स्वयमुत्प्रेक्षितलीला
श्रीराधावल्लभाय नमः ।
श्यामलसौहृदबद्धा कामिततत्पदसङ्गतिरद्धा ।
धैर्यमसौ स्मरवर्धितराधा प्राप न मन्दिरकर्मणि राधा ॥ १॥
तं कमलेक्षणमीक्षितुकामा सा च्छलतः सव्यमुज्झितधामा ।
यामुनरोधसि चारु चरन्ती दूरमविन्दत सुन्दरदन्ती ॥ २॥
(दोधकम्)
प्राप्योदारां परिमलधारां कंसारातेरुदयति वाते ।
सेयं दत्ता दिशि दिशि यत्ता दृष्टिं कम्रामकिरदनम्रा ॥ ३॥
भृङ्गीवेयं तमपरिमेयं मुग्धा गन्धं हृदि कृतबन्धम् ।
व्यग्रप्राया पुलकितकाया प्रेमोद्भ्रान्ता द्रुतमभियाता ॥ ४॥
कृष्णमवेक्ष्य ततः परितुष्टा पुष्पगणाहृतिकैतवजुष्टा ।
मन्थरपादसरोरुहपाता कुञ्जकुटीरतटीमुपयाता ॥ ५॥
सा पृथुवेपथुदोलितहस्ता प्रेमसमुत्थितभावविहस्ता ।
फुल्लमहीरुहमण्डलकान्ते तत्र पुरः प्रससार वनान्ते ॥ ६॥
(दोधकमेव)
माधवस्तां तदालोकयन् राधिकां
वल्लवीवर्गतः सद्गुणेनाधिकाम् ।
केयमुद्बाधते मद्वनं रागत-
स्तूर्णामित्युल्लपन् फुल्लधीरागतः ॥ ७॥
भालविद्योतितस्फीतगोरोचनं
पार्श्वतः प्रेक्ष्य तं विभ्रमल्लोचनम् ।
सा पटेनावृता कैतवाद् भामिनी
वक्रितभ्रूरभूद् दूरभूगामिनी ॥ ८॥ (स्रग्विणी)
लीलोद्भ्रान्तं मुहुरथ नुदती
नेत्रद्वन्द्वं दिशि दिशि सुदती ।
वीक्षाञ्चक्रे दलभरावकटां
मल्लीवल्लीं तटभुवि निकटाम् ॥ ९॥
तामुन्मीलद्भ्रमरविलसितां
लब्धा पुष्पैरुपरि किल सिताम् ।
लीनेवाभूद् विकसितमदना
तस्याः प्रान्ते सरसिजवदना ॥ १०॥ (भ्रमरविलसिता)
अञ्जसा व्याहरत् कञ्जसारेक्षण-
स्तामसौ स्रग्विणीं दामसौरभ्यभाक् ।
माधुरीमुद्ग्रिअन् साधुरीत्युज्ज्वलां
नूतनानन्ददां पूतनामर्दनः ॥ ११॥
भङ्गुरान् अङ्कुरान्निर्दयं छिन्दती
वीरुधः कोमओल्द्भेदिनीभिर्भिन्दती ।
आः कथं लुण्ठसि त्वं मृगाङ्कानने
पुष्पराजीमसौ हन्त मत्कानने ॥ १२॥
सदात्र चिनुमः प्रसूनमजने
वयं हि निरताः सुराभिभजने ।
न कोऽपि कुरुते निषेधरचनं
किमद्य तनुषे प्रगल्भवचनम् ॥ १३॥
प्रसीद कुसुमं विचित्र्य सरसा
प्रयामि सरसीरुहाक्ष तरसा ।
क्रियाद्य महती ममास्ति भवने
विलम्बमधिकं तनुष्व न वने ॥ १४॥ (जलोद्धतगतिः)
नियुक्तः क्षितीन्द्रेण तेनास्मि कामं
वनं पालयामि क्रमेणाभिरामम् ।
जनः शीर्णमप्युद्धरेद् यो दलार्धं
हराम्यम्बरं तस्य वित्तेन सार्धम् ॥ १५॥
परिज्ञातमद्य प्रसूनालिमेतां
