श्रीरङ्गराजस्तवम्
श्रीमते रामानुजाय नमः ।
श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान्श्रेयसे मेऽस्तु भूयसे ।
अथ श्रीरङ्गराजस्तवे पूर्वशतकम् ।
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ १॥
रामानुजपदच्छाया गोविन्दाह्वाऽनपायिनी ।
तदायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली ॥ २॥
रामानुजमुनिर्जीयाद्यो हरेर्भक्तियन्त्रतः ।
कलिकोलाहलक्रीडामुधाग्रहमपाहरत् ॥ ३॥
विधाय वैदिकम्मार्गमकौतस्कुतकण्टकम् ।
नेतारं भगवद्भक्तेर्यामुनं मनवामहै ॥ ४॥
नौमि नाथमुनिं नाम जीमूतं भक्त्यवग्रहे ।
वैराग्यभगवत्तत्त्वज्ञानभक्त्यभिवर्षुकम् ॥ ५॥
ऋषिं जुषामहे कृष्णतृष्णातत्त्वमिवोदितं
सहस्रशाखां योऽद्राक्षीद्द्राविडीं ब्रह्मसंहिताम् ॥ ६॥
नमः श्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः ।
ईशेशितव्यवैषम्यनिम्नोन्नतमिदं जगत् ॥ ७॥
श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये ।
चिन्तामणिमिवोद्वान्तमुत्सङ्गेऽनन्तभोगिनः ॥ ८॥
अस्ति वस्त्विदमित्थं त्वप्रसङ्ख्यानपराङ्मुखम् ।
श्रीमत्यायतने लक्ष्मीपदलाक्षैकलक्षणम् ॥ ९॥
लक्ष्मीकल्पलतोत्तुङ्गस्तनस्तबकचञ्चलः ।
श्रीरङ्गराजभृङ्गो मे रमतां मानसाम्बुजे ॥ १०॥
स्वस्ति श्रीस्तनकस्तूरीमकरीमुद्रितोरसः ।
श्रीरङ्गराजाच्छरदश्शतमाशास्महेतमाम् ॥ ११॥
पातु प्रणतरक्षायां विलम्बमसहन्निव ॥
सदा पञ्चायुधीं बिभ्रत्स नः श्रीरङ्गनायकः ॥ १२॥
अमतं मतं मतमथामतं स्तुतं
परिनिन्दितं भवति निन्दितं स्तुतम् ।
इति रङ्गराजमुदजूघुषत्त्रयी
स्तुमहे वयम्किमिति तन्न शक्नुमः ॥ १३॥
यदि मे सहस्रवदनादिवैभवं
निजमर्पयेत्स किल रङ्गचन्द्रमाः ।
अथ शेषवन्मम च तद्वदेव वा
स्तुतिशक्त्यभावविभवेऽपि भागिता ॥ १४॥
सो अङ्ग वेद यदि वा न किलेति वेदः
सन्देग्ध्यनर्घविदमात्मनि रङ्गनाथम् ।
स्थाने तदेष खलु दोषमलीमसाभिः
मद्वाग्भिरैशमतिशायनमावृणोति ॥ १५॥
स्वं संस्कृतद्राविडवेदसूक्तैः
भान्तं मदुक्तैर्मलिनीकरोति ।
श्रीरङ्गकम्रः कलभं क एव
स्नात्वाऽपि धूलीरसिकं निषेद्धा ॥ १६॥
किन्तु प्रपत्तिबलतारितविष्णुमाय-
मद्वंश्यराजकुलदुर्ललितं किलैवम् ।
श्रीरङ्गराजकमलापदलालितत्वं
यद्वाऽपराध्यति मम स्तुतिसाहसेऽस्मिन् ॥ १७॥
नाथस्य च स्वमहिमार्णवपारदृश्व-
विज्ञानवाग्विलसितं सहते न वेदः ।
आपेक्षिकं यदि तदस्ति ममापि तेन
श्रीरङ्गिणः स्तुतिविधावहमध्यकार्षम् ॥ १८॥
अन्यत्रातद्गुणोक्तिर्भगवति न तदुत्कर्षचौर्यैः परेषां
स्तुत्यत्वाद्यावदर्था फणितिरपि तथा तस्य निस्सीमकत्वात् ।
आम्नायानामसीम्नामपि हरिविभवे वर्षबिन्दोरिवाऽब्धौ
सं बन्धात्स्वात्मलाभो न तु कबलनतः स्तोतुरेवं न किं मे ॥ १९॥
कावेरीमवगाहिषीय भगवद्भोगान्तरायी भवत्
कर्मक्लेशफलाशयप्रशमनोद्वेलामलस्रोतसम् ।
जन्तोस्सम्सरतोऽर्चिरादिसरणिव्यासङ्गभङ्गाय या
लोकेऽस्मिण् विरजेव वेल्लितजला श्रीरङ्गमालिङ्गति ॥ २०॥
दुग्धाब्धिर्जनको जनन्यहमियं श्रीरेव पुत्री वरः
श्रीरङ्गेश्वर एतदर्हमिह किं कुर्यामितीवाकुला ।
चञ्चच्चामरचन्द्रचन्दनमहामाणिक्यमुक्तोत्करान्
कावेरी लहरीकरैर्विदधती पर्येति सा सेव्यताम् ॥ २१॥
तीर्थं शुन्धति पाति नन्दनतरून् रथ्याङ्गणान्युक्षति
स्नानीयार्हणपानवारि वहति स्नातः पुनीते जनान् ।
श्यामं वेदरहो व्यनक्ति पुलिने फेनैर्हसन्तीव तत्
गङ्गां विष्णुपदीत्वमात्रमुखरां हेमापगा हन्त्वघम् ॥ २२॥
अगणितगुणावद्यं सर्वं स्थिरत्रसमप्रति-
क्रियमपि पयः पूरैराप्याययन्त्यनुजाग्रती ।
प्रवहति जगद्धात्री भूत्वेव रङ्गपतेर्दया
शिशिरमधुराऽगाधा सा नः पुनातु मरुद्वृधा ॥ २३॥
तरळतनुतरङ्गैर्मन्दमान्दोल्यमान-
स्वतटविटपिराजीमञ्जरीसुप्तभृङ्गा ।
क्षिपतु कनकनाम्नी निम्नगा नारिकेल-
क्रमुकजमकरन्दैर्मांसलापा मदंहः ॥ २४॥
कदलवकुलजम्बूपूगमाकन्दकण्ठ-
द्वयससरसनीरामन्तरा सह्यकन्याम् ।
प्रबलजलपिपासालम्बमानाम्बुदौघ-
भ्रमकरतरुवृन्दं वन्द्यतामन्तरीपम् ॥ २५॥
यद्विष्णोः पदमतमः परोरजोऽग्र्यं
मुक्तानामनुविरजं विदीप्रमाहुः ।
तत्पुण्यं पुलिनमिदन्तयाऽद्य मध्ये
कावेरि स्फुरति तदीक्षिषीय नित्यम् ॥ २६॥
त्रय्यन्तप्रहतिमतीषु वैष्णवानां
प्राप्यासु प्रचुरभवश्रमापहासु ।
कावेरीपरिचरितासु पावनीषु
श्रीरङ्गोपवनतटीषु वर्तिषीय ॥ २७॥
स्फुरितशफरदीर्यन्नालिकेरीगुलुच्छ-
प्रसृमरमधुकुल्यावर्धितानोकहानि ।
रतिमविरति रङ्गारामरम्यस्थलानि
क्रमुकपदसमोचामेचकानि क्रियासुः ॥ २८॥
अधिपरमपदं पुरीमयोध्यां
अमृतवृतामपराजितामुशन्ति ।
पुलिनमुपरि रङ्गराजधानी
पिशितदृशामपि सा पुरश्चकास्ति ॥ २९॥
भवपदमपि दिव्यधाम कर्तुं
तदुभयतन्त्रितहर्म्यमालिकेव ।
भवनमणितलैर्विजृम्भमाणा
जयतितरामिह रङ्गराजधानी ॥ ३०॥
मणिमकररुचीर्वितत्य पाशान्
विसृमरकेतुकरैर्मृगं हिमांशोः ।
श्रिय इव नवकेलये जिघृक्षुः
सुखयतु रङ्गपुरी चकासती नः ॥ ३१॥
जनपदसरिदन्तरीपपुष्यत्
पुरपरिपालननित्यजागरूकान् ।
प्रहरणपरिवारवाहनाढ्यान्
कुमुदमुखाण् गणनायकान् नमामि ॥ ३२॥
अहृतसहजदास्याः सूरयस्स्रस्तबन्धा
विमलचरमदेहा इत्यमी रङ्गधाम ।
महितमनुजयतिर्यक्स्थावरत्वाः श्रयन्ते
सुनियतमिति ह स्म प्राहुरेभ्यो नमः स्तात् ॥ ३३॥
श्रीरङ्गदिव्यभवनम्भुवि गोपुराणां
प्राकारितेन निकरेण गुरुत्मतेव ।
पार्श्वप्रसारितपतत्त्रपुटेन भक्त्या
नानातनूभिरूपगूढमुपघ्नयामः ॥ ३४॥
प्राकारमध्याजिरमण्डपोक्त्या
सद्वीपरत्नाकररत्नशैला ।
सर्वंसहा रङ्गविमानसेवां
