सत्यनारायण मङ्गलाशासनम्
सत्यावताररूपाय मङ्गलाभरणाङ्घ्रये ।
पम्पातीर निवासाय सत्यदेवाय मङ्गलम् ॥ १॥
स्थितमन्नवरग्रामे प्रियसत्यव्रतं प्रभुम् ।
स्मरामि वरदातारं सत्यदेवाय मङ्गलम् ॥ २॥
द्वारे कनकदुर्गा ते वनदुर्गगिरिस्थिता ।
रामस्तु व्रतशालायां सत्यदेवाय मङ्गलम् ॥ ३॥
सत्यनारायणायास्तु सेव्यमानाय निर्जरैः ।
कलिकल्मषनाशाय सत्यदेवाय मङ्गलम् ॥ ४॥
सत्याय सत्यरूपाय सत्यानन्दस्वरूपिणे ।
हरिहरस्वरूपाय सत्यदेवाय मङ्गलम् ॥ ५॥
अनन्तपद्मनाभाय माङ्गल्यगुणशालिने ।
सेव्यायानन्तलक्ष्म्या च सत्यरूपाय मङ्गलम् ॥ ६॥
पद्मनाभस्वरूपाय पर्वतोपरिवासिने ।
सत्यवत्या समेताय सत्यरूपाय मङ्गलम् ॥ ७॥
सत्यव्रतस्वरूपाय व्रताचरणमोदिने ।
नित्यव्रतस्वरूपाय सत्यरूपाय मङ्गलम् ॥ ८॥
अभीष्टसिद्धिदात्रे च सर्वसद्गुणरूपिणे ।
आश्रितावनदक्षाय सत्यरूपाय मङ्गलम् ॥ ९॥
श्रीकृष्णशास्त्रिणा बद्ध यन्त्रमध्यस्थिताय च ।
श्रीकृष्णवंशपालाय सत्यरूपाय मङ्लम् ॥ १०॥
इति श्रीसत्यनारायण मङ्गलाशासनं समाप्तम् ।
Proofread by PSA Easwaran