेवाम् ॥ ४५॥
लेखाधिनाथवनपल्लवधैर्यचोरे
रेखामयं पदतले कमलं यदेतत् ।
तत्रैव विश्रमजुषोऽच्युतरागलक्ष्म्याः
क्रीडानिशान्तकमलं तदिति प्रतीमः ॥ ४६॥
यस्याः स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः
पादाम्बुजद्वयमिषात्कमठाधिराजः ।
मूले वसत्युचितमेव निगद्यते सा
मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥ ४७॥
किं द्वादशात्मनि रवौ भगवन्धृतेर्ष्यः
चन्द्रस्ततोऽप्यधिकतामधिगन्तुमेव ।
एते तवेह दश भान्ति पदाङ्गुलीषु
स्वात्मान इत्यजनि चित्तदृगर्णवेभ्यः ॥ ४८॥
भासा पदं तव रमाधिप भूषयन्ति
संसेवकांश्च विबुधान् परितोषयन्ति ।
नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते
संशोषयन्त्यपि तु भक्तभवाम्म्बुराशिम् ॥ ४९॥
गङ्गाच्छलेन तव निःसृतमूर्ध्वगाण्ड-
सङ्घट्टनात्पदनखाग्रमयूखलेशम् ।
आलोक्य नूनममराः पतितं पयोधा-
वामथ्य तं जगृहुरीश तदिन्दुरूपम् ॥ ५०॥
पादानमत्सुरशिरोमणिपद्मरागान्
सद्यः स्फुरत्सहजरुक्प्रकरान्कराग्रैः ।
मुक्तामयान्विदधतां प्रकटं मुरारे
जैवातृकत्वमुचितं ननु ते नखानाम् ॥ ५१॥
यत्ते पदाम्बुरुहमम्बुरुहासनेड्यं
धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः ।
नित्यं तदेव भजतामतिमुक्तलक्ष्मी-
युक्तैव दिव्यमणिनूपुरमौक्तिकानाम् ॥ ५२॥
नाथ त्वदङ्घ्रिनखधावनतोयलग्नाः
तत्कान्तलेशकणिकाजलधिं प्रविष्टाः ।
ता एव तस्य मथनेन घनीभवन्त्यो
नूनं समुद्रनवनीतपदं प्रपन्नाः ॥ ५३॥
सव्यापसव्यशरमोक्षकृतीक्षुधन्वा
जङ्घे तव स्वशरधी इति सन्दिहानः ।
आलोकतेऽङ्घ्रिकटकोद्गतरुक्छलेन
न्यस्याभितो निजशराननुरूपभावम् ॥ ५४॥
जानुद्वयं तव जगत्त्रयनाथ मन्ये
मारस्य केलिमणिदर्पणतामुपेतम् ।
आलोकयन् यदवदातमनोज्ञवृत्तं
रूपं निजं कलयते विपरीतमेषः ॥ ५५॥
ऊरोः किमन्यदयतामुपमानभावं
वामस्य दक्षिणममुष्य च तं विहाय ।
रम्भादयः सदृश इत्युचितं किमेतद्-
यस्योर्वशी सुभग साऽपि विभूतिलेशः ॥ ५६॥
नाथ त्वया परिहितं वरवर्णिनीनां
रागस्य यद्वसनमास्पदतां बिभर्ति ।
सौन्दर्यसारनिलयेन कटीतटेन
तस्यैव किन्नु महिमा परिशीलनस्य ॥ ५७॥
सम्प्राप्य सारसनमध्यतलोदयाद्रिं
मध्याम्बरं मसृणयन्नरुणैर्मयूखैः ।
संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा
संसाररात्र्युपरतिं गतवद्भिरेव ॥ ५८॥
नाभेरभूत्तव चतुर्भुज नान्तरिक्षं
यन्नाभिरेव यदुनेतरियं ततोऽभूत् ।
नाभ्या इति श्रुतिविपर्ययगे विभक्ती
तां जैमिनेरनुससार पशोश्च सूत्रम् ॥ ५९॥
आरोपमध्यवसितिं च विना तवास्यां
नाभौ सरःपदमुपैति कथं नु वृत्तिम् ।
साक्षादियं सरसिजस्य समुद्रशायिन्
उत्पत्तिभूरिति हि नायक नायमूहः ॥ ६०॥
कल्पान्तरेषु विततिं कमलासनानां
