श्रीराजगोपालस्तवः
श्रीराजगोपालमुखारविन्दं
वन्दामहे मोहनमिन्दिरायाः ।
यदीयसन्दर्शननन्दितानां
न मुक्तिलाभोदितमोदवाञ्छा ॥ १॥
वाञ्छाधिकानेकपुमर्थदान-
दक्षोत्पलोल्लासिकटाक्षवीक्षम् ।
श्रीराजगोपालमुखामृतांशुं
पश्येम शश्वद्भवतापनुत्यै ॥ २॥
नुतं श्रुतीनां ततिभिस्तताभि-
स्तथानविच्छिन्नमियत्तयापि ।
श्रीराजगोपाल तवानुभाव-
मज्ञः कथं स्तोतुमलं भवामि ॥ ३॥
भवन्ति लोकाः सकला विचित्रा-
स्त्वदेकदेशाश्चिदचिद्विशिष्ट ।
श्रीराजगोपाल तव स्वरूपं
ततो विचित्र प्रवदन्ति सन्तः ॥ ४॥
सन्तस्तुवन्तीश तवानुभावं
अन्त(र्मु)स्सुखाः सन्ततयुक्तचित्ताः ।
तापत्रयार्तो विषयानुवृत्त-
चित्तः कथं स्तोतुमहं प्रवृत्तः ॥ ५॥
प्रवृत्त एव स्वयमेव वक्तुं
पादाम्बुजद्वन्द्वसमाश्रितानाम् ।
विस्रम्भसम्पद्विरहादिहाहं
त्वां रक्ष रक्षेति कदर्थयामि ॥ ६॥
missing in the manuscript
तदर्थतत्तत्पुरुषार्थदान-
गुणप्रदानेन हितायसि त्वम् ॥ ७॥
त्वमेक एवासि परं निधान-
मध्यक्षितं भक्तिभराजिताक्षैः ।
विश्वेश शश्वद्बहुशः स्मृतीनां
विश्रान्तिभूमिश्च तथा श्रुतीनाम् ॥ ८॥
श्रुतिस्तु सत्त्वोत्तरशास्त्रमासीत्
भवांश्च सत्चैकगुणः पुराणः ।
एवं स्थिते त्वत्र कथं नुतः स्या
आकर्षणं चैव बलाद्धटेद ॥ १॥
तत्त्वप्रकाशो विशयं श्रुतीनां
विष्वङ्मुखीनामबहुश्रुतेभ्यः ।
``वेदैश्च सर्वैरहमेव वेद्यः''
इत्येवकारेण निराचकर्थ ॥ १०॥
चकर्थ गीतां यदि वत्सल त्वं
त्वमेव विष्णुर्यदि कृष्णरूपः ।
गीता च मानं यदि तत्त्वसिद्धौ
कुतोऽन्यतोऽस्मत्पदवाच्यता स्यात् ॥ ११॥
स्याद्धि प्रमाणं भगवन्नचाल्यं
नाम्नां सहस्रं बहुभिः किमन्यैः ।
जगत्प्रभुं देवमिति प्रकृत्य
त्वमेवमित्यस्य कृतोत्तरत्वात् ॥ १२॥
दत्तोत्तरो विष्णुपुराणरत्न-
गतैर्वचोभिर्विचिकित्सितांशः ।
विष्णोः सकाशादिति यान्यवोचं
सामान्यतः प्रश्नमुपर्यसक्तम् ॥ १३॥
असक्तचित्तैः परतत्त्वविद्या-
निष्ठैरनुष्ठानपरैरनेकैः ।
नानादिशास्थैः परतत्त्वरूपं
व्यचार्यहो विष्णुपुराणमानैः ॥ १४॥
मानेषु या यत्प्रतिकूलितार्था
सा न स्मृतिः शस्यत इत्युदीर्णा ।
मनुस्मृतिः कर्मसमर्च्यमाह
नारायणं त्वां पुरुषं परं च ॥ १५॥
चकास्ति यत्सूत्रसमूह एवं
सर्वात्मन्ना तत्त्वबुभुत्सुसेव्यः ।
योऽसौ महाभारतवेदमादौ
नारायणस्यैव कथां जगाद ॥ १६॥
दयालुनालोड्य समस्तशास्त्रं
नारायणध्येयतमत्वमुक्त्वा ।
