श्रीवराहस्तोत्रम्
ततः स राजा श्रीमुष्णे नित्यपुष्करिणी जले ।
स्नात्वा सन्तर्प्य देवादीं शुचिर्भूत्वा जितेन्द्रियः ॥ १॥
पिप्पलद्रुममासाद्य जितसानपरिग्रहः ।
तुष्टावजवतामीशं नारायणमनामयम् ॥ २॥
राजा उवाच -
शुद्धस्फटिकसङ्काशं पूर्णचन्द्रनिभाननम् ।
कठिन्यस्त करद्वन्द्वं श्रीमुष्णेशं नमाम्यहम् ॥ ३॥
स्रष्टारं सर्वलोकानां प्रेरगं सर्वदेहिनाम् ।
पालकं पालनीयानां श्रीमुष्णेशं नमाम्यहम् ॥ ४॥
हर्तारं प्रलयेकाले रक्षकं मध्यवर्तिनाम् ।
वैराग्यदं स्वभक्तानां श्रीमुष्णेशं नमाम्यहम् ॥ ५॥
चिदानन्दघनं पूर्णं सर्वदोषविवर्जितम् ।
स्वाभिनं सर्वलोकानां श्रीमुष्णेशं नमाम्यहम् ॥ ६॥
येनं व्याप्तमिदं सर्वं बहिरं तश्च सर्वदा ।
सर्वा वह्न्या प्रेरकञ्च श्रीमुष्णेशं नमाम्यहम् ॥ ७॥
भूतं भव्यं भविष्यच्च जगदे तच्चराचरम् ।
तद्वशे वर्तते नित्यं श्रीमुष्णेशं नमाम्यहम् ॥ ८॥
ओतप्रोतमिदं यत्र वटवन्विश्वतो मुखम् ।
सुमुखं सुस्मितं शान्तं श्रीमुष्णेशं नमाम्यहम् ॥ ९॥
अनादिमन्तकालेऽपि यस्स्वामी सर्वदेहिनाम् ।
नमादिदेवं देवेशं श्रीमुष्णेशं नमाम्यहम् ॥ १०॥
निर्मायं मायिनामीशं निर्गुणं षड्गुणार्णवम् ।
निर्दोषं निश्चलानन्दं श्रीमुष्णेशं नमाम्यहम् ॥ ११॥
सदाऽव्यक्तं सदाऽभासं सदासन्तोष संवृतम् ।
सदाविलिप्त विज्ञानं श्रीमुष्णेशं नमाम्यहम् ॥ १२॥
दयानिधिं दयाहीनं जीवानामार्तिहं विभुम् ।
दैत्यान्तकं गदापाणिं श्रीमुष्णेशं नमाम्यहम् ॥ १३॥
पीताम्बरधरं देवं दण्डकान्तकमच्युतम् ।
देवेन्द्रदर्पहर्तारं श्रीमुष्णेशं नमाम्यहम् ॥ १४॥
अग्राह्यमक्षरं नित्यं निर्भेद्यं निरवग्रहम् ।
निरस्तसाम्यातिशयं श्रीमुष्णेशं नमाम्यहम् ॥ १५॥
निर्गलं निश्चलं विष्णुं वेदवेद्यं सनातनम् ।
विद्याधीशं विदां श्रेष्ठं श्रीमुष्णेशं नमाम्यहम् ॥ १६॥
कमलोद्भव तातं तं कमलापतिमीश्वरम् ।
कञ्जाङ्घ्रिं कमलाक्षञ्च श्रीमुष्णेशं नमाम्यहम् ॥ १७॥
चैत्रे कृष्णचतुर्दश्यां रेवत्यां भानुवासरे ।
अश्वत्थरूपं वाराहं श्रीमुष्णेशं नमाम्यहम् ॥ १८॥
मुहूर्ते पञ्चमे जातं चैत्रेऽश्विन्यां च कृष्णके ।
अर्कवारे त्रयोदश्यां श्रीमुष्णेशं नमाम्यहम् ॥ १९॥
वराहं वरदं शान्तं पुण्यश्रवणकीर्तनम् ।
झिल्लिकावनहन्तारं श्रीमुष्णेशं नमाम्यहम् ॥ २०॥
