शतदूषणीस्थहयग्रीवस्तोत्रम्
श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ।
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषा
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः ।
कथादर्पक्षुभ्यत्कलिकथककोलाहलभवं
हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥ १॥
हयग्रीवसुधासिन्धुहर्षहेषारवोर्मयः।
जयन्ति वादवेलान्तक्षिप्तबाह्यकुदृष्टयः ॥ २॥
संप्रज्ञातस्थितिमधिगते निर्विकल्पे समाधौ
शान्तावद्यं स्तिमितबहुलानन्दसन्दाहमन्तः ।
यत्तद्ब्रह्म स्फुरति यमिनां पूर्णषाड्गुण्यरूपं
सा मे नित्यं हृदि हयमुखी देवता सन्निधत्ताम् ॥ ३॥
यदात्मानो वेदा यदनुगुणवर्णाकृतिजुषः
प्रमाणं यत्रैते नियतमपरिच्छेध्यविभवे ।
य एषामाहर्ता दनुजमथनो वाजिवदनः
स मे देवः श्रीमान् विदलयतु सम्मोहमखिलम् ॥ ४॥
अबाधादध्यक्षप्रभृति मितिवर्गेष्ववधृतं
शरीरं यस्येदं जगदखिलमन्तर्यमयितुः ।
स मे तर्कैरेतैर्निजविभवलुण्टाकमथनैः
प्रसीदत्वासीदन्निगमशतसीमा हयमुखः ॥ ५॥
अज्ञानसन्तमसमाश्रयणोन्मुखानां
संवित्प्रदीपमहसा सहसा निरुन्धन् ।
विद्यास्वयंवरपतिर्व्यपहन्त्वविद्यां
सर्वानुभूः स भगवान् पुरुषोत्तमो नः ॥ ६॥
विदितमनुवदन्तो विश्वमेतद्यथावत्
विदधति निगमान्ताः केवलं यन्मयत्वम् ।
अविदितबहुभूमा नित्यमन्तर्विधत्तां
हयवरवदनोसौ सन्निधिः सन्निधिं नः ॥ ७॥
हयमुखमुखैस्तत्तद्रूपैरकर्मविनिर्मितै-
रुपदिशति यस्तथ्यं पथ्यं सतामवसीदताम् ।
जननपदवीयातायातश्रमापहरां धियं
जनयतु स मे देवः श्रीमान् धनञ्जयसारथिः ॥ ८॥
नमस्त्रेधा विभक्तानामात्मनामन्तरात्मने ।
ब्रह्मणे हयवक्त्राय बन्धमोक्षैकहेतवे ॥ ९॥
य एको दुर्लङ्घ्यत्रिगुणनिजमयानिगलितै-
र्विचित्रैः क्षेत्रज्ञैर्विहरति सरोजासहचरः ।
जगत्सर्गक्षेमक्षपणपरिकर्मीणमहिमा
दयालुर्देवोसौ तुरगवदनस्तारयतु नः ॥ १०॥
अनन्यानां पुंसामनवधिकभक्तिस्थितिजुषा-
मविद्याध्वंसो यञ्चरणवरिवस्यापरिणतेः ।
तदेकं सत्संवित्सुखमवघिदूरिकृतगुणं
हताशेषावद्यं हयवदनमीडीमहि महः ॥ ११॥
हताशेषक्लेशा निरवधि महानन्दधनिनो
वयं भूयास्मेति स्थिरमनघवर्मन्यधिकृताः ।
अनाघ्रातद्वन्द्वा हयमुखपदद्वन्द्वरुचयः
स्वदन्तां मे सन्तः श्रुतिजलधिमुष्टिन्धयधियः ॥ १२॥
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
इति श्रीशतदूषणीस्थहयग्रीवस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Vedha Nathan vnathan.lab at gmail.com, NA