भुजं समृद्धृत्य मुनीन्द्रवृन्दे
त्रिः सत्यमित्याह समानमेये ॥ १७॥
ये त्वन्यदेवाभ्यधिकत्वमूचुः
केचित् प्रबन्धाः प्रति कल्प मान्याः ।
रजस्तमःस्पृष्टचतुर्मुखेन
समीरिता इत्यवधीरितास्ते ॥ १८॥
तेनेह मानानि विचार्य सम्यक्
प्रामाणिकाः सत्त्वगुणोत्तरास्त्वाम् ।
श्रीराजगोपाल परं पुमांसं
वदन्ति सन्तो जगदेकहेतुम् ॥ १९॥
हेतुत्वमन्यत्र कथं घटेत
संवर्तसिन्धौ सकले विलीने ।
कृत्स्नैः सिसृक्षाकृतयोगनिद्रे
त्वयि प्रमाणैरभिधीयमाने ॥ २०॥
नेतस्त्वदीयाखिलकारणत्वे-
नातः परं मानमवेक्षणीयम् ।
यन्नारशब्दाभिहितेषु मुख्य-
स्त्वन्नाभिपद्मादुद्भूत स्वयम्भूः ॥ २१॥
भूदेवगुप्त्यै यदवातरस्त्वं
सञ्जायमानो बहुधादिदेव ।
तेनैव केचित्तव भूम्न्यसीम्नि
सिद्धान्ततामानशिरे सशङ्काः ॥ २२॥
शङ्का कृता वा यदजो भवन्न-
प्यात्मेच्छयैवावतरामि जन्म ।
कर्माविदित्यं मम वेत्तुरेव
जन्मापि न स्यादिति गायसि त्वम् ॥ २३॥
त्वदीयकल्याणगुणाकरत्वं
श्रुतं रमेशा missing चलन्ति केचित् ।
कचित् missing in the manuscript
missing in the manuscript ॥ २४॥
प्रत्यक्षमुख्याखिलमानवेद्यम् ।
कृत्स्नं च मिथ्येत्यभिधाय मेयं
ये निर्विशेषं च वदन्ति वेधम् ॥ २५॥
वेद्यं सदक्षैरपि निर्विकल्प
इदन्तयासक्तिमुपैति लिङ्गम् ।
व्याप्तिं पुरस्कृत्य तथोपमानं
साम्यं च मेयं गमयत्यदृष्टम् ॥ २६॥
दृष्टा हि शब्दस्य च शक्तिधर्म-
पुरस्कृतिर्लक्षणया पदानि ।
सर्वाण्यपि स्वार्थविबोधकानी-
त्युदीरणं है परिहासयोग्यम् ॥ २७॥
योग्ये च शब्दे परिकल्प्य शक्ति-
मन्यत्र सर्वत्र पदे पदज्ञाः ।
सम्बन्धयुक्तेऽनुपपत्तिमेव
दृष्टा श्रयन्तीश्वरलक्षणं च ॥ २८॥
चञ्चत्प्रकृत्यर्थमुपर्युदञ्चत्
स्वप्रत्ययार्थत्वविशेषवाचाम् ।
चयः पदानां निजतत्तदर्थ-
भेदोदिताकाङ्क्षकमन्वियाय ॥ २९॥
यात्येवमर्थानुसृतिं विहाय
सम्बन्धसिद्धावपि लक्षणां च ।
अलक्षिते लक्षणयाभिधेये
पर्यायभावं वद वाक्यजातम् ॥ ३०॥
तन्मुच्यतां वाचकताप्रकार-
विचारणा ब्रह्म सलक्षणं च ।
जन्मादिना किं नु विशेष्यमिष्ट-
मुतोपलक्ष्यं सगुणं द्विधापि ॥ ३१॥
पिनद्धमेकेन विशेषणेन
गृहादि काकाद्युपलक्षणीयम् ।
अतो बृहत्त्वादिविशिष्टमेव
ब्रह्मोपलक्ष्यं न तु निर्विशेषम् ॥ ३२॥
विशेषमालम्ब्य मनोऽप्युपास्तौ
प्रवर्तते ध्येयगतं हि कञ्चित् ।
तथैव विद्याश्च परा गृणन्ति
ततो भवद्भव्यगुणा न मिथ्या ॥ ३३॥