प्राप्तेव तन्मन्दिरमाविरस्ति ॥ ३५॥
जितबाह्यजिनादिमणिप्रतिमा
अपि वैदिकयन्निव रङ्गपुरे ।
मणिमण्डपवपगणन् विदधे
परकालकविः प्रनमेमहि तान् ॥ ३६॥
स्मेराननाक्षिकमलैर्नमतः पुनानान्
दंष्ट्रागदाभ्रुकुटिभिर्द्विषतो धुनानान् ।
चन्द्रप्रचण्डमुखतः प्रणमामि रङ्ग-
द्वारावलीषु चतसृष्वधिकारभाजः ॥ ३७॥
सर्वात्मसाधारणनाथगोष्ठी-
पूरेऽपि दुष्पूरमहावकाशम् ।
आस्थानमानन्दमयं सहस्र-
स्थूणादिनाऽऽम्नातमवाप्नवानि ॥ ३८॥
विहरति हरौ लक्ष्म्या लीलातपत्रपरिष्क्रिया-
विनिमयविधासूनासूनिक्रियासफलोत्पलाम् ।
अथ मुनिमनः पद्मेष्वब्जासहायविहारज-
श्रमहरतटीं यामस्तामैन्दवीमरविन्दिनीम् ॥ ३९॥
तापत्रयीमैन्दवपुष्करिण्यां
निमज्ज्य निर्वापयिताऽस्मि यस्याः ।
अभ्यासतोऽपामघमर्षणीनां
चन्द्रः सुधादीधितितामवाप ॥ ४०॥
पूर्वेण तां तद्वदुदारनिम्न-
प्रसन्नशीताशयमग्ननाथाः ।
पराङ्कुशाद्याः प्रथमे पुमांसो
निषेदिवांसो दश मां दयेरन् ॥ ४१॥
आधारशक्तिमुपरि प्रकृतिं परेण
तां कूर्ममत्र फणिनं पृथिवीं फणासु ।
पृथ्व्यां पयोधिमधि तन्नलिनं निधाय
श्रीरङ्गधाम सुनिविष्टमभिष्टवानि ॥ ४२॥
परेण नाकं पुरि हेममय्यां
यो ब्रह्मकोशोऽस्त्यपराजिताख्यः ।
श्रीरङ्गनाम्ना तमपौरुषेयं
विमानराजं भुवि भावयानि ॥ ४३॥
अनाद्याम्नातत्वात्पुरुषरचनादोषरहितं
जने तांस्तान् कामाण् विदधदपि सायुज्यहृदयम् ।
असन्देहाध्यासं भगवदुपलम्भस्थलममी
प्रतीमः श्रीरङ्गं श्रुतिशतसमानर्द्धि शरणम् ॥ ४४॥
अपि फणिपतिभावाच्छुभ्रमन्तः शयालोः
मरकतसुकुमारैः रङ्गभर्तुर्मयूखैः ।
सकलजलधिपानश्यामजीमूतजैत्रं
पुलकयति विमानं पावनं लोचने नः ॥ ४५॥
व्यापि रूपमपि गोष्पदयित्वा
भक्तवत्सलतयोज्झितवेलम् ।
तद्विषन्तपनृकेसरिरूपं
गोपुरोपरि विजृम्भितमीडे ॥ ४६॥
अहमलमवलम्बः सीदतामित्यजस्रं
निवसदुपरिभागे गोपुरं रङ्गधाम्नः ।
क्वचन नृपरिपाटीवासितं क्वापि सिम्ह-
क्रमसुरभितमेकं ज्योतिरग्रे चकास्ति ॥ ४७॥
संशोध्य पावनमनोहरदृष्टिपातैः
देवाय मामपि निवेदयतां गुरूणाम् ।
सव्योत्तरे भगवतोऽस्य कटाक्षवीक्षा-
पङ्क्तिं प्रपद्य परितः परितो भवेयम् ॥ ४८॥
श्रीरङ्गराजकरनम्रितशाखिकाभ्यो
लक्ष्म्या स्वहस्तकलितश्रवणवतंसम् ।
पुन्नागतल्लजमजस्रसहस्रगीति-
सेकोत्थदिव्यनिजसौरभमामनामः ॥ ४९॥
श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं
विन्यस्य विश्वचिदचिन्नयनाधिकारम् ।
यो निर्वहत्यनिशमङ्गुलिमुद्रयैव
सेनान्यमन्यविमुखास्तमशिश्रियाम ॥ ५०॥
सैन्यधुरीणप्राणसहायां सूत्रवतीमाशिश्रियमम्बाम् ।
श्रीपदलाक्षालाञ्छितसेवाप्रोतलसद्दोर्वल्लिविलासाम् ॥ ५१॥
विदधतु सुखं विष्वक्सेनस्य ते प्रथमे भटाः
करिमुखजयत्सेनौ कालाह्वसिंहमुखौ च नः ।
जगति भजतां तत्तत्प्रत्यूहतूलदवानलाः
दिशि दिशि दिवारात्रं श्रीरङ्गपालनकर्मठाः ॥ ५२॥
श्रुतिमयमतिहर्षप्रश्रयस्मेरवक्त्रं
मणिमुकुरमिवाग्रे मङ्गलं रङ्गधाम्नः ।
शरणमभिगताः स्मो यत्र रूपस्वरूप-
स्वगुणमहिमदर्शी मोदते रङ्गशायी ॥ ५३॥
तार्क्ष्यपक्षतिवदस्य वल्लभां
रुद्रया सह सुकीर्तिमर्चये ।
हर्षबाष्पमपि कीर्तिमर्थिनां
यन्मुखेन कमला कटाक्षयेत् ॥ ५४॥
स्वास्त्ररूपस्फुरन्मौलि मा शब्द इति
उद्धुनानां सुरास्तर्जनीमुद्रया ।
नाथनिद्रोचितोन्निद्रताम्रेक्षणां
सञ्चरन्तीं स्तुमस्तां च पञ्चायुधीम् ॥ ५५॥
अस्त्रग्रामाग्रेसरं नाथवीक्षा-
शीधुक्षीबोद्वेलनृत्ताभिरामम् ।
चक्रं दैत्यच्छेदकल्माषिताङ्गं
भ्राम्यज्ज्वालामालभारि प्रपद्ये ॥ ५६॥
हनुभूषविभीषणयोः स्यां यतमाविह मोक्षमुपेक्ष्य ।
रघुनायकनिष्क्रयभूतं भुवि रङ्गधनं रमयेते ॥ ५७॥
इतो बहिः पञ्च पराञ्चि खानि प्रत्यञ्चि तानि स्युरितोऽन्तरित्थम् ।
औपाधिकेभ्यो निरुपाधिभोग्ये प्रत्याहरद्वेत्रधरं नमामि ॥ ५८॥
शेषशयलोचनामृतनदीरयाकुलितलोलमानानाम् ।
आलम्बमिवामोदस्तम्भद्वयमन्तरङ्गमभियामः ॥ ५९॥
श्रीरङ्गान्तर्मन्दिरं दीप्रशेषं श्रीभूमीतद्रम्यजामातृगर्भम् ।
पश्येम श्रीदिव्यमाणिक्यभूषामञ्जूषायास्तुल्यमुन्मीलितायाः ॥ ६०॥
लीलालताकृपाणीभृङ्गारपतद्ग्रहार्पितकराग्राः ।
प्रोतावतंसितकुचाः पदाब्जसम्वाहिनीर्वयं स्तुमहे ॥ ६१॥
मुकुलितनलिनाः सकौमुदीका
इव सुनिशा विमलादिका नवापि ।
शिरसि कृतनमस्यदेकहस्ता
इतरकरोच्चलचामराः श्रयेयम् ॥ ६२॥
उत्फुल्लपङ्कजतटाकमिवाभियानि
श्रीरङ्गराजमिह दक्षिणसव्यसीम्नोः ।
लक्ष्मीं विहाररसिकामिव राजहम्सीं
छायामिवाभ्युदयिनीमवनीं च तस्याः ॥ ६३॥
पिब नयन पुरस्ते रङ्गधुर्याभिधानं
स्थितमिव परिफुल्लत्पुण्डरीकं तटाकम् ।
श्रियमपि विहरन्तीं राजहम्सीमिवास्मिन्
प्रतिफलनमिवास्याः पश्य विश्वम्भरां च ॥ ६४॥
सौशील्यशीतलमवेलकृपातरङ्ग-
सम्प्लाविताखिलमकृत्रिमभूम निम्नम् ।
लक्ष्म्या च वासितमभूम विगाहमानाः
श्रीरङ्गराजमिषपद्मसरः प्रसन्नम् ॥ ६५॥
सिंहासने कमलया क्षमया च विश्वं
एकातपत्रयितुमस्मदसून्निषण्णम् ।
लक्ष्मीस्वयम्वरसनाथितयौवनश्री-
सौन्दर्य सम्पदवलिप्तमिवालिहीय ॥ ६६॥
आपादमूलमणिमौलिसमुल्लसन्त्या
स्वातन्त्र्यसौहृदतरङ्गितयाऽङ्गभङ्ग्या ।
सख्यं समस्तजनचेतसि सन्दधानं
श्रीरङ्गराजमनिमेषमनुस्रियास्म ॥ ६७॥
क्षितिकमलनिवासाकल्पवल्लीसलीलो-
ल्लुठनदशदिशोद्यद्यौवनारम्भजृम्भः ।
श्रममपहरतां मे रङ्गधामेति तत्तद्-
वरमयफलनम्रः पत्रलः पारिजातः ॥ ६८॥
सम्भाषमाणमिव सर्ववशंवदेन
मन्दस्मितेन मधुरेण च वीक्षणेन ।
दिव्यास्त्रपुष्पितचतुर्भुजमत्युदारं
रङ्गास्पदं मम शुभाश्रयमाश्रयाणि ॥ ६९॥
