श्रीरङ्गनाथस्तवः
(श्रीरङ्गक्षेत्रे)
क्षीराम्भोधिलसत्फणीन्द्रफलके कामं सदा शायिनी
किं चाम्भोजभवस्य भीतिहतये घ्नन्ती मधुं कैटभम् ।
लक्ष्म्युत्सङ्गलसत्पदाब्जयुगलीकारुण्यवारान्निधिः
मुद्रा काचन मुक्तिदानकुशला निद्राति जागर्ति वा ॥
इति श्रीशृङ्गेरी जगद्गुरु श्रीसदाशिवाभिनवनृसिंहभारती-
श्रीपादैः कृतः श्रीरङ्गनाथस्तवः सम्पूर्णः ।
Proofread by PSA Easwaran