मिथ्यागुणोपासनतो यदि स्यात्
उपासनानिर्वचनीयतत्त्वे ।
है शुक्तिरूप्याधिगमाद्भवेयुः
समाधिभाजो भुवि सर्व एव ॥ ३४॥
एवं भगो श्रेष्ठगुणानुबद्धं
त्वां निर्गुणं हेयगुणैरशून्यम् ।
श्रुत्यां वदन्त्यां त्रितयाविरोधात्
सामान्यतो योऽपि विशेषसक्तः ॥ ३५॥
सक्तो गुणैर्हेयगुणैरसक्तो
भवान् रमेशोभयलिङ्गयुक्तः ।
अद्रेश्यमव्यक्तमिति प्रवाद्य
प्रत्यक्षितार्थातिविलक्षणत्वात् ॥ ३६॥
त्वमेव जीवं प्रलपन्त्यभेद-
वादादविद्यान्धमुपाधिभिन्नम् ।
प्रकाशमात्रस्य सतस्तिरोधिः
स्वरूपनाशादिभयान्निरस्यः ॥ ३७॥
स्यादप्यवच्छिन्नमुपाधिपक्षे
ब्रह्मानवच्छिन्नमतो द्वयं च ।
अयुक्तमेतच्चिदचिच्छरीर-
स्त्वमेक एवासि विभूतिमांश्च ॥ ३८॥
चमत्कृतिः सा किल दर्शनीया
यन्मायिनोऽसत्यगिरैव सर्वम् ।
समर्थयन्ते व्यवहारसत्यं
है शुक्तिरूप्यं च ततः किमासीत् ॥ ३९॥
आसीरहेयो भगवंस्त्वमुक्तः
पराशराद्यैः परतत्त्वविद्भिः ।
᳚समस्तकल्याणगुणात्मकोऽसौ᳚
इत्यादिभिर्वाक्यशतैर्गुणाढ्यः ॥ ४०॥
आढ्यो विभूत्या परया गुणैश्च
लक्ष्मीमहीभ्यामभिसेव्यमानः ।
पादारविन्दानतसूरिवृन्द
चक्रादिदिव्यायुधचूथधारी ॥ ४१॥
रिरक्षिषासक्तमनोमनोज्ञ-
वपुः किरीटादिमनू पुरान्तैः ।
विभूषणैर्भूषित ईश शेषं
वैकुण्ठलोके त्वमलङ्करोषि ॥ ४२॥
करोषि दुग्धाम्बुनिधौ रमेश
शेषे शयालुः सनकादिसेव्यः ।
तापत्रयोपप्लवतप्तचित्त-
चतुर्मुखाभ्यर्थनयावतारान् ॥ ४३॥
अवातरस्त्वं प्रथमं विधीश-
मध्ये स्वयं विष्णुसमाह .. ।
॥ missing in the manuscript
... तनोषि रक्षाम् ॥ ४४॥
रक्षन् हि वेदापहृतेर्विरिञ्चि
भवान् महापातकतस्त्रिणेत्रम् ।
प्रद्युम्नसङ्कर्षणरूपतस्तौ
कृत्येष्वधिष्ठाय करोति शक्तौ ॥ ४५॥
शक्तिः कुतः स्यात् त्रिदिवाधिराज्ये
पुरन्दरस्य त्वमुपेन्द्ररूपः ।
साचिव्यकारी यदि तस्य नासि
नासीररक्षाकरणैकदक्षः ॥ ४६॥
क्षयार्णवे देव चराचराणि
सर्वाणि नापि प्रणिधाय धृत्वा ।
दंष्ट्रैकदेशेन मनोज्ञमीनो
मनोस्तनोषि स्म हितोपदेशम् ॥ ४७॥
शं साधुबन्धो मथने पयोधेः
सुधार्थमभ्यर्थनया सुराणाम् ।
पृष्ठप्रदेशोद्धृतमन्थशैलः
कूर्मस्वरूपः समधाः सुधाजम् ॥ ४८॥
जन्तूनिमग्नान प्रलयाम्बुराशौ
विलोक्य लोकेशमहावराहः ।
भूत्वा .. .. भूरिदयोद्दधार (दयापूरित उद्दधार)
धरां स्वदंष्ट्रामुखतः सखेलम् ॥ ४९॥
खेलग्नवल्गत्सटमट्टहास-
स्फुटद्विषन्निष्ठुरधृष्टभावः ।