एते शङ्खगदासुदर्शनभृतः क्षेमाङ्करा बाहवः
पादद्वन्द्वमिदं शरण्यमभयं भद्रं च वो हे जनाः ।
इत्यूचिष्यभयङ्करे करतले स्मेरेण वक्त्रेण तद्-
व्याकुर्वन्निव निर्वहेन्मम धुरं श्रीरङ्गसर्वंसहः ॥ ७०॥
अङ्गैरहम्प्रथमिकाचरितात्मदानैः
आमोदमाननवयौवनसावलेपैः ।
है पारिजातमिव नूतनतायमान-
शाखाशतं हृदि दधीमहि रङ्गधुर्यम् ॥ ७१॥ वर्। कथमधीमहि
आलोका हृदयालवो रसवशादीशानमीषत्स्मितं
प्रच्छायानि वचांसि पद्मनिलया चेतः शरव्यं वपुः ।
चक्षुष्मन्ति गतागतानि त इमे श्रीरङ्गशृङ्गार ते
भावा यौवनगन्धिनः किमपरं सिञ्चन्ति चेतांसि नः ॥ ७२॥
आयत्किरीटमलिकोल्लसदूर्ध्वपुण्ड्रं
आकर्णलोचनमनङ्कुशकर्णपाशम् ।
उत्फुल्लवक्षसमुदायुधबाहुमर्ह-
न्नीविं च रङ्गपदमब्जपदं भजामः ॥ ७३॥ वर्। पति
अब्जन्यस्तपदाब्जमञ्चितकटीसंवादिकौशेयकं
किञ्चित्ताण्डवगन्धिसंहननकं निर्व्याजमन्दस्मितम् ।
चूडाचुम्बिमुखाम्बुजं निजभुजाविश्रान्तदिव्यायुधं
श्रीरङ्गे शरदः शतं तत इतः पश्येम लक्ष्मीसखम् ॥ ७४॥
अग्रे तार्क्ष्येण पश्चादहिपतिशयनेनात्मना पार्श्वयोश्च
श्रीभूमिभ्यामतृप्त्या नयनचुलकनैः सेव्यमानामृतौघम् ।
वक्त्रेणाविःस्मितेन स्फुरदभयगदाशङ्खचक्रैर्भुजाग्रैः
विश्वस्मै तिष्ठमानं शरणमशरणा रङ्गराजं भजामः ॥ ७५॥
आर्तापाश्रयमार्थिकल्पकमसह्यागस्करक्ष्मातलं
सद्यः सम्श्रितकामधेनुमभियत्सर्वस्वमस्मद्धनम् ।
श्रीरङ्गेश्वरमाश्रयेम कमलाचक्षुर्महीजीवितं
श्रीरङ्गे स सुखाकरोतु सुचिरं दास्यं च धत्तां मयि ॥ ७६॥
स्वफणवितानदीप्रमणिमालिसुदामरुचि-
म्रदिमसुगन्धिभोगसुखशायितरङ्गधनम् ।
मदभरमन्थरोच्छ्वसितनिःश्वसितोत्तरलं
फणिपतिडोलिकातलिममाश्वसिमः प्रणताः ॥ ७७॥
वटदलदेवकीजठरवेदशिरः कमला-
स्तनशठकोपवाग्वपुषि रङ्गगृहे शयितम् ।
वरदमुदारदीर्घभुजलोचनसंहननं
पुरुषमुपासिषीय परमं प्रणतार्तिहरम् ॥ ७८॥
उदधिपरमव्योम्नोर्विस्मृत्य पद्मवनालया-
विनिमयमयीं निद्रां श्रीरङ्गनामनि धामनि ।
फणिपरिवृढस्फारप्रश्वासनिःश्वसितक्रम-
स्खलितनयनं तन्वन्मन्वीत नः परमः पुमान् ॥ ७९॥
जलधिमिव निपीतं नीरदेनाद्रिमब्धौ
निहितमिव शयानं कुञ्जरं वाद्रिकुञ्जे ।
कमलपदकराक्षं मेचकं धाम्नि नीले
फणिनमधिशयानं पूरुषं वन्दिषीय ॥ ८०॥
श्रीरङ्गेशय इह शर्म निर्मिमीतामाताम्राधरपदपाणिविद्रुमो नः ।
कावेरीलहरिकरोपलाल्यमानो गम्भीराद्भुत इव तर्णकोऽर्णवस्य ॥ ८१॥
सिञ्चेदिमं च जनमिन्दिरया तटित्वान्
भूषामणिद्युतिभिरिन्द्रधनुर्दधानः ।
श्रीरङ्गधामनि दयारसनिर्भरत्वा-
दाद्रौ शयालुरिव शीतलकालमेघः ॥ ८२॥
आमौलिरत्नमकरात्पुनरा च पद्भ्यां
धामक्रमोन्नमदुदारमनोहराङ्गम् ।
श्रीरङ्गशेषशयनं नयनैः पिबामः
पश्यन्मनःप्रवणमोघमिवामृतस्य ॥ ८३॥
अरविन्दितमङ्घ्रिपाणिपद्मै-
रपि तापिञ्छितमञ्चिताङ्गकान्त्या ।
अधरेण स बन्धुजीवितं श्रीः
नियतं नन्दनयेत रङ्गचन्द्रम् ॥ ८४॥
अन्योन्यरञ्जकरुचोऽनुपमानशोभाः
दिव्यस्रगम्बरपरिष्करणाङ्गरागाः ।
संस्पर्शतः पुलकिता इव चिन्मयत्वात्
रङ्गेन्दुकान्तिमधिकामुपबृम्हयन्ति ॥ ८५॥
द्रुतकनकजगिरिपरिमिलदुदधि-
प्रचलितलहरिवदहमहमिकया ।
स्नपयति जनमिममपहरति तमः
फणिशयमरकतमणिकिरणगणः ॥ ८६॥
भोगीन्द्रनिःश्वसित सौरभवर्धितं श्री
नित्यानुषक्तपरमेश्वरभावगन्धि ।
सौरभ्यमाप्लुतदिशावधि रङ्गनेतुः
आनन्दसम्पदि निमज्जयते मनांसि ॥ ८७॥
रङ्गभर्तुरपि लोचनचर्चां साहसावलिषु लेखयमानम् ।
पुष्पहास इति नाम दुहानं सौकुमार्यमतिवाङ्मनसं नः ॥ ८८॥
एकैकस्मिन्परमवयवेऽनन्तसौन्दर्यमग्नं
सर्वं द्रक्ष्ये कथमिति मुधा मामथा मन्दचक्षुः ।
त्वां सौभ्रात्रव्यतिकरकरं रङ्गराजाङ्गकानां
तल्लावण्यं परिणमयिता विश्वपारीणवृत्ति ॥ ८९॥
वपुर्मन्दारस्य प्रथमकुसुमोल्लाससमयः
क्षमालक्ष्मीभृङ्गीसकलकरणोन्मादनमधु ।
विकासः सौन्दर्यस्रजि रसिकताशीधुचुलको
युवत्वं रङ्गेन्दोः सुरभयति नित्यं सुभगताम् ॥ ९०॥
किरीटचूडरत्नराजिराधिराज्यजल्पिका ।
मुखेन्दुकान्तिरुन्मुखं तरङ्गितेव रङ्गिणः ॥ ९१॥
शिखारत्नोद्दीप्रं दिशि दिशि च माणिक्यमकरी-
लसच्छृङ्गं रङ्गप्रभुमणिकिरीटं मनुमहे ।
समुत्तुङ्गस्फीतं चिदचिदधिराजश्रिय इव
प्रियाक्रीडं चूडामणिमपि नितम्बं तमभितः ॥ ९२॥
विहरतु मयि रङ्गिनश्चूलिकाभ्रमरकतिलकोर्ध्वपुण्ड्रोज्ज्वलम् ।
मुखममृततटाकचन्द्राम्बुजस्मयहरशुचिमुग्धमन्दस्मितम् ॥ ९३॥
मुखपुण्डरीकमुपरि त्रिकण्टकं तिलकाश्च केसरसमाः समौक्तिकाः ।
इह रङ्गभर्तुरभियन्मधुव्रतप्रकरश्रियं भ्रमरकाणि बिभ्रति ॥ ९४॥
हृदयं प्रसादयति रङ्गपतेर्मधुरोर्ध्वपुण्ड्रतिलकं ललितम् ।
अलिकार्धचन्द्रदलसंवलिताममृतस्रुतिं यदभिशङ्कयते ॥ ९५॥
सरसीरुहे समवनाम्य मदादुपरि प्रनृत्यदलिपङ्क्तिनिभे ।
स्फुरतो भ्रुवावुपरि लोचनयोः सविलासलास्यगति रङ्गभृतः ॥ ९६॥
स्मरशरनलिनभ्रमान्नेत्रयोः परिसरनमदिक्षुचापच्छवि ।
युगमुदयति रङ्गभर्तुर्भ्रुवोः गुरुकुलमिव शार्ङ्गनृत्तश्रियः ॥ ९७॥
कृपया परया करिष्यमाणे सकलाङ्गं किल सर्वतोऽक्षि नेत्रे ।
प्रथमं श्रवसी समास्तृणाते इति दैर्घ्येण विदन्ति रङ्गनेतुः ॥ ९८॥
श्रवोनासारोधात्तदवधिकडोलायितगते
विशालस्फीतायद्रुचिरशिशिराताम्रधवले ।
मिथो बद्धस्पर्धस्फुरितशफरद्वन्द्वललिते
क्रियास्तां श्रीरङ्गप्रणयिनयनाब्जे मयि दयाम् ॥ ९९॥
करुणामृतकूलमुद्वहैष प्रणमत्स्वागतिकी प्रसन्नशीता ।
मयि रङ्गधनोपकर्णिकाऽक्ष्णोः सरितोर्वीक्षणवीचिसन्ततिः स्तात् ॥ १००॥
विलसति नासा कल्पकवल्ली मुग्धेव रङ्गनिलयस्य ।
