श्रीराधागोपालकवचम्
श्रीगणेशाय नमः ॥
पार्वत्युवाच ।
कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम् ।
ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ १॥
त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः ।
नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥ २॥
आश्चर्यमिदमत्यन्तं जायते मम शङ्कर ।
तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शङ्कर ॥ ३॥
श्रीमहादेव उवाच ।
धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे ।
रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ ४॥
स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ ५॥
दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् ।
इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥ ६॥
धनरत्नौघमाणिक्यतुरङ्गमगजादिकम् ।
ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ ७॥
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वावहिता प्रिये ।
योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥ ८॥
संसारसागरोत्तारकारणाय सदा नृणाम् ।
श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ ९॥
ततो लोका महामूढा विष्णुभक्तिविवर्जिताः ।
निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥ १०॥
निरञ्जनो निराकारो भक्तानां प्रीतिकामदः ।
वृन्दावनविहाराय गोपालरूपमुद्वहन् ॥ ११॥
मुरलीवादनाधारी राधायै प्रीतिमावहन् ।
अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ १२॥
श्रीकृष्णचद्रो भगवान् नन्दगोपवरोद्यतः ।
धरणीरूपिणी माता यशोदानन्ददायिनी ॥ १३॥
द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः ।
ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥ १४॥
जातोऽवन्यां मुकुन्दोऽपि मुरलीवेदरेचिका ।
तया सार्धं वचः कृत्वा ततो जातो महीतले ॥ १५॥
संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् ।
एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम् ॥ १६॥
गौरतेजो विना यस्तु श्यामतेजः समर्चयेत् ।
जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥ १७॥
स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः ।
एतैर्दोषैर्विलिप्येत तेजोभेदान्महेश्वरि ॥ १८॥
यस्माज्ज्योतिरभूद्द्वेधा राधामाधवरूपकम् ।
तस्मादिदं महादेवि गोपालेनैवं शायितम् ॥ १९॥
दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले ।
ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥ २०॥
निरञ्जनात्समुत्पन्नं मयाधीतं जगन्मयि ।
श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ २१॥
ततो नारदतः सर्वं विरला वैष्णवास्तथा ।
कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥ २२॥
शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि ।
ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ २३॥
इति श्रीराधागोपालकवचं सम्पूर्णम् ।
Proofread by PSA Easwaran