सैंह व्यधात् संहननं महत्ते
प्रह्लादमन्वर्थसमाह्वयं हि ॥ ५०॥
हितं वितन्वन् द्विषते हि याच्ञां
विधाय वेधःकरधौतपादः ।
पादाम्बुजस्यन्दिमरन्दधारा-
शङ्कादगङ्गामकरोस्त्रिलोक्यै ॥ ५१॥
लोकक्षयोद्युक्त लिप्तकृत्स्न-
क्षत्रक्षयाय सृजो जकृत्याम् ।
परश्वथाग्नौ रुधिरह्रदे च
कृताहुतिः कल्पिततर्पणस्त्वम् ॥ ५२॥
त्वमीशवंशं मिहिरस्य सीता-
मनो मुनीनामुटजाटविं च ।
क्रमेण सुग्रीवविभीषणर्द्धि-
मलञ्चकर्थादिकवेर्वचांसि ॥ ५३॥
सितायुतक्षीरतुला ललास
हलास्त्रहेलानवमञ्जरीभिः ।
लीलालता सा किल माधवस्य
समेधिता गोपविलासिनीभिः ॥ ५४॥
भिन्नाञ्जनश्यामतनुं मनोज्ञं
सशङ्खचक्राग्रचतुर्भुजाढ्यम्म् ।
पीताम्बरं कौस्तुभभूषितं त्वां
तुष्टाव देवक्यवलोक्य सूनुम् ॥ ५५॥
स्तुवन्नमन् स्वं वसुदेव आत्म-
जातं परं त्वामभिवीक्ष्य साक्षात् ।
संसारनिस्तारमयाचमानः
कंसादहिंसां तव याचते स्म ॥ ५६॥
स्मरन्ति सन्तोऽप्यनघं भवन्तं
स्वस्रीयमात्मान्तकरं निशम्य ।
कंसो निहन्तुं चकमेऽनघं त्व-
मघातयश्रित्रमिदं स्वसारम् ॥ ५७॥
सारं स्वकं दर्शयितुं यदीह
हन्तुं द्विषन्तं यदि वाभिलाषः ।
पीतस्तनायास्तव पूतनाया
वयोविधेर्नाथ परं विरुद्धम् ॥ ५८॥
विरुद्धचित्तः शकटासुरस्ते
पादारविन्दद्वयभङ्ग्मिमार ।
निरन्तरप्रीतिकृतो मुकुन्द-
पदारविन्दं मृतिमृग्यमासीत् ॥ ५९॥
आसीत्तृणावर्तसमुत्थचक्र-
वात्यासमुत्थापितमस्य वीक्ष्य ।
कण्ठं गृहीत्वाथ निहत्य मह्यां
शिशुं शयालुं जननी सशङ्का ॥ ६०॥
शङ्का यशोदाहृदयोदितापि
सा जृम्भमाणे वदनारविन्दे ।
प्रदर्श्य विश्वं विशद विचित्रं
न चित्रमत्रेति निराकृताभूत् ॥ ६१॥
भूमौ ममाङ्घ्रिद्वितयाश्रितानां
स्वकर्मनाशेन न कर्मबन्धः ।
न कर्मनैरर्थ्यमपि प्रसज्ये-
तेति स्वयं ताशपाशबद्धः ॥ ६२॥
बद्धस्त्वमस्ताश्रितकर्मबन्ध
हैयङ्गवीनापहृतिं विधाय ।
शापाददाः मोचनमर्जुनाभ्या-
मुलूखलाकर्षणलीलयैव ॥ ६३॥
missing in the manuscript
कथं तथाप्यर्जुननाशहेतु-
भूतां व्यतानीरतिबाललीलाम् ॥ ६४॥
लास्यं सुरस्यं नवनीतमोष-
रोषोपशान्त्यै व्रजसुन्दरीणाम् ।
पुरः करस्थे नवनीत भाण्डे
व्यधा यथा ता हृषिता भवेयुः ॥ ६५॥
युतोऽप्रजेनेश समग्रबाल-
लीलारसौघान रसिकोपसेव्यान् ।
देवक्यलभ्यान् कलभप्रगल्भ
सदा यशोदासुलभान् व्यतानीः ॥ ६६॥
नीतं त्वया दुग्धमुखं यदृद्धिं
नन्दव्रजे नन्दितगोकुलेन ।
श्रीराजगोपाल सबाललीलं