स्मितमपि तन्नवकुसुमं चुबुककपोलं च पल्लवोल्लसितम् ॥ १०१॥
नयनशफरिविद्धौ कर्णपाशावरुद्धौ
रुष इव लुठतोऽर्चिर्मञ्जरीरुद्गिरन्तौ ।
परिमिलदलकालीशैवलामंसवेलां
अनुमणिमकरोद्धौ रङ्गधुर्यामृताब्धेः ॥ १०२॥
अधरमधुराम्भोजं तत्कर्णपाशमृणालिका-
वलयमभि मामास्तां रङ्गेन्दुवक्त्रसरश्चिरम् ।
नयनशफरं नासाशैवालवल्लरि कर्णिका-
मकरमलकश्रेणीपर्यन्तनीलवनावलि ॥ १०३॥
रमयतु स मां कण्ठः श्रीरङ्गनेतुरुदञ्चित-
क्रमुकतरुणग्रीवाकम्बुप्रलम्बमलिम्लुचः ।
प्रणयविलगल्लक्ष्मीविश्वम्भराकरकन्दली-
कनकवलयक्रीडासङ्क्रान्तरेख इवोल्लसन् ॥ १०४॥
अधिष्ठानस्तम्भौ भुवनपृथुयन्त्रस्य कमला-
करेणोरालाने अरिकरिघटोन्माथमुसलौ ।
फणीन्द्रस्फीतस्रग्व्यतिकरितसन्दिग्धविभवौ
भुजौ मे भूयास्तामभयमभि रङ्गप्रणयिनः ॥ १०५॥
प्रतिजलधितो वेलाशय्यां विभीषणकौतुकात्
पुनरिव पुरस्कर्तुं श्रीरङ्गिणः फणिपुङ्गवे ।
समुपदधतः कञ्चित्कञ्चित्प्रसारयतो भुज-
द्वयमपि सदा दानश्रद्धालु दीर्घमुपास्महे ॥ १०६॥
कुसुमभरालसौ स्फटिकवेदिशयौ विटपा-
वमरतरोः परं परिहसत्पृथु रङ्गभुजः ।
बहुमणिमुद्रिकाकनककङ्कणदोर्वलयैः
किसलयि दोर्द्वयं फणिनि निर्भरसुप्तमिमः ॥ १०७॥
मद्रक्षाव्रतकौतुके सुकटके विक्रान्तिकर्णेजपे
शार्ङ्गज्याकिणकर्कशिम्नि सुमनस्स्रङ्मोहने मार्दवे ।
दोर्द्वन्द्वं बहुशः प्रलोभ्य कमलालीलोपधानं भवत्
तच्चित्रालकमुद्रितं विजयते श्रीरङ्गसंसङ्गिनः ॥ १०८॥
भवार्तानां वक्त्रामृतसरसि मार्गं दिशदिव
स्वयं वक्त्रेणेदं वरदमिति सन्दर्शितमिव ।
कराम्भोजं पङ्केरुहवनरुषा पाटलमिव
श्रयामि श्रीरङ्गेशयितुरुपधानीकृतमहम् ॥ १०९॥
किरीटं श्रीरङ्गेशयितुरुपधानीकृतभुजः
विधीशाधीशत्वाद्धटत इति संस्पृश्य वदति ।
निहीनानां मुख्यं शरणमिति बाहुस्तदितरः
स्फुटं ब्रूते पादाम्बुजयुगलमाजानुनिहितः ॥ ११०॥
मलयजशशिलिप्तं मालतीदामतल्पं
सुमणिसरवितानं कौस्तुभस्वस्तिदीपम् ।
दनुजवृषविषाणोल्लेखचित्रं च लक्ष्मी-
ललितगृहमुपासे रङ्गसर्वंसहोरः ॥ १११॥
हारस्फारितफेनमंशुलहरीमालर्द्धि मुक्ताफल-
श्रेणीशीकरदुर्दिनं तत इतो व्याकीर्णरत्नोत्करम् ।
आविःकौस्तुभलक्ष्मि रङ्गवसतेर्निस्सीमभूमाद्भुतं
वक्षो मन्दरमथ्यमानजलधिश्लाघं विलोकेमहि ॥ ११२॥
वक्षःस्थल्यां तुलसिकमलाकौस्तुभैर्वैजयन्ती
सर्वेशत्वं कथयतितरां रङ्गधाम्नस्तदास्ताम् ।
कूर्मव्याघ्रीनखपरिमिलत्पञ्चहेती यशोदा-
नद्धा मौग्ध्याभरणमधिकं नः समाधिं धिनोति ॥ ११३॥
कियान्भरो मम जगदण्डमण्डली-
त्यतृप्तितः कृशितमिवोदरं विभोः ।
रिरक्षिषोचितजगतीपरम्परां
परामिव प्रथयति नाभिपङ्कजम् ॥ ११४॥
त्रिविधचिदचिद्वृन्दं तुन्दावलम्बिवलित्रयं
विगणयदिवैश्वर्यं व्याख्याति रङ्गमहेशितुः ।
प्रणतवशतां ब्रूते दामोदरत्वकरः किणः
तदुभयगुणाकृष्टं पट्टं किलोदरबन्धनम् ॥ ११५॥
त्रयो देवास्तुल्यास्त्रितयमिदमद्वैतमधिकं
त्रिकादस्मात्तत्त्वं परमिति वितर्कान् विघटयन् ।
विभोर्नाभीपद्मो विधिशिवनिदानं भगवतः
तदन्यद्भ्रूभङ्गीपरवदिति सिद्धान्तयति नः ॥ ११६॥
गर्भे कृत्वा गोप्तुमनन्तं जगदन्त-
र्मज्जद्भ्रम्या वाञ्छति साम्यं ननु नाभिः ।
उत्क्षिप्यैतत्प्रेक्षितुमुद्यद्भ्रमिभूयं
नाभीपद्मो रंहति रङ्गायतनाब्धेः ॥ ११७॥
मदमिव मधुकैटभस्य रम्भाकरभकरीन्द्रकराभिरूप्यदर्पम् ।
स्फुटमिव परिभूय गर्वगुर्वोः किमुपमिमीमहि रङ्गकुञ्जरोर्वोः ॥ ११८॥
कटीकान्तिसंवादिचातुर्यनीवीलसद्रत्नकाञ्चीकलापानुलेपम् ।
महाभ्रं लिहन्मेरुमाणिक्यसानूरिवाभाति पीताम्बरं रङ्गबन्धोः ॥ ११९॥
भर्मस्थलांशुपरिवेष इवाम्बुराशेः
सन्ध्याम्बुवाहनिकुरुम्बमिवाम्बरस्य ।
शम्पाकदम्बकमिवाम्बुमुचो मना नः
पीताम्बरं पिबति रङ्गधुरन्धरस्य ॥ १२०॥
वैभूषण्यां कान्तिराङ्गी निमग्ना विष्वद्रीची क्वापि सोन्मादवृत्तिः ।
जाने जानुद्वन्द्ववार्ताविवर्तो जातः श्रीमद्रङ्गतुङ्गालयस्य ॥ १२१॥
श्रीरङ्गेशयजङ्घे श्रीभूम्यामर्शहर्षकण्टकिते ।
तत्केलिनलिनमांसलनालद्वयललितमाचरतः ॥ १२२॥
वन्दारुवृन्दारकमौलिमालायुञ्जानचेतः कमलाकरेभ्यः ।
सङ्क्रन्तरागाविव पादपद्मौ श्रीरङ्गभर्तुर्मनवै नवै च ॥ १२३॥
यद्वृन्दावनपण्डितं दधिरवैर्यत्ताण्डवं शिक्षितं
यल्लक्ष्मीकरसौख्यसाक्षि जलजप्रस्पर्धमानर्द्धि यत् ।
यद्भक्तेष्वजलस्थलज्ञमपि यद्दूत्यप्रसङ्गोत्सुकं
तद्विष्णोः परमं पदं वहतु नः श्रीरङ्गिणो मङ्गलम् ॥ १२४॥
शिञ्जानश्रुतिशिञ्जिनीमणिरवैर्वज्रारविन्दध्वज-
च्छत्रीकल्पकशङ्खचक्रमुकुरैस्स्तैस्तैश्च रेखामयैः ।
ऐश्वर्येण जयं त्रिविक्रममुखं घुष्यद्भिराम्रेडितं
श्रीरङ्गेशयपादपङ्कजयुगं वन्दामहे सुन्दरम् ॥ १२५॥
पुनानि भुवनान्यहं बहुमुखीति सर्वाङ्गुली
झलज्झलितजाह्नवीलहरिवृन्दसन्देहदाः ।
दिवा निशि च रङ्गिणश्चरणचारुकल्पद्रुम-
प्रवालनवमञ्जरीः नखरुचीर्विगाहेमहि ॥ १२६॥
श्रीरङ्गेन्दोः पदकिसलये नीलमञ्जीरमैत्र्या
वन्दे वृन्तप्रणयिमधुपव्रातराजीवजैत्रे ।
नित्याभ्यर्चानतविधिमुखस्तोमसंशय्यमानैः
हेमाम्भोजैर्निबिडनिकटे रामसीतोपनीतैः ॥ १२७॥
इति श्रीरङ्गराजस्तवे पूर्वशतकं समाप्तम् ।
अथ श्रीरङ्गराजस्तवे उत्तरशतकम् ।
श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥
हर्तुं तमस्सदसती च विवेक्तुमीशो
मानं प्रदीपमिव कारुणिको ददाति ।
तेनावलोक्य कृतिनः परिभुञ्जते तं
तत्रैव केऽपि चपलाश्शलभीभवन्ति ॥ १॥
या वेदबाह्याः स्मृतयोऽर्हदादेर्वेदेषु याः काश्च कुदृष्टयः ।
var कुदृष्टयस्ताः?
