प्रपन्नमकरन्दस्तोत्रम्
कलयतु कुशलानि कालमेघद्युतिमदधूननधीरदिव्यकान्ति ।
किमपि रघुकुलाम्बुराशिरत्नं सकलशुभावहनाम तच्चिरत्नम् ॥ १॥
घनतरकरुणामृताम्बुराशिप्रसरदुदारतरङ्गकैरपाङ्गैः ।
प्रशमितविनताळिचित्ततापं किमपि महो हृदि मेऽस्तु दिव्यरूपम् ॥ २॥
विविधमणिमरीचिजाललीलाशबलितहेमकिरीटलोलमालं
।
मृगमदतिलकस्फुरन्निटालं हृदय सदा भज कोसलेन्द्रबालम् ॥ ३॥
विमलकिरणब्राललीलभालप्रतिलुलितालकजाललालनीयम् ।
नवनलिनदलामलायताक्षं कमपि वशे कलयानि दीनरक्षम् ॥ ४॥
सुललितचलितातिविभ्रमभ्रूकलनविलोलितभूसुरान्तरङ्गे ।
मुकुरतललसत्कपोलभावे लगतु चिरं मम चित्तमादिदेवे ॥ ५॥
मणिगणरुचिराङ्गकुण्डलश्रीकवचितकर्णयुगे मनोज्ञनासे ।
विहरतु मम चित्तवृत्तिरेषा धरणिसुतावशगे चिराय धाम्नि ॥ ६॥
रसभरपरिपाकराजमानस्फुटतरदाडिमबीजदन्तपङ्क्तिम् ।
अधरमणिसुधाविधूतसीताहृदयजतापमुपास्महे पुमांसम् ॥ ७॥
शरदुदितसुधाकरांशुशैलीमदहरशीतलवाचि सुप्रसन्ने ।
अरुणकिरणभिन्नपद्मलक्ष्मीविजयिनि राममुखेऽस्तु मानसं मे ॥ ८॥
दरदळदरविन्दमन्दमन्दप्रसरदमन्दमरन्दसुन्दराङ्गाः ।
विवशितधरणीसुतान्तरङ्गा रघुनृपतेः प्रसरन्तु मय्यपाङ्गाः ॥ ९॥
अमृतरुचिसहोदरस्मितश्रीजुषि घनकम्बुविडम्बिकन्धरेऽस्मिन् ।
सितकरकिरणात्युदारहारे मम हृदयं भवताद्विहारि वीरे ॥ १०॥
करकमलगळन्मरन्दधाराविशयवदावददिव्यचापदण्डम् ।
अशिशिरकरवंशजाग्रगण्यं विशतु मनो मम धन्विनां वरेण्यम् ॥ ११॥
निशिचरकुलकल्पितोग्रदण्डं मनसि महो मम भासतामखण्डम् ।
अरिसरसिजधूनुनातिशौण्डद्विरदकरायितदीर्घबाहुदण्डम् ॥ १२॥
मरकतहरिनीलपद्मरागस्फुरितमहाङ्गदकङ्कणादिसेव्यम् ।
मम नयनपथेऽस्तु वस्तु दिव्यं शुभहरिचन्दनचर्चनातिभव्यम् ॥ १३॥
नवतरुणिमजानकीमनोज्ञस्तनयुगकर्कशतारसज्ञवक्षः ।
किमपि सकललोकभागधेयं मयि विशताच्छुभदायि नामधेयम् ॥ १४॥
नवजलधरवृन्दतुन्ददीव्यत्तटिदुपमानसुवर्णचारुचेलम् ।
त्रिवळिसुललितोदरं सुशीलं रघुकुलरत्नमुपास्महेऽतिनीलम् ॥ १५॥
कमलजजनिगेहनाभिपद्मस्फुटरसलोलुपरोमभृङ्गराजि ।
हृदि परिकलयामि कोसलेन्द्रक्षितिरमणीमृगनाभिचित्रकं तत् ॥ १६॥
मृगपतितनुमध्यमुन्नतांसं सुविपुलपीवरदिव्यबाहुमध्यम् ।
विधुकररुचिरान्तरीयमीडे कमपि युवानमुदारचारुमूर्तिम् ॥ १७॥
तरुणिममदनेभयुग्मलीलाप्रसृतकरद्वयसन्निभोरुयुग्मम् ।
सुमशरजयकाहळायमानस्फुटतरजङ्घमहं भजामि देवम् ॥ १८॥
शरणगजनचित्तभक्तिपूरहृदकमलाद्वितयं तदङ्घ्रियुग्मम् ।
मृदुलशुभतरांङ्गुळीमनोज्ञं रुचिरनखं परिचुम्बतान्मनो मे ॥ १९॥
रघुकुलमणिदिव्यसौधदीपं सुरुचिररूपविधूतपुष्पचापम् ।
घनतरमदताटकास्वरूपज्वलनशिखाजलदं भजेऽभिरूपम् ॥ २०॥
चरणनखपरागजातकन्यावितरणमोदितगौतमातिमान्ये ।
विलगतु हृदयं महावदान्ये नवतरुणे मम भूसुताप्तिधन्ये ॥ २१॥
जनकवचनपालनात्तदीक्षे भरतमनोरथदायिदिव्यवीक्षे ।
विपिनभुवि विराधदत्तशिक्षे सततमियं मतिरस्तु दीनरक्षे ॥ २२॥
जरठतमजटायुमुक्तिदानप्रकटितनैजमहावदान्यभावे ।
कपिकुलपतिक्लृप्तमित्रभावे विहरतु मे हृदयं चिराय देवे ॥ २३॥
सरिदधिपतिमध्यबद्धसेतुच्छलपरिदर्शितवैरिधूमकेतुः ।
दशवदनविधूननैकहेतुर्हृदि नटताद्रघुवंशदिव्यकेतुः ॥ २४॥
रघुकुलधरणीशराज्यसिंहासनलसितं धरणीसुतात्तभावम् ।
शुभतमकरुणानिधिं भजामस्सकलगुणाकरमेनमादिदेवम् ॥ २५॥
वितरतु जगतां शुभानि कृष्णाभिधपरकालयतीश्वरेण क्लृप्ता ।
स्तुतिरिह महिशूरराजधानीनृपमणिकृष्णमहेन्द्रदेशिकेन ॥ २६॥
इति प्रपन्नमकरन्दस्तुतिस्सम्पूर्णा ।
Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com