नित्यपुष्करिणीतीरवासिनं वनमालिनम् ।
मुनिहृन्पद्मनिलयं श्रीमुष्णेशं नमाम्यहम् ॥ २१॥
यज्ञं यज्ञपतिं यज्ञ कर्तारं यज्ञभावनम् ।
यज्ञाङ्गं यज्ञगोप्तारं श्रीमुष्णेशं नमाम्यहम् ॥ २२॥
संसारभय-भीतानां जन्तूनामभयप्रदम् ।
सामगीतं सुराध्यक्षं श्रीमुष्णेशं नमाम्यहम् ॥ २३॥
सहस्रवदनं देवं सहस्राक्षं सदाशुभम् ।
सदामङ्गलकर्तारं श्रीमुष्णेशं नमाम्यहम् ॥ २४॥
ज्ञानगं कामदं भुक्ति-मुक्तिदं मुनिवन्दितम् ।
निराश्रयं सदाऽऽधारं श्रीमुष्णेशं नमाम्यहम् ॥ २५॥
वटपत्रपुटेयोगशायिनं बालमीश्वरम् ।
तमद्भुतार्धकाकारं श्रीमुष्णेशं नमाम्यहम् ॥ २६॥
दुग्धाब्धि-शायिनं देवमनन्तोरसिवासिनम् ।
वैकुण्ठ-निलयं विष्णुं श्रीमुष्णेशं नमाम्यहम् ॥ २७॥
वासुदेवं जगद्योनिं जगज्जाड्य हरं हरिम् ।
जम्भारि-प्राणदं पूर्णं श्रीमुष्णेशं नमाम्यहम् ॥ २८॥
धर्मप्रियं धर्मरूपं धर्मगोप्तारमव्ययम् ।
धर्मदत्प्रलदातारं श्रीमुष्णेशं नमाम्यहम् ॥ २९॥
जाह्नवी जनकं कालं व्योमकेशं वृषाकपिम् ।
कवेन्द्रवाहनं कोलं श्रीमुष्णेशं नमाम्यहम् ॥ ३०॥
नित्यं स्तवं प्रमव्यक्तं भक्ताधीनं परात्परम् ।
दामोदरं हृषीकेशं श्रीमुष्णेशं नमाम्यहम् ॥ ३१॥
यन्नामस्मृतिमात्रेण कोटिजन्माघनाशनम् ।
भवेतं भावशुद्धानां श्रीमुष्णेशं नमाम्यहम् ॥ ३२॥
कन्दर्पकोटिलावण्यं कोटिसूर्यसमप्रभम् ।
कोटीन्दु-जगदानन्दं श्रीमुष्णेशं नमाम्यहम् ॥ ३३॥
अनधेहारकेयूरकुण्डलाङ्गदमण्डितम् ।
नीलालकं विशालाक्षं श्रीमुष्णेशं नमाम्यहम् ॥ ३४॥
ब्रह्म-रुद्रेन्द्र-गरुड-किन्नरो-रग-राक्षसैः ।
संसेव्यमानदरणं श्रीमुष्णेशं नमाम्यहम् ॥ ३५॥
हृत्पद्मकर्णिकामध्ये मुनिभिर्मनसाऽर्चितम् ।
भक्तकल्पद्रुमं शान्तं श्रीमुष्णेशं नमाम्यहम् ॥ ३६॥
हृषीकेशं हृषीकानां लियामकमरिन्दमम् ।
हृषीकमलदातारं श्रीमुष्णेशं नमाम्यहम् ॥ ३७॥
योन्तः प्रविश्य सततं धारयेन्निखिलाकृतिम् ।
प्रापयन्तं फलं नित्यं श्रीमुष्णेशं नमाम्यहम् ॥ ३८॥
विपदां परिहर्तारं दातारं सर्वसम्पदाम् ।
कर्तारं सर्वलोकानां श्रीमुष्णेशं नमाम्यहम् ॥ ३९॥
हिरण्याक्षवधोद्दण्डबाहुदण्डमहीधरम् ।
दण्डितेन्द्रियहृद्वासं श्रीमुष्णेशं नमाम्यहम् ॥ ४०॥
दंष्ट्राकरालवदनं भृकुटी कुटिलेक्षणम् ।