भूयोऽपि कर्तुमिव भूरि रजो दधानम् ।
नाभिह्रदे समुदितं नलिनं तवैत-
द्भूयात्सदैव मम भूतिकरं मुरारे ॥ ६१॥
उल्लासयत्युदरबन्धनिबद्धदिव्य-
शोणाश्मरश्मिकलिकावलिरच्युतैषा ।
आगाम्यनेकशतकल्पविधातृगर्भ-
नाभ्युद्गताम्बुरुहकुट्मलपङ्क्तिशोभाम् ॥ ६२॥
ऊर्ध्वं विरिञ्चिभवनात्तव नाभिपद्मा-
द्रोमावलीपदजुषस्तमसः परस्तात् ।
मुक्तौघमण्डितमुरःस्थलमुन्मयूखं
पश्यामि देव परमं पदमेव साक्षात् ॥ ६३॥
सालैरुदंशुचयरत्नललन्तिकाढ्यैः
स्फीतोल्लसत्कुसुमया वनमालया च ।
विभ्राजते विपुलमेनदुरस्त्वदीय-
मन्तःपुरं जलधिराजकुमारिकायाः ॥ ६४॥
प्रालम्बिकामुपगतास्तव पद्मरागाः
प्रत्यग्रघर्मकरमण्डलनिर्विशेषाः ।
पर्यङ्कके वरद वक्षसि भान्ति लक्ष्म्याः
क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥ ६५॥
अस्तु त्रयीमयतनुस्तव लम्बनाली-
रत्नैस्तिरस्क्रियत एव तथाऽपि भानुः ।
सोढः सतां बत निशान्तमुपागतानां
एवं तिरस्कृदीश्वर कः समर्थः ॥ ६६॥
नष्टेऽपि भस्मनि वने गिरिशेन दग्धं
स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः ।
भस्मोच्चये कृतकचप्रतिबोधनं तं
शुक्रं जयन्तु न कथं तव हारताराः ॥ ६७॥
उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती
पार्श्वद्वये परमपूरुष हारमाला ।
तत्रत्यकान्तिसरितस्तरलैः प्रणुन्नां
ऊर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥ ६८॥
त्वां सर्वभूतमयमाश्रितसर्ववर्णं
यद्वैजयन्त्युपगताच्युत सर्वगन्धम् ।
तेनैव किं त्रिभुवनैकमहावदान्य-
सारूप्यमावहति ते सकलाभिनन्द्यम् ॥ ६९॥
ताराभिरामपरिणाहलसत्सिताभ्रं
तापिञ्छमेचकमुरः शरदन्तरिक्षम् ।
प्राप्यैव देव तव कौस्तुभपूर्णचन्द्रः
पूर्णां बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥ ७०॥
नाभी सरोजकिरणैर्मणिराजभाभिः
आत्मप्रभाभिरपि संवलितं विभाति ।
श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं
वक्षः परीतमिव सत्त्वरजस्तमोभिः ॥ ७१॥
वक्षःस्थलं वरद नन्दनमाश्रितस्ते
येषां विभाति हरिचन्दन एव मध्ये ।
एते चतुर्भुज भुजास्तव तस्य शाखाः
शङ्के कराब्जदलकोमलिताग्रभागाः ॥ ७२॥
जात्यैव यद्वरद पल्लवराग एष
यल्लाल्यते च भवता कटके निवेश्य ।
मन्ये मणिस्तदुपगम्य मदान्धभावं
साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥ ७३॥
ऐन्द्रोपलप्रभमधो भुजदण्डनालं
एकत्र चक्रमपरत्र च शङ्खहंसम् ।
दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धोः
उत्फुल्लपद्मयुगमूर्ध्वकरद्वयं ते ॥ ७४॥
चन्द्रार्कचारुतरशङ्खरथाङ्गशोभा
सम्भाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् ।
नक्षत्रदृश्यनवमौक्तिकहारिरूपं
