पुष्टिप्रवाहमर्यादाभेदः
पुष्टिप्रवाहमर्यादा विशेषेण पृथक्पृथक् ।
जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १॥
वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुते ।
भक्तिमार्गस्य कथनात्पुष्टिरस्तीति निश्चयः ॥ २॥
द्वौ भूतसर्गावित्युक्तेः प्रवाहोऽपि व्यवस्थितः ।
द्वौ भूतसर्गावित्युक्तेः प्रवाहोऽपि व्यवस्थिता ॥ ३॥
कश्चिदेव हि भक्तो हि यो मद्भक्त इतीरणात् ।
सर्वत्रोत्कर्षकथनात्पुष्टिरस्तीति निश्चयः ॥ ४॥
न सर्वोऽतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः ।
यदा यस्येति वचनान्नाहं वेदैरितीरणात् ॥ ५॥
मार्गेकत्वेऽपि चेदन्त्यौ तनू भक्त्यागमौ मतौ ।
न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६॥
जीवदेहकृतीनां च भिन्नत्त्वं नित्यता श्रुतेः ।
यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७॥
प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः ।
सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८॥
इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः ।
वचसा वेदमार्गे हि पुष्टिं कायेन निश्चयः ॥ ९॥
मूलेच्छातः फलं लोके वेदोक्तं वैदिकेऽपि च ।
कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकता ॥ १०॥
तानहं द्विषतो वाक्याद्भिन्ना जीवाः प्रवाहिणः ।
अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११॥
तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः ।
भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२॥
स्वरूपेणावतारेण लिङ्गेन च गुणेन च ।
तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३॥
तथापि तावता कार्यं यावत्तस्य करोति हि ।
ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४॥
प्रवाहादिविभेदेन भगवत्कार्यसिद्धये ।
पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५॥
मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः ।
एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते ॥ १६॥
भगवानेव हि फलं स यथाऽऽविर्भवेद्भुवि ।
गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७॥
आसक्तौ भगवानेव शापं दापयति क्वचित् ।
अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८॥
न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवाः ।
महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९॥
भगवत्तारतम्येन तारतम्यं भजन्ति हि ।
वैदिकत्वं लौकिकत्त्वं कापट्यात्तेषु नान्यथा ॥ २०॥
वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः ।
सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१॥
चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु ।
क्षणात्सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२॥
तेषां क्रियानुसारेण सर्वत्र सकलं फलम् ।
प्रवाहस्थान्प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३॥
जीवास्ते ह्यासुरा सर्वे प्रवृत्तिं चेति वर्णिताः ।
ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४॥
दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः ।
प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ।
सोऽपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५॥
इति श्रीवल्लभाचार्यविरचितः पुष्टिप्रवाहमर्यादाभेदः समाप्तः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com