तारतम्यस्तोत्रम्
विष्णुः सर्वोत्तमोऽथ प्रकृतिरथ विधिप्राणनाथावथोक्ते
ब्रह्माणी भारती च द्विजफणिमृढाश्च स्त्रियः षट् च विष्णोः ।
सौपर्णी वारुणी पर्वतपतितनया चेन्द्रकामावथास्मान्
प्राणोऽथो योऽनिरुद्धो रतिमनुगुरवो दक्षशच्यौ च पान्तु ॥ १॥
त्रायन्तां नः सदैते प्रवह उत यमो मानवी चन्द्रसूर्यौ
चाप्पोऽथो नारदोऽथो भृगुरनलकुलेन्द्रः प्रसूतिश्च नित्यम् ।
विश्वामित्रो मरीचिप्रमुखविधिसुताः सप्त वैवस्वताख्य-
श्चैवं वै मित्रतारे वरनिऋतिनामा प्रावही च प्रसन्नाः ॥ २॥
विष्वक्सेनोऽश्विनौ तौ गणपतिधनपावुक्तशेषाः शतस्था
देवाश्चोक्तेतरे ये तदवरमनवश्च्यावनोचथ्यसंज्ञौ ।
वैन्यो यः कार्तवीर्यः क्षितिपतिशशबिन्दुः प्रियादिव्रतोऽथो
गङ्गापर्जन्यसंज्ञे शशियमदयिते मा विराट् चाऽशु पान्तु ॥ ३॥
एभ्योऽन्ये चाग्निजाया च जलमयबुधश्चापि नामात्मिकोषा-
श्चैवं भूमौ ततात्मा शनिरपि तथितः पुष्करः कर्मपोऽपि ।
येऽथाऽथोचाप्युतानामिह कथिससुरा मध्यभागे समास्ते
विष्ण्वाद्या नः पुनान्तु क्रमगदितमहातारतम्येन युक्ताः ॥ ४॥
वन्दे विष्णुं नमामि श्रियमथ च भुवं ब्रह्मवायू च वन्दे
गायत्रीं भारतीं तामपि गरुडमनन्तं भजे रुद्रदेवम् ।
देवीं वन्दे सुपर्णीमहिपतिदयितां वारुणीमप्युमां ता-
मिन्द्रादीन् काममुख्यानपि सकलसुरांस्तद्गुरून् मद्गुरूंश्च ॥ ५॥
सर्वोत्तमो विष्णुरथो रमा च ब्रह्मा च वायुश्च तदीयपत्न्यौ ।
अन्ये च देवाः सततं प्रसन्ना हरौ सुभक्तिं मम सन्दिशन्तु ॥ ६॥
॥ इति तारतम्यस्तोत्रं सम्पूर्णम् ॥