मन्ये महापुरुषरूपधरं भवन्तम् ॥ ७५॥
संवर्तजृम्भितविकर्तनदुर्निरीक्षं
पश्यामि दक्षिणकरे तव चक्रराजम् ।
दैत्यौघसिन्धुपतिमन्थमहाचलस्य
बाहोः प्रतापघनमिद्धमिवोद्गतं ते ॥ ७६॥
आभाति देव विधृतस्तव सव्यपाणौ
अन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः ।
अन्तेवसन्निव गलस्य गुरोर्गभीर
ध्यानक्रियोपनिषदध्ययनार्थमेषः ॥ ७७॥
कौमोदकी स्फुरति ते करपल्लवाग्रे
वैरिञ्चवाक्यविकृतेव सरस्वती सा ।
त्रिस्रोतसस्तव पदाब्जभुवो विशेषं
आकाङ्क्ष्य पाणिकमलात्तव निस्सरन्ती ॥ ७८॥
हस्ते विराजति तवाभयमुद्रितेऽस्मिन्
अव्याजकोमलरुचिप्रकराभिरामे ।
वज्रोर्मिकांशुनिकरः कमलाधिराज्य
पट्टाभिषेकसलिलौघ इवावदातः ॥ ७९॥
नामैव ते वरद वाञ्छितदातृभावं
व्याख्यानतो न वहसे वरदानमुद्राम् ।
न ह्यागमोदितरसः श्रुतिसिद्धमर्थं
लिङ्गेन बोध्यमुररीकुरुते विपश्चित् ॥ ८०॥
आभाति मौक्तिकगुणग्रथितैरनल्पैः
नीलोत्पलैर्वलयितस्तव नाथ कण्ठः ।
संवर्तमेघवसतिं ध्वननैस्तदन्तैः
निश्चित्य तन्निकटगैरिव मेघडिम्भैः ॥ ८१॥
यद्ब्रह्मणश्च जनिभूः प्रियमिन्दरायाः
सस्पर्धमोषधिपतौ च सकर्णिकं च ।
एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं
वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥ ८२॥
वक्त्रेण ते यदभिभूतमभूत्सरोजं
तन्नाभिभूतमिति शब्दमवाच्यनूनम् ।
शब्दच्छलादपनिनीषु जनापवादं
नाभेरभूत्तव रमाधिप विश्रुतायः ॥ ८३॥
उन्मीलयन्कुमुदमुज्ज्वलयन् गिरीशं
उन्मूलयन्विषमवाहभवाभितापम् ।
उद्दीपयन्वरवधूजनतानुरागं
उद्योतते वरद ते वदनामृतांशुः ॥ ८४॥
पक्षद्वयक्रशिमपोषविभाव्यमान-
चान्द्रायणव्रतनिषेवण एष नित्यम् ।
कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते
लिप्सुर्मुखाब्जरुचिमेव तपस्यतीन्दुः ॥ ८५॥
नाथ त्वदीयमकलङ्कमिमं मुखेन्दुं
आपीय तृप्यति सदा वसुधा यतस्ते ।
तेनैव किं नवसुधारसगोचरोऽभूत्
इन्दुः कलङ्कमलिनीकृतमध्यभागः ॥ ८६॥
आश्रित्य नूनममृतद्युतयः पदं ते
देहक्षये विधृतदिव्यपदाभिमुख्याः ।
लावण्यपुण्यनिचयं सुहृदि त्वदास्ये
विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥ ८७॥
त्वद्वक्त्रसाम्यमयमम्बुजकोशमुद्रा-
भङ्गात्ततत्सुषममित्रकरोपक्लृप्त्या ।
लब्ध्वाऽपि पर्वणि विधुः क्रमहीयमानः
शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ ८८॥
दृग्भ्यां मुकुन्द मृगलोचनकोमलाभ्यां
जाताधिकद्युति विलोक्य तवाननाब्जम् ।
मन्ये स्वमण्डलमितोऽप्यधिकं विधित्सुः
तस्मिन्बिभर्ति मृगमेव जडः सितांशुः ॥ ८९॥
मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ
धत्तो मुखे तु तव दृक्तिलकात्मनाऽऽभाम् ।