आगस्कृतां रङ्गनिधे त्वदध्वन्यन्धङ्करण्यः
स्मृतवान् मनुस्तत् ॥ २॥
प्रत्यक्षप्रमथनपश्यतोहरत्वा-
न्निर्दोषश्रुतिविमतेश्च बाह्यवर्त्म ।
दुस्तर्कप्रभवतया च वक्तृदोष-
स्पृष्ट्या च प्रजहति रङ्गविन्द वृद्धाः ॥ ३॥
अवयवितयेदङ्कुर्वाणैर्बहिष्करणैर्वपु-
र्निरवयवकोऽहङ्कारार्हः पुमान् करणातिगः ।
स्फुरति हि जनाः प्रत्यासत्तेरिमौ न विविञ्चते
तदधिकुरुतां शास्त्रं रङ्गेश ते परलोकिनि ॥ ४॥
प्रत्यक्षा श्रुतिरर्थधीश्च न तथा दोषस्तदर्थः
पुनर्धर्माधर्मपरावरेश्वरमुखः प्रत्यक्षबाध्यो न च ।
तच्चार्वाकमतेऽपि रङ्गरमण प्रत्यक्षवत् सा प्रमा
योगोन्मीलितधीस्तदर्थमथवा प्रत्यक्षमीक्षेत सः ॥ ५॥
न सदसदुभयं वा नोभयस्माद्बहिर्वा जगदिति
न किलैकां कोटिमाटीकते तत् ।
इति निरुपधि सर्वं सर्विकातो निषेधन्
वरद सुगतपाशश्चोरलावं विलाव्यः ॥ ६॥
प्रतीतिश्चेदिष्टा न निखिलनिषेधो यदि न को
निषेद्धाऽतो नेष्टो निरुपधिनिषेधस्सदुपधौ ।
निषेधेऽन्यत्सिध्येद्वरद घटभङ्गे शकलवत्
प्रमाशून्ये पक्षे श्रुतिरपि मतेऽस्मिन्विजयताम् ॥ ७॥
योगाचारो जगदपलपत्यत्र सौत्रान्तिकस्त-
द्धीवैचित्र्यादनुमितिपदं वक्ति वैभाषिकस्तु ।
प्रत्यक्षं तत्क्षणिकयति ते रङ्गनाथ त्रयोऽपि
ज्ञानात्मत्वक्षणभिदुरते चक्षते तान् क्षिपामः ॥ ८॥
जगद्भङ्कुरं भङ्गुरा बुद्धिरात्मेत्यसद्वेत्त्रभावे
तथा वेद्यवित्त्योः ।
क्षणध्वंसतश्च स्मृतिप्रत्यभिज्ञादरिद्रं
जगत्स्यादिदं रङ्गचन्द्र ॥ ९॥
अहमिदमभिवेद्मीत्यात्मवित्त्योर्विभेदे
स्फुरति यदि तदैक्यं बाह्यमप्येकमस्तु ।
प्रमितिरपि मृषा स्यान्मेयमिथ्यात्ववादे
यदि तदपि सहेरन् दीर्घमस्मन्मतायुः ॥ १०॥
एतद्रामास्त्रं दलयतु कलिर्ब्रह्ममीमांसकांश्च
ज्ञप्तिर्ब्रह्मैतज्ज्वलदपि निजाविद्यया बम्भ्रमीति ।
तस्य भ्रान्तिं तां श्लथयति जिताद्वैतविद्यस्तु जीवो
यद्यद्दृश्यं तद्वितथमिति ये ज्ञापयाञ्चक्रुरज्ञाः ॥ ११॥
अङ्गीकृत्य तु सप्तभङ्गिकुसृतिं स्यादस्तिनास्त्यात्मिकां
विश्वं त्वद्विभवं जगज्जिनमते नैकान्तमाचक्षते ।
भिन्नाभिन्नमिदं तथा जगदुषे वन्ध्या ममाम्बेतिव-
न्नूत्नब्रह्मविदे रहः परमिदं रङ्गेन्द्र ते चक्षताम् ॥ १२॥
कणचरचरणाक्षौ भिक्षमाणौ कुतर्कैः
श्रुतिशिरसि सुभिक्षं त्वज्जगत्कारणत्वम् ।
अणुषु विपरिणाम्य व्योमपूर्वं च कार्यं
तव भवदनपेक्षं रङ्गभर्तर्ब्रुवाते ॥ १३॥
वेदे कर्त्राद्यभावाद्बलवति हि नयैस्त्वन्मुखे नीयमाने
तन्मूलत्वेन मानं तदितरदखिलं जायते रङ्गधामन्
तस्मात्साङ्ख्यं सयोगं सपशुपतिमतं कुत्रचित्पञ्चरात्रं
सर्वत्रैव प्रमाणं तदिदमवगतं पञ्चमादेव वेदात् ॥ १४॥
सञ्चष्टे नेश्वरं त्वां पुरुषपरिषदि न्यस्य यद्वाऽऽन्यपर्यात्
साङ्ख्यो योगी च काक्वा प्रतिफलनमिवैश्वर्यमूचे कयाचित् ।
भिक्षौ शैवस्सुराजम्भवमभिमनुते रङ्गराजातिरागात्
त्वां त्वामेवाभ्यधास्त्वं ननु परविभवव्यूहनाढ्यम्भविष्णुम् ॥ १५॥
इति मोहनवर्त्मना/वर्ष्मणा त्वयाऽपि ग्रथितं बाह्यमतं तृणाय मन्ये ।
अथ वैदिकवर्मवर्मितानां मनिताहे कुदृशां किमीश वर्त्म ॥ १६॥
संस्कारं प्रतिसञ्चरेषु निदधत्सर्गेसु तत्स्मारितं
रूपं नाम च तत्तदर्हनिवहे व्याकृत्य रङ्गास्पद ।
सुप्तोद्बुद्धविरिञ्चपूर्वजनतामध्याप्य तत्तद्धितं
शासन्नस्मृतकर्तृकान् वहसि यद्वेदाः प्रमाणं ततः ॥ १७॥
शीक्षायां वर्णशिक्षा पदसमधिगमो व्याक्रियानिर्वचोभ्यां
छन्दश्छन्दश्चितौ स्याद्गमयति समयं ज्यौतिषं रङ्गनाथ ।
कल्पेऽनुष्ठानमुक्तं ह्युचितगमितयोर्न्यायमीमांसयोस्स्यात्
अर्थव्यक्तिः पुराणस्मृतिषु तदनुगास्त्वां विचिन्वन्ति वेदाः ॥ १८॥
आदौ वेदाः प्रमाणं स्मृतिरुपकुरुते सेतिहासैः पुराणैः
न्यायैस्सार्धं त्वदर्चाविधिमुपरि परक्षीयते पूर्वभागः ।
ऊर्ध्वो भागत्स्वदीहागुणविभवपरिज्ञापनैस्त्वत्पदाप्तौ
वेद्यो वेदैश्च सर्वैरहमिति भगवन् स्वेन च व्याचकर्थ ॥ १९॥
क्रिया तच्छक्तिर्वा किमपि तदपूर्वं पितृसुर-
प्रसादो वा कर्तुः फलद इति रङ्गेश कुदृशः ।
त्वदर्चेष्टापूर्ते फलमपि भवत्प्रीतिजमिति
त्रयीवृद्धास्तत्तद्विधिरपि भवत्प्रेरणमिति ॥ २०॥
आज्ञा ते सनिमित्तनित्यविधयः स्वर्गादिकाम्यद्विधिः
सोऽनुज्ञा शठचित्तशास्त्रवशतोपायोऽभिचारश्रुतिः ।
सर्वीयस्य समस्तशासितुरहो श्रीरङ्गसर्वस्व ते
रक्षाकूतनिवेदिनी श्रुतिरसौ त्वन्नित्यशास्तिस्ततः ॥ २१॥
अत्रास्ते निधिरितिवत्पुमर्थभूते सिद्धार्था अपि गुणरूपवृत्तवादाः ।
रङ्गेश त्वयि सकलास्समन्वयन्ते नोपासाफलविधिभिर्विशेष एषाम् ॥ २२॥
देहो देहिनि कारणे विकृतयो जातिर्गुणाः कर्म च