स्तेयेन तत्सर्वमहार्यनूनम् ॥ ६७॥
नूनं मिथो गोपवधूमनोऽपि
मनोहरत्वं नवनीतचोरः ।
मोहाज्जवेनापजहर्थ तेन
नातानि ताभिस्त्वयि रोषलेशः ॥ ६८॥
शस्ते त्वया वत्सल वत्सदैत्ये
त्वत्पालितान् बाल विलासकाले ।
वत्सान् विशङ्के त्रिदशास्त्वदीया-
वतारचारित्रसरूपरूपान् ॥ ६९॥
पातुं गवां वृन्दमथ प्रवृत्तो
वृन्दावनान्ते यदुनन्दन त्वम् ।
वेणुक्वणेनेव विधाय तृप्तिं
निवर्तयामासिथ चित्रचर्य ॥ ७०॥
यदा भवान् भावुकवेणुनादा-
दुन्मादयामास तदा त्वदादि ।
जडाजडात्मत्वविभागशून्य-
महो बभूवाखिलमन्यदेव ॥ ७१॥
देवेश तादृङ्मुरलीनिनाद-
सोन्मादचित्ता व्रजसुन्दराङ्ग्यः ।
त्यक्तान्ययोगास्त्वयि सानुरागा
बभू वुरित्यत्र विचित्रता का ॥ ७२॥
कान्तस्मितालङ्कृतवक्त्रचन्द्र-
सङ्गक्वणद्वेणुकनत्कराब्जम् ।
व्यत्यस्तपादाम्बुजमम्बुजाक्ष
भवद्वपुर्भक्तजनोपजीव्यम् ॥ ७३॥
व्यक्तोक्तिभङ्गी मुरली सखी ते
घोषाङ्गनानां कृतचित्तमोहा ।
शृङ्गारलीलारसचारुरास-
विलाससाचिव्यकरी किलासीत् ॥ ७४॥
सीदत्सु सर्वेषु विषाग्निमिश्र
कृष्णापयःपानवशात् किशोरः ।
भवानभीः कालियमस्तरत्न-
रुच्यर्चिताङ्घ्रिः प्रणनर्त चित्रम् ॥ ७५॥
त्रातस्त्वसौ केशवशेषितोऽपि
शेषत्वसम्पद्भवनं बभूव ।
नृत्यत्वदीयाङ्घ्रियुगाङ्कनेन
नित्यप्रसक्तस्वफणासहस्त्रः ॥ ७६॥
सहस्रसङ्ख्यैः सपयोभिरह्नि
सह स्वचित्तानुविधायिकृत्यैः ।
गोपालबालैर्यमुनावनान्ते
तदीयदारैर्व्यहरद्रजन्याम् ॥ ७७॥
न्याय्यं किमेतद्रजकन्यकासु
सरोविहारैकपरासु राजन् ।
गृहीततीरस्थदुकूलक स्म
कुन्दस्थितः प्रार्थयसेऽञ्जलिं ताः ॥ ७८॥
ताभिः कृतश्चैककराञ्जलिस्त्वं
कार्यान्तरासक्तकरान्तराभिः ।
अकार्यमेवाकथयो विधिज्ञ
विरोधगन्धोऽत्र कथं विधीनाम् ॥ ७९॥
नान्यच्चरित्रं भवतोऽतिचित्रं
यत्सत्पवर्षोऽपि च सप्तवर्षात् ।
दीनानि दीनानि गवां कुलानि
लीलोद्धृताद्रिः समपालयस्त्वम् ॥ ८०॥
त्वदीयसङ्कल्पलनेन देव
रक्षा यदि स्थावरजङ्गमानाम् ।
महीघ्रमुद्धृत्य भुजेन वर्षात्
गोगोपरक्षा रचिता नु चित्रा ॥ ८१॥
त्रातुं त्वयि स्वानचिरादरातीन्
निराचिकीर्षत्यपि कंसकर्णे ।
जजाप वृन्दावनवासिनं त्वां
त्वरान्वितस्तस्य वधे सुरर्षिः ॥ ८२॥
सुरर्षिवृन्दैरपि चिन्त्यमानं
पादारविन्दं तव नन्दसूनो ।
ब्रह्मा । । । । । ।
स्थिरत्रसानां सुलभं बभूव ॥ ८३॥
वधाय कंसस्य रथाधिरूढे
विहाय गोपीं मधुरां यथासौ ।
। । । । । ।