लुनीषे त्वमेवं प्रवालैः समेताम् ।
धृतासौ मया काञ्चनश्रेणिगौरि
प्रविष्टासि गेहं कथं पुष्पचौरि ॥ १६॥ (भुजङ्गप्रयातम्)
स पतिः पिशुनः कुपितोऽपिशुनः
सदने मुखरा जरती मुखरा ।
चतुरा गुरवो भविता कुरवो
व्यसनं पुरुषेश्वर किं कुरुषे ॥ १७॥
जलजेक्षण हे कुलजामबलां
न हि दुर्यशसा रचयाधवलाम् ।
तरसा विरमत्किरणं तरणिं
दिवि पश्य ततस्त्यज मे सरणिम् ॥ १८॥ (तोटकम्)
जाने तव कचपक्षं
सम्भृतवरमल्लिकालक्षम् ।
उरसि च कञ्चुकराजं
ध्रुवमर्बुधमाधवीभाजम् ॥ १९॥
एहि तव क्षणमात्रं
विचारयामि क्रमाद् गात्रम् ।
तत्त्वे किल निर्णीते
प्रयाहि भवनं तडितपीते ॥ २०॥ (आर्या)
न मुषा माधव रचय विवादं
विदधे तव मुहुरहमभिवादम् ।
गोकुलवसतौ स्वरमिव मूर्तं
न किमु भवन्तं जाने धूर्तम् ॥ २१॥
वेत्ति न गोपी वृन्दारामं
वृन्दावनमपि भुवि कः कामम् ।
अहमिह तदिदं कितव रसालं
कथमवचेष्ये न कुसुमजालम् ॥ २२॥ (पज्झटिका)
नेदमत्र कलसस्तनि शंस
क्रोधनो नृपतिरेष नृशंसः ।
तेन हन्त विदिते वनभङ्गे
यौवतं पतति भीतितरङ्गे ॥ २३॥
तन्वि गेहगमनव्यवसायं
चेत् करोषि शृणु रम्यमुपायम् ।
अत्र मत्तबहुषट्पदवीरे
लीलया प्रविश कुञ्जकुटीरे ॥ २४॥ (स्वागता)
गोकुले कुलवधूभिरर्चिता
शीलचन्दनरसेन चर्चिता ।
राधाहमधिकारितामतः
किं करोषि मय्धूर्त कामतः ॥ २५॥
नाक्षिणी क्षिप कुरङ्गि सर्वतः
साक्षिणी भव सखीभिरन्विता ।
माधवः किल दुनोति मामसौ
साधवः शृणुत भोः शिखिस्त्रियः ॥ २६॥ (रथोद्धता)
भ्रूलेखां किमरालां त्वं निर्मासि करालां
किं वा पश्यसि वामं संरम्भादभिरामम् ।
दिष्ट्या काननलोला हेलोत्फुल्लकपोला
वृत्ता त्वं हरिहस्ते त्रातान्यो भुवि कस्ते ॥ २७॥
आरुह्य द्रुमवाटीं मुञ्चेमां परिपाटीं
गेहान्तस्तव सर्वं जाने भामिनि गर्वम् ।
नेदिष्ठः किल भूपः सोऽयं भैरवरूप-
स्तस्याग्रे चल वामे चोलीमर्पय वामे ॥ २८॥ (लोला)
इति वचनकदम्बैस्तत्र नर्मावलम्बैः
स्कलदमलदुकूलां प्रोल्लसद्बाहुमूलाम् ।
अविशदपदबद्धं गद्गदोद्गारनद्धं
किमपि किमपि जल्पं कल्प्यन्तीमनल्पम् ॥ २९॥
स्मितमुदितकपोलां निर्मितापाङ्गदोलां
वरयुवतिषु राधां प्रेमपूरादगाधाम् ।
सदनितलतिकान्तर्यो निनायातिकान्तः
स हरिरलमभीष्टप्रापणं मे कृषीष्ट ॥ ३०॥ (मालिनी)
इति श्रीरूपगोस्वामिविरचितस्तवमालायां स्वयमुत्प्रेक्षितलीला समाप्ता ।