द्रव्ये निष्ठितरूपबुद्धिवचनास्तात्स्थ्यात् तथेदं जगत् ।
विश्वं त्वय्यभिमन्यसे जगदिषे तेनाद्वितीयस्ततः
मायोपाधिविकारसङ्करकथा का नाम रङ्गेश्वर ॥ २३॥
स्थित्युत्पत्तिप्रवृत्तिग्रसननियमनव्यापनैरात्मनस्ते
शेषोऽशेषः प्रपञ्चो वपुरिति भवतस्तस्य चाभेदवादाः ।
सर्वं खल्वैतदात्म्यं सकलमिदमहं तत्त्वमस्येवमाद्याः
व्याख्याता रङ्गधामप्रवण विजयिभिर्वैदिकैस्सार्वभौमैः ॥ २४॥
सराजकमराजकं पुनरनेकराजं तथा
यथाभिमतराजकं जगदिदं जजल्पुर्जडाः ।
जगाववशचित्रतातरतमत्वतर्काङ्गिका
श्रुतिश्चिदचिती त्वया वरद नित्यराजन्वती ॥ २५॥
ब्रह्माद्यास्सृज्यवर्गे भ्रुकुटिभटतयोद्घाटिता नावतार-
प्रस्तावे तेन न त्वं न च तव सदृशा विश्वमेकातपत्रम् ।
लक्ष्मीनेत्रा त्वयेति श्रुतिमुनिवचनैस्त्वत्परैरर्पयामः
श्रीरङ्गाम्भोधिचन्द्रोदय जलमुचितं वादिकौतस्कुतेभ्यः ॥ २६॥
दोषोपधावधिसमातिशयानसङ्ख्या
निर्लेपमङ्गलगुणौघदुघाष्षडेताः ।
ज्ञानैश्वरीशकनवीर्यबलार्चिषस्त्वां
रङ्गेश भास इव रत्नमनर्घयन्ति ॥ २७॥
युगपदनिशमक्षैः स्वैः स्वतो वाऽऽक्षकार्ये
नियममनियमं वा प्राप्य रङ्गाधिराज ।
करतलवदशेषं पश्यसि स्वप्रकाशं
तदवरणममोघं ज्ञानमाम्नासिषुस्ते ॥ २८॥
नयनश्रवणो दृशा शृणोषि अथ ते रङ्गपते महेशितुः ।
करणैरपि कामकारिणः घटते सर्वपथीनमीक्षणम् ॥ २९॥
सार्वज्ञ्येनाज्ञमूलं जगदभिदधतो वारितास्साक्षिमात्रात्
साङ्ख्योक्तात्कारणं त्वां परयति भगवन्नैश्वरी रङ्गशायिन्
अप्रेर्योऽन्यैः स्वतन्त्रोऽप्रतिहति सदसत्कर्मचैत्र्या विचित्रं
यत्रेच्छालेशतस्त्वं युगपदगणयन् विश्वमाविश्चकर्थ ॥ ३०॥
कार्येऽनन्ते स्वतनुमुखतस्त्वामुपादानमाहुः
सा ते शक्तिस्सुकरमितरच्चेति वेलां विलङ्घ्य ।
इच्छा यावद्विहरति सदा रङ्गराजानपेक्षा
सैवैशानादतिशयकरि सोर्णनाभौ विभाव्या ॥ ३१॥
स्वमहिमस्थितिरीश भृशक्रियोऽप्यकलितश्रम एव बिभर्षि यत् ।
वपुरिव स्वमशेषमिदं बलं तव पराश्रितकारणवारणम् ॥ ३२॥
मृगनाभिगन्ध इव यत्सकलार्थान् निजसन्निधेरविकृतो विकृणोषि ।
प्रियरङ्ग वीर्यमिति तत्तु वदन्ते सविकारकारणमितो विनिवार्यम् ॥ ३३॥
सहकार्यपेक्षमपि हातुमिह तदनपेक्षकर्तृता ।
रङ्गधन जयति तेज इति प्रणतार्तिजित् प्रतिभटाभिभावुकम् ॥ ३४॥
मर्त्यौत्थायं विरिञ्चावधिकमुपरि चोत्प्रेक्ष्य मीमांसमाना
रङ्गेन्द्रानन्दवल्ली तव गुणनिवहं यौवनानन्दपूर्वम् ।
न स्वार्थं स्प्रष्टुमीष्टे स्खलति पथि परं मूकलायं निलिल्ये
हन्तैवं त्वद्गुणानामवधिगणनयोः का कथा चित्तवाचोः ॥ ३५॥
न्यधायिषत ये गुणा निधिनिधायमारण्यकेष्वमी
म्रदिमचातुरीप्रणतचापलक्षान्तयः ।
दयाविजयसौन्दरीप्रभृतयोऽपि रत्नौघवत्
जगद्व्यवहृतिक्षमा वरद रङ्गरत्नापणे ॥ ३६॥
यमाश्रित्यैवात्मम्भरय इव ते सद्गुणगणाः
प्रथन्ते सोऽनन्तस्ववशघनशान्तोदितदशः ।
त्वमेव त्वां वेत्थ स्तिमितवितरङ्गं वरद भोः
स्वसंवेद्यस्वात्मद्वयसबहुलानन्दभरितम् ॥ ३७॥
आघ्रायेश्वरगन्धमीशसदृशं मन्यास्तवेन्द्रादयो
मुह्यन्ति त्वमनाविलो निरवधेर्भूम्नः कणेहत्य यत् ।
चित्रीयेमहि नात्र रङ्गरसिक त्वं त्वन्महिम्नः परः
वैपुल्यान्महितः स्वभाव इति वा किन्नाम सात्म्यं न ते ॥ ३८॥
षाड्गुण्याद्वासुदेवः पर इति स भवान् मुक्तभोग्यो बलाढ्यात्
बोधात् सङ्कर्षणस्त्वं हरति वितनुषे शास्त्रमैश्वर्यवीर्यात् ।
प्रद्युम्नस्सर्गधर्मौ नयसि च भगवञ्च्छक्तितेजोऽनिरुद्धः
बिभ्राणः पासि तत्त्वं गमयसि च तथा व्यूह्य रङ्गाधिराज ॥ ३९॥
जाग्रत्स्वप्नात्यलसतुरीयप्रायध्यातृक्रमवदुपास्यः ।
स्वामिंस्तत्तत्सहपरिबर्हः चातुर्व्यूहं वहसि चतुर्धा ॥ ४०॥
अचिदविशेषितान् प्रलयसीमनि संसरतः
करणकळेबरैर्घटयितुं दयमानमनाः ।
वरद निजेच्छयैव परवानकरोः प्रकृतिं
महदभिमानभूतकरणावलिकोरकिणीम् ॥ ४१॥
निम्नोन्नतं च करुणं च जगद्विचित्रं
कर्म व्यपेक्ष्य स्र्जतस्तव रङ्गशेषिन् ।
वैषम्यनिर्घृणतयोर्न खलु प्रसक्तिः
तद्ब्रह्मसूत्रसचिवाः श्रुतयो गृणन्ति ॥ ४२॥
स्वाधीने सहकारिकारणगणे कर्तुश्शरीरेऽथवा
भोक्तुः स्वानुविधापराधविधयोः राज्ञो यथा शासितुः ।
दातुर्वाऽर्थिजने कटाक्षाणमिव श्रीरङ्गसर्वस्व ते
स्रष्टुस्सृज्यदशाव्यपेक्षणमपि स्वातन्त्र्यमेवावहेत् ॥ ४३॥
प्रलयसमयसुप्तं स्वं शरीरैकदेशं
वरद चिदचिदाख्यं स्वेच्छया विस्तृणानः ।
खचितमिव कलापं चित्रमातत्य धून्वन्
अनुशिखिनि शिखीव क्रीडसि श्रीसमक्षम् ॥ ४४॥
भूयो भूयस्त्वयि हितपरेऽप्युत्पथानात्मनीन-
स्रोतोमग्नानपि पथि नयंस्त्वं दुराशावशेन ।
रुग्णे तोके स्व इव जननि तत्कषायं पिबन्ती
तत्तद्वर्णश्रमविधिवशः क्लिश्यसे रङ्गराज ॥ ४५॥
