त्रिमूर्तिस्तुतिः
नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ १॥
नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।
अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥ २॥
रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे ।
अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ ३॥
श्यामश्वेतारुणाङ्गा जलधरणिधरोत्फुल्लपङ्केरुहस्था
सोमासावित्र्युपेता रथचरणपिनाकोग्रहुङ्कारशस्त्राः ।
देवा द्वित्र्यष्टनेत्रा जगदवनसमुच्छेदनोत्पत्तिदीक्षाः
प्रीता वः पान्तु नित्यं हरिहरविधयस्तार्क्ष्र्यगोहंसपत्राः ॥ ४॥
इति त्रिमूर्तिस्तुतिः समाप्ता ।
Proofread by PSA Easwaran