दोषावतः क्वचन मेलनतो गुणत्वं
वक्तुर्यथेश वचसि भ्रमविप्रलम्भौ ॥ ९०॥
आमोदकान्तभृदहर्निशमेकरूपं
आसेवितं द्विजगणैर्दिविषद्गणैश्च ।
अङ्काधिरूढसहजश्रि मुखं त्वदीयं
शङ्कामहे वरद संहतमब्जयुग्मम् ॥ ९१॥
बिम्बस्तवायमधरः प्रतिबिम्बनेन
युक्तं सदा युवतिमानसदर्पणेषु ।
बिम्बाधरः कविभिरीश्वर वर्ण्यसे त्वं
एतावतैव न तु तुच्छफलोपमानात् ॥ ९२॥
विद्यामयेषु तव निःश्वसितेष्वपूर्वं
विद्याविशेषमिव शिक्षितुमन्तरात्मन् ।
वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः
कायप्रभेव लसति स्मितचन्द्रिका ते ॥ ९३॥
तापत्रयौषधवरस्य तव स्मितस्य
निःश्वासमन्दमरुता निबुसीकृतस्य ।
एते कडङ्गरचया इव विप्रकीर्णा
जैवातृकस्य किरणा जगति भ्रमन्ति ॥ ९४॥
सिद्धौषधं जयति तेऽधररत्नपात्रे
तापत्रयी झटिति मुञ्चति येन सिक्तम् ।
मन्ये तुषारकिरणं गुणलेशयोगा-
दस्यैव वारिजविलोचन कल्कपुञ्जम् ॥ ९५॥
आतन्वतामवयवेषु गतागतानि
युक्तात्मनां वरद यौवतचक्षुषां च ।
विश्रान्तिभूर्विधुकरप्रकरावदाता
मन्दस्मितच्छविरियं तव मां पुनातु ॥ ९६॥
निःश्वासमन्दमलयानिलकन्दलेन
निर्हारिणा बहुतरेण च सौरभेण ।
नासापुटौ नलिनलोचन ते मनोज्ञौ
मन्ये सदैव मधुमाधवयोर्निवासौ ॥ ९७॥
सञ्चारशालि तव निःश्वसिते समस्त-
वेदेतिहासवपुषि द्विपशैलनाथ ।
नाभीसरोरुहनवारुणमण्डले च
मन्ये मधुव्रतकुलं मधुविद्ययोक्तम् ॥ ९८॥
देहाद्वदन्ति जननं मुनयस्तिलानां
देवेन्द्रवन्द्यचरणाम्बुज तावकीनात् ।
नारायणैतदुचितं प्रकटीकरोति
नासाभिधानमिह दिव्यतिलप्रसूनम् ॥ ९९॥
नेत्रे तव क्व भगवन् क्व च पुण्डरीकं
ब्रूते तयोस्तदुपमानमथापि वेदः ।
सर्वात्मनस्तव समाधिकवस्त्वलाभा-
दाकाशवत्स खलु सर्वगतत्वमाह ॥ १००॥
साम्यभ्रमादविनयेन समुन्नतस्य
सव्यं तवाक्षि हरति श्रियमम्बुजस्य ।
तस्यापि तां समधिकां तनुते यदन्यद्-
दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥ १०१॥
पद्मानुरागजुषि लोहितशुक्लकृष्णां
आसेदुषि प्रकृतिमादृतमीनरूपे ।
श्रुत्यन्तभासिनि मदावलशैलनाथ
त्वल्लोचने त्वयि च भाति न मे विशेषः ॥ १०२॥
मुक्तः प्रजापतिरयं मम दर्शनादि-
त्यन्यं विधातुमनसस्तव भालजाता ।
घर्माम्बुबिन्दुततिरेव किरीटमूल-
प्रत्युप्तमौक्तिकततिच्छलतो विभाति ॥ १०३॥
राजन्त्यनर्घमणिसङ्घमये किरीटे
राजीवलोचन न नीलमणिप्रवेकाः ।
आघ्राय गन्धमनिलस्तव कुन्तलानां
अन्तः प्रवेष्टुमनसः परितो निलीनाः ॥ १०४॥
आपादमाचिकुरभारमशेषभङ्गं
आनन्दवृन्दलसितं सुदृशामसीमम् ।
अन्तर्मम स्फुरतु सन्ततमन्तरात्मन्
अम्भोजलोचन तव श्रितहस्तशैलम् ॥ १०५॥
इति अप्पय्यदीक्षितेन्द्रविरचितः श्रीवरदराजस्तवः सम्पूर्णः ।
Proofread by PSA Easwaran