श्रीशैलेशाष्टकम्
श्रीदेवराजगुरुभिरनुगृहीतं
श्रीरस्तु ।
श्रीमते हयग्रीवाय नमः ।
श्रीमते रामानुजाय नमः ॥
सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् ।
देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम् ॥
शेषः श्रीमानजनि हि पुरा सौम्यजामातृयोगी
भोगी भूतस्तदनु भगवान् राघवस्यानुजन्मा ।
भूत्वा भव्यो वरवरमुनिर्भूयसा भासमानः
रक्षत्वस्मान् रघुकुलपतेरास्थितो भद्रपीठम् ॥ १॥
श्रोतुं द्राविडवेदभूरिविवृतिं सौम्योपयन्तुर्मुनेः
उत्कण्ठाऽस्ति ममैनमानयत तं तार्क्ष्याश्रयं मण्डपम् ।
आविश्यार्चकमूचिवानिति मुदा निश्शेषलोकान्वितः
रङ्गी वत्सरमेकमेवमशृणोत् व्यक्तं यथोक्तक्रमात् ॥ २॥
श्रीभूभ्यां रङ्गनाथे शठजिदुपनिषद् व्याक्रियां
श्रोतुकामे शेषस्सन्तोषयिष्यन् वरवरमुनितां प्राप्य यो वर्ततेऽग्रे ।
काषायश्रीतुलस्यम्बुजमणिसुशिखायज्ञसूत्रत्रिदण्डैः
भान्तं शुभ्रोर्ध्वपुण्ड्रं स्मर हृदय सदा कोशमुद्राङ्कहस्तम् ॥ ३॥
कृपया परया स रङ्गराट् महिमानं महतां प्रकाशयन् ।
लुलुभे स्वयमेव चेतसा वरयोगिप्रवरस्य शिष्यताम् ॥ ४॥
समाप्तौ ग्रन्थस्य प्रथितविविधोपायनचये
परं सज्जीभूते वरवरमुनेरङ्घ्रिसविधे ।
हठाद्बालः कश्चित् कुत इति निरस्तोऽप्युपगतः
जगौ रङ्गेशाख्यः परिणतचतुर्हायन इदम् ॥ ५॥
श्रीमान् रङ्गेश्वरो यद्वकुलवरवचोभाष्यसारार्थजातं
श्रुत्वा सौम्योपयन्ता मुनिवरचरणे च्छात्रभावं प्रपन्नः ।
श्रीशैलेशेति पद्यं खगपतिनिलये मण्डपे तत्समाप्तौ
उक्त्वाऽध्येतव्यमेतन्निखिल- निजगृहेष्वादिशत्तत्तदादौ ॥ ६॥
वेदादौ पूर्वमुक्त्वा हरिरिति सुजनो वक्ति पश्चाद्यथोमित्येवं
वक्तव्यमेतद्वकुलधरवचोऽनुश्रवारम्भकाले ।
श्रीशैलेशेति पद्यं प्रथममथ सतां संप्रदायैकनिष्ठैः
लक्ष्मीनाथेति पद्यं स्वयमिति भगवानादिशद्रङ्गनाथः ॥ ७॥
यद्वद्वक्तुं न युक्तं प्रणवहरिपदाभ्यन्तरेऽन्यत्पदं तत्
कृष्णेत्येतत्कदाचिन्मुनिशतवचनैर्वैदिकैर्ब्रह्मनिष्ठैः ।
तद्वद्रङ्गेशभक्तैः शमदमनियतैः साधुभिस्तत्त्वविद्भिः
वक्तुं युक्तं न मध्ये सपदि नियतयोरेतयोः पद्यमन्यत् ॥ ८॥
शठरिपुरेक एव कमलापतिदिव्यकविः
मधुरकविर्यथा च शठजिन्मुनिमुख्यकविः ।
यतिकुलपुङ्गवस्य भुवि रङ्गसुधाकविराट्
वरवरयोगिनो वरदराजकविश्च तथा ॥ ९॥
इति श्रीशैलेशाष्टकं समाप्तम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com