श्रीतोताद्रिनाथस्तोत्रम्
श्रीः ।
श्रीमते रामानुजाय नमः ।
श्रीमद् वरवर मुनये नमः ।
श्रीमद् वानमहाचल गुरुभ्यो नमः ।
अथ श्री तोताद्रिनाथ स्तोत्रम् ।
कमलाधरणीसुरलोकवधू
विधिसूर्यचमूपतिशेषपते ।
विहगाधिपरोमशयोगिपते
भृगुयोगिमृकण्डुसुताधिपते ॥ १॥
शटजित्कलिजित्गुरुजित्यतिराट्
वरयोगिवरप्रदयोगिपते ।
शरणागतवत्सलसाधुपते
परिपालय मां वियदद्रिपते ॥ २॥
बहुजन्मकृतैरपराधगणैः
परिपूर्णजनावनदक्ष हरे ।
वरपङ्कसरोरुहपुष्करिणी
तटवाससमुत्सुक पाहि सदा ॥ ३॥
शटवैरिगुरूत्तमदिव्यसुधा
मयसूक्तिमुखैर्मुदितश्रवणात् ।
वियदद्रियतीन्द्रगुरुप्रथित
स्तुतदेवपतेर्नपरं कलये ॥ ४॥
चिरजीविमृकण्डुसुताधिपते
वरकोलसमुद्धृतभूमिपते ।
भृगुसेवितकृष्णरमाधिपते
वरदो भव वाननगाधिपते ॥ ५॥
विनाव्योमशैलं न नाथो न नाथः
सदा देवनाथं स्मरामि स्मरामि ।
रमानाथ नित्यं प्रसीद प्रसीद
प्रियं भक्तपाल प्रयच्छ प्रयच्छ ॥ ६॥
कादारितदैत्यबकास्यभजे
यमुकार्जुनमध्यगते नृहरे ।
ललनासुखलाभविनष्टवृष
प्रथदैत्यकसप्त सुराधिपते ॥ ७॥
पाञ्चजन्यधारिणे प्रयोगचक्रधारिणे
भक्तवृन्दरक्षणैकभोग्यसद्गुणात्मने ।
शत्रुसङ्घ भञ्चनैकलीलया विराजते
व्योमशैलनायकाय सन्ततं नमोस्तुते ॥ ८॥
युष्मत्तैलाभिषेकात् शटरिपुजननं कारिराजः स्वपत्न्यां
तस्मात्सर्वैः प्रपन्नैः अहरहरधुना तैलधाराभिशेकः ।
प्रेम्णानुष्टीयते हो वियदगनगरे देवतासार्वभौम
श्रीमत्तोताद्रिनाथाखिलजनहृदये मोदमार्धयस्व ॥ ९॥
यत्करोमि यद्शनामि यद्वदामि ददामि यत् ।
यत्तपस्यामि तोताद्रे तत्करोमि त्वदर्पणम् ॥ १०॥
सर्वधर्मान् परित्यज्य त्वद्पादकमलं श्रये ।
त्वा मां प्रपन्नं तोताद्रे नन्दयाघविमोचनैः ॥ ११॥
पद्मया वसुदया शठारिणा भव्यरूपवरमङ्गयोज्वल ।
भट्टनाथसुतयाञ्चितप्रभो देवदेव कृपयैव पाहि माम् ॥ १२॥
विजयीभव विजयीभव वियदद्रिपुरेस्मिन्
विजयीभव विजयीभव वरमङ्गलधाम्नि ।
विजयीभव विजयीभव विजयप्रदमूर्ते
विजयीभव विजयीभव शठवैरिशरण्य ॥ १३॥
स्वयम्व्यक्तविख्याततोताद्रिदेशे
वियत्पर्वते पाञ्चरात्रोपदेष्टा ।
वैखानसाराधितदिव्यमूर्तिः
शठारिगीतैरिह भासि नित्यम् ॥ १४॥
तोदाद्रिनाथ कमलारमणाहिभोगे
वैकुण्ठनामविमानविराजमान् ।
श्रीगालवाख्यमुनिशापविमोचनेन
भूम्यां प्रसिद्धशुभतीर्थतटे निवासिन् ॥ १५॥
तोदनात्सर्वपापानां तोताद्रिरिति गीयसे ।
तस्मात्वं सर्वपापेभ्यो मोक्षयासु वियद्गिरे ॥ १६॥
उपचारापदेशेन कृतस्तोत्रलसत्कवौ ।
विध्यमानापचाराम्श्च क्षमस्व गगनाचल ॥ १७॥
मङ्गलाशासनपरैः मदाचार्यपुरोगमैः ।
सर्वैश्चपूर्वैराचार्यैः स्तुतदेवपतिं भजे ॥ १८॥
शठकोपार्यविदुषा जगन्नाथार्यसूनुना ।
स्तुता तोताद्रिनाथस्य स्तुतिर्मुक्तैः सुगीयताम् ॥
इति गोपाल अय्य्ंगारविरचितं श्रीतोताद्रिनाथस्तोत्रं समाप्तम् ॥