रमेश प्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि वरकुण्डलशोभिगण्डं
शीतांशु-मण्डलमुखंसितवारिजाक्षम् ।
आताम्र-कम्र-मुदिताधरबिम्बजृम्भं
ध्यातृप्रहर्षकरहासरसं रमेशम् ॥ १॥
प्रातर्भजामि धृतकौस्तुभकम्बुकण्ठं
स्फीतात्मवक्षसि विराजितभूरिहारम् ।
भीत-स्वभक्त-भयभञ्जनपाणिपद्मं
शातोदरार्पित-जगद्भरमब्जनाभम् ॥ २॥
प्रातर्नमामि शुभकिङ्किणि मेखलाङ्गं
पीताम्बरं करिकरोरुमुदारजानुम् ।
ध्याताङ्घ्रियुग्मरुचिरं जितकञ्जजात-
वातादिदेव-वरमौलिमणिं मुकुन्दम् ॥ ३॥
वादिराजयतिप्रोक्तं श्लोकत्रयमिदं सदा ।
प्रातःकाले पठेन्मर्त्यः सर्वपापैः प्रमुच्यते ॥ ४॥
मन्त्रविदो विष्णुभक्तास्तैर्याः प्रोक्तास्तथाऽऽशिषः ।
ता निष्फला भविष्यन्ति न कदाचिदिति स्फुटम् ॥ ५॥
इति श्रीमत्पञ्चरात्रागमे पूजाकाण्डे प्रातःस्मरणविधिः समाप्ता ।
रमेशस्तुतिः
Proofread by Aruna Narayanan narayanan.aruna at gmail.com