सार्व त्वत्कं सकलचरितं रङ्गधामन् दुराशा-
पाशेभ्यस्स्यान्न यथि जगतां जातु मूर्खोत्तराणाम् ।
निस्तन्द्रालोस्तव नियमतो नर्तुलिङ्गप्रवाहा
सर्गस्थेमप्रभृतिषु सदाजागरा जाघटीति ॥ ४६॥
सुहृदिव निगलाद्यैरुन्मदिष्णुं नृशंसं
त्वमपि निरयपूर्वैर्दण्डयन् रङ्गनेतः ।
तदितरमपि बाधात्त्रायसे भोगमोक्ष-
प्रदिरपि तव दण्डापूपिकातस्सुहृत्त्वम् ॥ ४७॥
धृतिनियमनरक्षावीक्षणैश्शास्त्रदान-
प्रमृतिभिरचिकित्स्यान् प्राणिनः प्रेक्ष्य भूयः ।
सुरमनुजतिरश्चां सर्वथा तुल्यधर्मा
त्वमवतरसि देवोऽजोऽपि सन्नव्ययात्मा ॥ ४८॥
अनुजनुरनुरूपरूपचेष्टा न यदि समागममिन्दिराऽकरिष्यत् ।
असरसमथवाऽप्रियम्भविष्णु ध्रुवमकरिष्यत रङ्गराजनर्म ॥ ४९॥
गरीयस्त्वं परिजानन्ति धीराः परं भावं मनुजत्वादिभूष्णुम् ।
अजानन्तस्त्ववजानन्ति मूढाः जनिघ्नं ते भगवञ्जन्म कर्म ॥ ५०॥
मध्येविरिञ्चगिरिशं प्रथमावतारः
तत्साम्यतः स्थगयितुं तव चेत्स्वरूपम् ।
किं ते परत्वपिशुनैरिह रङ्गधामन्
सत्त्वप्रवर्तनकृपापरिपालनाद्यैः ॥ ५१॥
मधुः कैटभश्चेति रोधं विधूय त्रयीदिव्यचक्षुर्विधातुर्विधाय ।
स्मरस्यङ्ग रङ्गिस्तुरङ्गावतारः समस्तं जगज्जीवयिष्यस्यकस्मात् ॥ ५२॥
रङ्गधे तिमिरघस्मरशीतस्वच्छहंसतनुरिन्दुरिवोद्यन् ।
वेदभाभिरनुजग्रहिथाऽऽर्तान् ज्ञानयज्ञसुधयैव समृद्ध्यन् ॥ ५३॥
वटदलमधिशय्य रङ्गधामन् शयित इवार्णवतर्णकः पदाब्जम् ।
अधिमुखमुदरे जगन्ति मातुं निदधिथ वैष्णवभोग्यलिप्सया वा ॥ ५४॥
उन्मूल्याहर मन्दराद्रिमहिना तं सम्बधानामुना
दोर्भिश्चञ्चलमालिकैश्च दधिनिर्माथं मथानाम्बुधिम् ।
श्रीरङ्गेश्वर चन्द्रकौस्तुभसुधापूर्वं गृहाणेति ते
कुर्वाणस्य फलेग्रहिर्हि कमलालाभेन सर्वः श्रमः ॥ ५५॥
देवीहस्ताम्बुजेभ्यश्चरणकिसलये संवहद्भ्योऽपहृत्य
प्रत्यस्यानन्तभोगं झतिति चलपुटे चक्षुषि विस्तृणानः ।
आक्षिप्योरश्च लक्ष्म्याः स्तनकलशकनत्कुङ्कुमस्तोमपङ्का-
द्देवः श्रीरङ्गधामा गजपतिघुषिते व्याकुलः स्तात् पुरो नः ॥ ५६॥
अतन्त्रितचमूपतिप्रहितहस्तमस्वीकृत
प्रणीतमणिपादुकं किमिति चाकुलान्तः पुरम् ।
अवाहनपरिष्क्रियं पतगराजमारोहतः
करिप्रवरबृम्हिते भगवतस्त्वरायै नमः ॥ ५७॥
यं पश्यन्विश्वधुर्यां धियमसकृदथो मन्थरां मन्यमानः
हुङ्कारास्भालनाङ्घ्रिप्रहतिभिरपि तं तार्क्ष्यमध्यक्षिपस्त्वम् ।
किञ्चोदञ्चन्नुदस्थास्तमथ गजपतेर्बृम्हिते जृम्भमाणे
देव श्रीरङ्गबन्धो प्रणमति हि जने कान्दिशीकी दशा ते ॥ ५८॥
श्रीरङ्गेशय शरणं ममासि वात्याव्यालोलत्कमलतटाकताण्डवेन ।
स्रग्भूषाम्बरमयथायथं दधानः धिङ्मामित्यनुगजगर्जमाजगन्थ ॥ ५९॥
मीनतनुस्त्वं नावि निधाय स्थिरचरपरिकरमनुमनु भगवन्
वेदसनाभिस्वोक्तिविनौदैरकलितलयभयलवममुमवहः ॥ ६०॥
श्रीनयनाभोद्भासुरदीर्घप्रविपुलसुरुचिरशुचिशिशिरवपुः ।
पक्षनिगीर्णोद्गीर्णमहाब्धिस्थलजलविहरणरतगतिरचरः ॥ ६१॥
चकर्थ श्रीरङ्गिन्निखिलजगदाधारकमठो
भवन् धर्मान् कूर्मः पुनरमृतमन्थाचलधरः ।
जगन्थ श्रेयस्त्वं मरकतशिलापीठललितं
जलादुद्यल्लक्ष्मीपदकिसलयन्याससुलभम् ॥ ६२॥
हृदि सुररिपोर्दंष्ट्रोत्खाते क्षिपन् प्रलयार्णवं
क्षितिकुचतटीमर्चन् दैत्यास्रकुङ्कुमचर्चया ।
स्फुटधुतसटाभ्राम्यद्ब्रह्मस्तवोन्मुखबृम्हितः
शरणमसि मे रङ्गिस्त्वं मूलकोलतनुर्भवन् ॥ ६३॥
नृहरिदशयोः पश्यन्नौत्पत्तिकं घटनाद्भुतं
नरमुत हरिं दृष्ट्वैकैकं समुद्विजते जनः ।
इति किल सिताक्षीरन्यायेन सङ्गमिताङ्गकं
स्फुटसटमहादम्ष्ट्रं रङ्गेन्द्रसिम्हमुपास्महे ॥ ६४॥
द्विषाणद्वेषोद्यन्नयनवनवह्निप्रशमन
भ्रमल्लक्ष्मीवक्त्रप्रहितमधुगण्डूषसुषमैः
नखक्षुण्णारातिक्षतजपटलैराप्लुतसटा-
च्छटास्कन्धो रुन्धे दुरितमिह पुंस्पञ्चवदनः ॥ ६५॥
नखाग्रग्रस्तेऽपि द्विषति निजभक्तद्रुहि रूषः
प्रकर्षाद्विष्णुत्वद्विगुणपरिणाहोत्कटतनुः ।
विरुद्धे वैयग्रीसुघटितसमानाधिकरणे
नृसिंहत्वे बिभ्रद्वरद बिभरामासिथ जगत् ॥ ६६॥
दैत्यौदार्येन्द्रयाच्ञाविहतिमपनयन् वामनोऽर्थी त्वमासीः
विक्रान्ते पादपद्मे त्रिजगदणुसमं पांसुलीकृत्य लिल्ये ।
नाभीपद्मश्च मानक्षममिव भुवनग्राममन्यं सिसृक्षुः
तस्थौ रङ्गेन्द्र वृत्ते तव जयमुखरो दिण्डिमस्तत्र वेदः ॥ ६७॥
भवान् रामो भूत्वा परशुपरिकर्मा भृगुकुला-
दलावीद्भूपालान् पितृगणमतार्प्सीत्तदसृजा ।
भुवो भाराक्रान्तं लघु तलमुपाचीक्लृपदिति
द्विषामुग्रम्पश्योऽप्यनघ मम मा जीगणदघम् ॥ ६८॥
मनुजसमयं कृत्वा नाथावतेरिथ पद्मया
क्वचन विपिने सा चेदन्तर्धिनर्म विनिर्ममे ।
किमथ जलधिं बध्वा रक्षो विधीशवरोद्धतं
बलिमुखकुलोच्छिष्टं कुर्वन् रिपुं निरपत्रयः ॥ ६९॥ ॥॥।त्रपः?
