श्रीराजगोपालपञ्चरत्नस्तुतिः
स्वर्णपाण्ड्यपुरभ्राजद्राजगोपालमादरात् ।
भक्तकल्पद्रुमं नित्यं नमामोऽभीष्टसिद्धये ॥ १॥
सुन्दरपाण्ड्यपुरे विलसन्तं सुन्दरमूर्तिमुदारचरित्रम् ।
इन्दिरया परिसेवितपादं तं दरहासमुखाम्बुजमीडे ॥ २॥
रागादिरोगविनिवारणदीक्षितस्य
राजाधिराजकमनीयपदाम्बुजस्य ।
राकासुधांशुरमणीयमुखाम्बुजस्य
श्रीराजगोपसुविभोश्चरणौ प्रपद्ये ॥ ३॥
श्रीराजगोपाल यशोविशाल श्रीदेवकीपाल सुरारिकाल ।
वशीकृतव्याल विशालभाल स्वभक्तजालं परिपाहि नित्यम् ॥ ४॥
प्रभू राजगोपाल आर्तार्तिहन्ता दयासागरो देवराजादिवन्द्यः ।
सतामाश्रयः सामगेयः सुरूपः सदाऽयं प्रदद्याज्जगन्मङ्गलानि ॥ ५॥
इति शृङ्गेरीजगद्गुरु श्रीभारतीतीर्थश्रीचरणकृतस्तोत्रयुग्मं
चित्रानदीतीरगतसुन्दरपाण्ड्यपुरग्रामविराजमान
श्रीराजगोपालपञ्चरत्नस्तुतिः समाप्ता ।
Proofread by PSA Easwaran