वह्निसूनुस्तवः
यः कृष्णसेवार्थमगाधबोधं जगाद शास्त्रं भगवत्प्रणीतम् ।
निश्चित्य तद्भावमनन्यभावं तं वह्निसूनुं शरणं प्रपद्ये ॥ १॥
यः प्रार्थितो भक्तजनैः समस्तं करोति कार्यं करुणाकटाक्षः ।
क्षणं विना कृष्णकथां न चास्ति तं तह्निसूनुं शरणं प्रपद्ये ॥ २॥
यो गोकुलं गोपपतिर्यथा पुरा पुराणपुंसं प्रियमेत्य सादरम् ।
चकार वासं कमलानिवासं तं वह्निसूनुं शरणं प्रपद्ये ॥ ३॥
यो रासलीलाकुमुदौषधीशो भक्तार्थमाविष्कृतगोकुलेशः ।
तिरस्कृतानेकमहासुरेशस्तं वह्निसूनुं शरणं प्रपद्ये ॥ ४॥
यः संस्मृतः क्लेशमशेषमस्तं करोति सुस्थं निजभृत्यवर्गम् ।
तद्दुःखविध्वंसकृतोद्यमः सदा तं वह्निसूनुं शरणं प्रपद्ये ॥ ५॥
यः सर्वदाऽऽस्ते हरिदासवर्ये गोगोपगोपीजनराजिराजिते ।
शृण्वन् सुगीतानि यशोयुतानि तं वह्निसूनुं शरणं प्रपद्ये ॥ ६॥
यो धर्मरक्षार्थमतिप्रबुद्धैर्यज्ञैः समीजे जनकं कृशानुम् ।
भक्त्यैककामः श्रुतितन्त्रविज्ञस्तं वह्निसूनुं शरणं प्रपद्ये ॥ ७॥
यो रासलीलामृतसिन्धुवृद्धिं करोति पूर्णेन्दुगणैस्तु पूर्णः ।
भक्तेङ्गितज्ञः शुभवाञ्छितप्रदस्तं वह्निसूनुं शरणं प्रपद्ये ॥ ८॥
इमं स्तवं यः प्रपठेत्त्वदङ्घ्रिध्यानैकनिष्ठः शरणप्रलिप्सुः ।
तं भावय श्रेष्ठतमं स्वभक्तं प्रार्थ्य त्विदं त्वद्रघुनायकस्य ॥ ९॥
इति श्रीरघुनाथजीकृतो वह्निसूनुस्तवः समाप्तः ।
Proofread by PSA Easwaran