यद्यूते विजयापदानगणना कालिङ्गदन्ताङ्कुरैः
यद्विश्लेषलवोऽपि कालियभुवे कोलाहलायाभवत् ।
दूत्येनापि च यस्य गोपवनिताः कृष्णागसां व्यस्मरन्
तं त्वां क्षेमकृषीबलं हलधरं रङ्गेश भक्तास्महे ॥ ७०॥
आकण्ठवारिभरमन्थरमेघदेश्यं
पीताम्बरं कमललोचनपञ्चहेति ।
ब्रह्म स्तनन्धयमयाचत देवकी त्वां
श्रीरङ्गकान्त सुतकाम्यति काऽपरैवम् ॥ ७१॥
शैलोऽग्निश्च जलाम्बभूव मुनयो मूढाम्बभूवुर्जडाः
प्राज्ञामासुरगास्सगोपममृतामासुर्महाशीविषाः ।
गोव्याघ्रास्सहजाम्बभूवुरपरे त्वन्याम्बभूवुः प्रभो
त्वं तेष्वन्यतमाम्बभूविथ भवद्वेणुक्वणोन्माथने ॥ ७२॥
कल्कितनुर्धरणीं लघयिष्यन् कलिकलुषान् विलुनासि पुरा त्वम् ।
रङ्गनिकेत लुनीहि लुनीहीत्यखिलमरुन्तुदमद्य लुनीहि ॥ ७३॥
आस्तां ते गुणराशिवद्गुणपरीवाहात्मनां जन्मनां
सङ्ख्या भौमनिकेतनेष्वपि कुटीकुञ्जेशू रङ्गेश्वर ।
अर्च्यस्सर्वसहिष्णुरर्चकपराधीनाखिलात्मस्थितिः
प्रीणीषे हृदयालुभिस्तव ततश्शीलाज्जडीभूयते ॥ ७४॥
श्रीमद्व्योम नसीम वाङ्मनसयोस्सर्वेऽवताराः क्वचित्
काले विश्वजनीनमेतदितिधीः श्रीरङ्गधामन्यथ ।
आर्तस्वागतिकैः कृपाकलुषितैरालोकितैरार्द्रयन्
विश्वत्राणविमर्शनस्खलितया निद्रासि जागर्यया ॥ ७५॥
सर्गाभ्यासविशालया निजधिया जानन्ननन्तेशयं
भारत्या सहधर्मचाररतया स्वाधीनसङ्कीर्तनः ।
कल्पानेव बहून् कमण्डलुगलद्गङ्गाप्लुतोऽपूजय-
द्ब्रह्मा त्वां मुखलोचनाञ्जलिपुटैः पद्मैरिवाऽवर्जितैः ॥ ७६॥
मनुकुलमहीपालव्यानम्रमौलिपरम्परा-
मणिमकरिकारोचिर्नीराजिताङ्घ्रिसरोरुहः ।
स्वयमथ विभो स्वेन श्रीरङ्गधामनि मैथिली-
रमणवपुषा स्वार्हाण्याराधनान्यसि लम्भितः ॥ ७७॥
मन्वन्ववाये द्रुहिणे च धन्ये विभीषणेनैव पुरस्कृतेन ।
गुणैर्दरिद्राणमिमं जनं त्वं मध्येसरिन्नाथ सुखाकरोषि ॥ ७८॥
तेजः परं तत्सवितुर्वरेण्यं धाम्ना परेणाप्रणखात्सुवर्णाम् ।
त्वां पुण्डरीकेक्षणमामनन्ति श्रीरङ्गनाथं तमुपासिषीय ॥ ७९॥
आत्माऽस्य गन्तुः परितस्थुषश्च मित्रस्य चक्षुर्वरुणस्य चाग्नेः ।
लक्ष्म्या सहौत्पत्तिकगाढबन्धं पश्येम रङ्गे शरदश्शतं त्वाम् ॥ ८०॥
यस्यास्मि पत्युर्न तमन्तरेमि श्रीरङ्गतुङ्गायतने शयानम् ।
स्वभावदास्येन च योऽहमस्मि स सन् यजे ज्ञानमयैर्मखैस्तम् ॥ ८१॥
आयुः प्रजानाममृतं सुराणां रङ्गेश्वरं त्वां शरणं प्रपद्ये ।
मां ब्रह्मणेऽस्मै महसे तदर्थं प्रत्यञ्चमेनं युनजै परस्मै ॥ ८२॥
आर्तिं तितीर्षुरथ रङ्गपते धनायन् आत्मम्भरिर्विविदिषुर्निजदास्यकाम्यन् ।
ज्ञानीत्यमून् सममथास्सममत्युदारान् गीतासु देव भवदाश्रयणोपकारान् ॥ ८३॥
नित्यं काम्यं परमपि कतिचित्त्वय्यध्यात्मस्वमतिभिरममाः ।
न्यस्यासङ्गा विदधति विहितं श्रीरङ्गेन्दो विदधति न च ते ॥ ८४॥
प्रत्यञ्चं स्वं पञ्चविंशं पराचस्सञ्चक्षाणास्तत्त्वराशेर्विविच्य ।
युञ्जानाश्चर्तम्भरायां स्वबुद्धौ स्वं वा त्वां वा रङ्गनाथाऽप्नुवन्ति ॥ ८५॥
अथ मृदितकषायाः केचिदाजानदास्य-
त्वरितशिथिलचित्ताः कीर्तिचिन्तानमस्याः ।
विदधति ननु पारं भक्तिनिघ्ना लभन्ते
त्वयि किल ततमे त्वं तेषु रङ्गेन्द्र किं तत् ॥ ८६॥
उपादत्ते सत्तास्थितिनियमनाद्यैश्चिदचितौ
स्वमुद्दिश्य श्रीमानिति वदति वागौपनिषदी ।
उपायोपेयत्वे तदिह तव तत्त्वं न तु गुणा-
वतस्त्वां श्रीरङ्गेशय शरणमव्याजमभजम् ॥ ८७॥
पटुनैकवराटिकेव क्लृप्ता स्थलयोः काकणिकासुवर्णकोट्योः ।
भवमोक्षणयोस्त्वयैव जन्तुः क्रियते रङ्गनिधे त्वमेव पाहि ॥ ८८॥
ज्ञानक्रियाभजनसम्पदकिञ्चनोऽह-
मिच्छाधिकारशकनानुशयानभिज्ञः ।
रङ्गेश पूर्णवृनश्शरणं भवेति
मौख्याद्ब्रवीमि मनसा विषयाकुलेन ॥ ८९॥
त्वयि सति पुरुसाहर्थे मत्परे चाहमात्म-
क्षयकरकुहनार्थाञ्छ्रद्दधद्रङ्गचन्द्र ।
जनमखिलमहम्युर्वञ्चयामि त्वदात्म-
प्रतिमभवदनन्यज्ञानिवद्देशिकस्सन् ॥ ९०॥
अतिक्रामन्नाज्ञां तव विधिनिषेधेषु भवतेऽपि
अभिद्रुह्यन्वाग्धीकृतिभिरपि भक्ताय सततम् ।
अजानन् जानन् वा भवदसहनीयागसि रत-
स्सहिष्णुत्वाद्रङ्गप्रवण तव माभूवमभरः ॥ ९१॥
प्रकुपितभुजगफणानामिव विषयाणमहं छायाम् ।
सति तव भुजसुरविटपिप्रच्छाये रङ्गजीवित भजामि ॥ ९२॥
त्वत्सर्वशक्तेरधिकाऽस्मदादेः कीटस्य शक्तिर्बत रङ्गबन्धो ।
यत्त्वत्कृपामप्यतिकोशकारन्यायादसौ नश्यति जीवनाशम् ॥ ९३॥
श्रीरङ्गेश त्वद्गुणानामिवास्मद्दोषाणां कः पारदृश्वा यतोऽहम् ।
ओघे मोघोदन्यवत्त्वद्गुणानां तृष्णापूरं वर्षतां नास्मि पात्रम् ॥ ९४॥
त्वं चेन्मनुष्यादिषु जायमानस्तत्कर्मपाकं कृपयोपभुङ्क्षे ।
श्रीरङ्गशायिन् कुशलेतराभ्यां भूयोऽभिभूयेमहि कस्य हेतोः ॥ ९५॥
क्षमा सापरधेऽनुतापिन्युपेया कथं सापराधेऽपि दृप्ते मयि स्यात् ।
तथाप्यत्र रङ्गाधिनाथानुतापव्यपायं क्षमेतातिवेला क्षमा ते ॥ ९६॥
बलिभुजि शिशुपाले तादृगागस्करे वा
गुनलवसहवासात्त्वत्क्षमा सङ्कुचन्ती ।
मयि गुणपरमाणूदन्तचिन्तानभिज्ञे
विहरतु वरदासौ सर्वदा सार्वभौमी ॥ ९७॥
दया परव्यसनहरा भवव्यथा
सुखायते मम तदहं दयातिगः ।
तथाऽप्यसौ सुखयति दुःखमित्यतः
दयस्व मां गुणमय रङ्गमन्दिर ॥ ९८॥
गर्भजन्मजरामृतिक्लेशकर्मषडूर्मिगः ।
श्वेव देववषट्कृतं त्वां श्रियोऽर्हमकामये ॥ ९९॥
अनुकृत्य पूर्वपुम्सः रङ्गनिधे विनयडम्भतोऽमुष्मात् ।
शुन इव मम वरमृद्धेः उपभोगस्त्वद्वितीर्णायाः ॥ १००॥
सकृत्प्रपन्नाय तवाहमस्मीत्यायाचते चाभयदीक्षमाणम् ।
त्वामप्यपास्याहमहम्भवामि रङ्गेश विस्रम्भविवेकरेकात् ॥ १०१॥
तव भरोऽहमकारिषि धार्मिकैश्शरणमित्यपि वाचमुदैरिरम् ।
इति ससाक्षिकयन्निदमद्य मां कुरु भरं तव रङ्गधुरन्धर ॥ १०२॥
दयाऽन्येषां दुःखाप्रसहनमनन्योऽसि सकलैः
दयालुस्त्वं नातः प्रणमदपराधानविदुषः ।
क्षमा ते रङ्गेन्दो भवति न तरां नाथ न तमां
तवौदार्यं यस्मात्तव विभवमर्थिस्वममथाः ॥ १०३॥
गुणतुङ्गतया तव रङ्गपते भृशनिम्नमिमं जनमुन्नमय ।
यदपेक्ष्यमपेक्षितुरस्य हि तत्परिपूरणमीशितुरीश्वरता ॥ १०४॥
त्वं मीनपानीयनयेन कर्मधीभक्तिवैराग्यजुषो विभर्षि ।
रङ्गेश मां पासि मितम्पचं यत्पानीयशालं मरुभूषु तत्स्यात् ॥ १०५॥
इति श्री रङ्गराजस्तवे उत्तरशतकं समाप्तम् ।
इति श्रीपराशरभट्टविरचितं श्रीरङ्गराजस्तवं सम्पूर्णम् ।
Proofread by Nat Natarajan nat.natarajan at gmail.com,
PSA Easwaran