स्फटिकातृणिभातारं श्रीमुष्णेशं नमाम्यहम् ॥ ४१॥
श्रीशङ्करः --
इति राजा स्तुवन्नास्ते श्रीमुष्णेवासमावहन ।
उद्वेला अभवन्सर्वे समुद्रात्कालचोदिताः ॥ ४२॥
एकार्णवमभोत् तत्र पश्यति-क्षितिशेश्वरम् ।
अभ्रान्तोयोगमारूढं निरीक्ष्य प्रलयं तथा ॥ ४३॥
आत्मन्यात्मानमादाय परेब्रह्मनितिष्कले ।
सजहोभोदिकं देहं प्रविवेशाच्युतोदरम् ॥ ४४॥
प्रवृत्तेस्मिन् ब्रह्मकल्पे स राजा च शतक्रतुः ।
यज्ञे पुरन्दरो नाम देवानामग्रणीर्बली ॥ ४५॥
देव-दानव-गन्धर्व-यक्ष-राक्षस-किन्नरैः ।
सङ्गीयमान-सत्कीर्तिः अप्सरो-गण-सेवितः ॥ ४६॥
पत्नी स धुनी शचीनाम्ना ललनानां शिरोमणिः ।
देवेन्द्र इति विख्यातः त्रैलोक्यादि पतिर्विभुः ॥ ४७॥
कथितं प्राप्तुमखिलं श्रीमुष्णेशः प्रसादतः ।
एवमन्ये च भूपालाः देवाश्च ऋषयोऽपरे ॥ ४८॥
यक्ष-किन्नर-साध्याश्च श्रीमुष्ण-क्षेत्रवासिनः ।
सिद्धिमापुर्महात्मानो योगिनामपि दुर्लभम् ॥ ४९॥
देवाश्च-सिद्ध-सङ्कल्पाः मुनयोऽमलचेतसः ।
श्रीमुष्णे-वासमिच्छन्ति मनुष्याणां तु का कथा ॥ ५०॥
श्रीमुष्णेशसमोदेवः क्षेत्रं श्रीमुष्णसन्निभम् ।
विचारितेषु शास्त्रेषु नास्ति नास्ति न संशयः ॥ ५१॥
श्रुत्वा श्रीमुष्णमाहात्म्यं दृष्ट्वा श्रीमुष्णनायकम् ।
स्नात्वा श्रीमुष्णतीर्थेषु पुनर्जन्म न विद्यते ॥ ५२॥
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
श्रीमुष्णे मरणादेव मुक्तिमेति न संशयः ॥ ५३॥
ब्रह्मज्ञानमृतेत्वापि मुक्तिर्नैवोपजायते ।
गङ्गायां तारकब्रह्म-ज्ञानं सोपतिशेद्धरः ॥ ५४॥
श्रीमुष्णे गरुडो ब्रह्मज्ञानं चोपतिसत्यलम् ।
श्रीमुष्णेशवराहस्य परितो योजनत्रयम् ॥ ५५॥
गयाप्रयागकाशीद्यः सत्ये शतगुणाधिकम् ।
तस्मान्नारद संसेव्यं श्रीमुष्णं पापनाशनम् ॥ ५६॥
श्रीमुष्णाभिमुखो भूत्वा सदा वृद्धाचले मुने ।
तपश्चरं वसाव्यङ्ग श्रीमुष्णेशं च विनयन् ॥ ५७॥
इति श्रीब्रह्माण्डपुराणे श्रीमुष्णमाहात्म्ये शङ्कर-नारद-संवादे
श्रीवराहस्तोत्रम्-नाम एकादशोद्यायः ॥
The varAhastotram and muShNamAhAtmya is not
readily found in the print of brahmANDapurANa.
Any additional information is welcome.
Prepared from audio, encoded, and proofread
by Musiri Janakiraman mnjraman at hotmail.com