। । । निरणायि भोगः ॥ ८४॥
गच्छंश्च वीथ्यां मथुरावधूभिः
कुब्जाङ्गवैरूप्यनिराकृतिज्ञः ।
बालः किलायं वसुदेवसू नु-
रिति स्मरस्मेरमुदीक्ष्यसे स्म ॥ ८५॥
स्मृतत्वदीयाखिलबाललीलौ
जगत्पितरत्वं पितरौ विमुच्य ।
बन्द्धाद्व्यधाः कंसकृता स्वरूप-
साक्षात्कृतिप्रीतियुतौ नितान्तम् ॥ ८६॥
नितान्ततान्तां शिशुपालपाप-
प्रसक्तिवार्ताश्रवणेन कृष्ण ।
त्वां रुक्मिणीं रुक्मसमानशोभा-
माहृत्य हृद्यामकृथाः कृतार्थाम् ॥ ८७॥
अर्थादमर्त्याधिपतेरमित्रान्
संहर्तुमुद्युक्तमना मनाक् त्वम् ।
सत्यानुरोधादकरोन्मुरारे
पुरं सुरावासमपारिजातम् ॥ ८८॥
तं त्वां भजन्तः शरणं शरण्यं
रणेषु पार्थात्र भवत् कृतार्थाः ।
पाञ्चालपुत्रीपरिभूतिधूति-
प्रवीणनामस्मरणप्रभावा ॥ ८९॥
भावाहितत्वन्महिमप्ररोहा
भर्तुः शुकव्यासपराशराद्याः ।
श्रीराजगोपाल तवाखिलासु
लीलासु कूलङ्कषवाग्विलासाः ॥ ९०॥
विलासवत्यंसकसव्यहस्तं
स्मेराननाब्जं कमनीयकायम् ।
करान्तरेणादृतकेलियष्टि-
मभीष्टदं त्वां शरणं भजेयम् ॥ ९१॥
जयं यदीदं कलिकालखेलद्
दुर्वृत्तजातं तव कल्किमूर्त्या
अद्यैव सद्याचनयानवद्य
तथा यतेथाः स्वजनावनाय ॥ ९२॥
यदेव देवात्र परत्र चापि
हितं सतां चानुमतं हितज्ञ ।
तन्मे तवाङ्घ्री शरणं गताय
रम्यं रमाधीश विधेहि सम्यक् ॥ ९३॥
समीच्यसम्यक्त्वधिया विमुग्धो
समीचि सम्यक्त्वधिया च नाथ ।
कथं त्वहं मे हितमेतदेव ।
तदेव देहीत्यपि याचिताहे ॥ ९४॥
हे देव भोगीशखगेशमुख्यै-
र्दिव्यैर्दिवारात्रविभागशून्यम् ।
संसेव्यमानं तव पादपद्म-
युगं कदाहं करवाणि साक्षात् ॥ ९५॥
क्षान्तिः क्षमानाथ मदीयदोष-
लाभादलभ्यादखिलेऽपि लोके ।
अतीव सौहित्यमुपेत्य मुक्तिं
बद्धात् स्वतन्त्रान्मम संविधत्ताम् ॥ ९६॥
तामेव देवीं शरणं प्रपद्ये
दधाम हेतुं महतीं त्वदीयाम् ।
यासीत् स्वयं संसृतिचकवात्या-
भ्रमातिदुःख्यज्जनजीवनाय ॥ ९७॥
यत्सत्सु वात्सल्यमिति प्रसिद्धं
त्वदीयकल्याणगुणेषु रत्नम् ।
तदेव पूर्वोत्तरदोषराशी
उपेक्ष्य रक्षेदिति निश्चयो मे ॥ ९८॥
मेधा दृढा माधव ते परत्वेऽ-
प्यपायतायां यदुपेयतायाम् ।
परीक्ष्य रक्ष त्रितयं तदेतत्
समग्रमागोऽन्यदुपेक्षणार्हम् ॥ ९९॥
अर्हद्भिरङ्घ्र्योर्भवतोऽर्पितं मां
सहास्मदीयेन दयार्द्रचित्त ।
श्रीराजगोपाल तथा विधेहि
यथा भवेयं भृतकिङ्करश्रीः ॥ १००॥
इति श्रीराजगोपालस्तवः सम्पूर्णः ।
Proofread by Rajesh Thyagarajan