श्रीतात्पर्यबोधः
(श्रीतात्पर्यबोधग्रन्धांशः)
श्रीमच्छ्रीवरगोकुलायतिविलोलाक्षीकदम्बाम्बुज-
श्रेणीसन्मकरन्दपानकुशल श्रीषट्पदालीश्वरः ।
स्वीयानां हि सतामनन्यमनसां सम्पूरयन् कामनाः ।
सोऽयं श्रीवरगोकुले विजयते श्रीगोकुलेशः सदा ॥ १॥
नत्वा वै चरणाम्बुजं सुसुखदं ध्येयं सतां सर्वदा
पद्मागारधरेन्दिराभृङ्गभवानीनाद्यगम्यं वरम् ।
श्रीश्रीगोकुलनायकस्य विमलं तात्पर्यबोधं करो-
तीमं वल्लभपादपद्मसुमनास्तस्याज्ञया माहवः ॥ २॥
एकस्मिन् समये स्थितौ शुभमती कौचिञ्जनौ गोकुले-
शाङ्घ्र्यम्बूद्भवयुग्मसक्तमनसौ श्रीवल्लभातिप्रियौ ।
श्रेष्ठो वल्लभदास एव च तयोर्वै कृष्णदासोऽपरः
पप्रच्छाथ विचार्य प्रश्नममल तं श्रेष्ठभक्तं सुधीः ॥ ३॥
कृष्णदास उवाच-
श्रेष्ठस्त्वं भक्तवर्येषु हरेर्वल्लभदास हि ।
दयासिन्धो ज्ञानसिन्धो कृपां कुरु मयि प्रिय ॥ ४॥
श्रीवल्लभाङ्गचिह्नानि दृश्यमानानि सर्वतः ।
पृच्छाम्याशुद्धभावेन कथयस्व सुबुद्धिमन् ॥ ५॥
द्विजरूपधरः साक्षाद्वल्लभः पुरुषोत्तमः ।
जयत्यतिशयं भूमौ स्वीयानां मुदमावहन् ॥ ६॥
तुलसीकाष्ठसम्भूतां कण्ठे मालां धरत्यसौ ।
तिलकं सान्तरालं च रदानम्बुदसन्निभान् ॥ ७॥
उदरे चिह्नमानीलं वामभागे सुवर्तुलम् ।
बहूपवीतकं कण्ठे सव्यभागे तु सूत्रयम् ॥ ८॥
श्रोत्रप्रवरयोरङ्गीकारस्तत्र सुलक्ष्म हि ।
मकराकारमारक्तं तत्र किं कारणं प्रिय ॥ ९॥
वेदादिग्रहणं कस्मात् सन्ध्यायास्तु विशेषतः ।
चक्रादिग्रहणं कस्मात् कुण्डले चक्रसन्निभे ॥ १०॥
कृष्णः श्यामस्त्वयं गौरस्तत्र किं कारणं प्रिय ।
पुराणपुरुषः साक्षाद्वल्लभो द्विजरूपभाक् ॥ ११॥
विभुर्मानवरूपी न तत्र किं कारणं सखे ।
शयनं दिवसे भूमावाचाराचरणं महत् ॥ १२॥
अतदन्यच्च सर्वं मे पृच्छते कृपया सखे ।
कथनीयं त्वया स्वस्थबुद्धितः श्रोतुमिच्छते ॥ १३॥
त्वं श्रीवल्लभपादाब्जासक्तोऽसि हरिवल्लभः ।
त्वत्पादाब्जाश्रितं मां हि कथयस्व कृपानिधे ॥ १४॥
इति तस्योदितं श्रुत्वा वल्लभङ्घ्रिसरोरुहम् ।
ध्यात्वा चोवाच वचनं तं श्रीवल्लभसेवकः ॥ १५॥
इति श्रीमाधवदासविरचितः श्रीतात्पर्यार्थबोधः ग्रन्थः सम्पूर्णः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com