तुलसीकृत नारायणस्तुतिः
तुलस्युवाच ।
ॐ नमो भगवते तुभ्यं नारायण जगत्पते ।
केवलानुभवानन्दस्वरूप परमेश्वर ॥ १॥
कंसारये महेशाय केशवाय नमोऽस्तु ते ।
हरये नरसिंहाय श्रीकान्ताय नमो नमः ॥ २॥
नमो भक्त्यैकलभ्याय तर्कदूराय ते नमः ।
नमो वेदान्तवेद्याय विद्यावेद्याय ते नमः ॥ ३॥
नमस्ते श्रुतिगम्याय श्रुतिस्तुत्याय ते नमः ।
नमो नीलघनश्यामतनवे धृतमूर्त्तये ॥ ४॥
बहुरूपोरुरूपाय नीरूपाय नमो नमः ।
पूजकाय च पूज्याय पत्रपुष्पफलैः प्रभो ॥ ५॥
अभवाय भवच्छेत्रे सुखदुःखप्रदाय च ।
तवैवाहं सुखकरा त्वञ्च मे प्रभुरीश्वर ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं हरे नमः ॥ ६॥
इति स्तुत्वा दण्डवत् सा कृत्वा तञ्च प्रदक्षिणम् ।
पुनस्तुष्टाव तुष्टात्मा वचोभिरमलैः सखि ॥ ७॥
इति बृहद्धर्मपुराणान्तर्गता तुलसीकृता नारायणस्तुतिः सम्पूर्णा ॥
॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः ८। ८-१३॥
The text continues with Narayana emphasizing the
importance of worshipping using Tulasi patra.
Proofread by Ruma Dewan