प्रपन्नामृतस्तोत्रम्
कलयतु कल्याणगुणं कमलाकुचकुङ्कुमाङ्कितोरस्कम् ।
यदुवंशमौक्तिकं तत्किमपि महस्सर्वदाऽपि मम हृदयम् ॥ १॥
वन्दे तं देवसुतं वसुदेववधूस्तनन्धयं कमपि ।
वरदं वरेण्यशीलं वल्लवभवनात्तलीलमिह बालम् ॥ २॥
व्रजरचितकेळिसुदतीव्रजहृदयानन्दकन्दळं किमपि ।
व्रज हृदय दिव्यतेजो वृजिनतमोमूलभेदनपटिष्ठम् ॥ ३॥
लीलामुदितयशोदं ललितप्रस्निग्धमुग्धतरवादम् ।
आकुञ्चितैकपादं भज तेजः किमपि विरचिताह्लादम् ॥ ४॥
हृदयनवनीतचोरं पारदतरलाङ्घ्रिकमलसञ्चारम् ।
परिलुलितगोपदारं गृहाण यत्नेन कमपि सुकुमारम् ॥ ५॥
गोपवधूभोगार्हं शेखरितानर्घबर्हिवरबर्हम् ।
घनविभवपारिबर्हं कलये हृदये चिराय दाशार्हम् ॥ ६॥
गोखुरविदारितावनिधूळीधूसरितकुन्तलमुदारम् ।
सञ्चिन्तयेऽन्तरङ्गे सकुमारं कमपि वल्लवकुमारम् ॥ ७॥
कमपि घनाघननीलं गोपवधूटीकुचग्रहविलोलम् ।
कलयामि गोपबालं लोलालकजालमधुकरितभालम् ॥ ८॥
कुन्दविनिन्दनरदनान्मन्दितपूर्णेन्दुबिम्बरुचिवदनान् ।
मुनिहृदयकेळिसदनान्व्रजविभवांस्तान्भजे विधुतमदनान् ॥ ९॥
नन्दानन्दनचन्दन मुचुकुन्दानन्दकन्द गोविन्द ।
मम विन्द हृदरविन्दं मिळिन्दसुन्दर मुकुन्द ननु मन्दम् ॥ १०॥
किमपि यशोदाभाग्यं व्रजललनापृथुलकुचयुगीभोग्यम् ।
क्षामि नीलरत्नं रमणीयं हृदयसम्पुटे नूत्नम् ॥ ११॥
मुरळीनिनादरसभरतरळीकृततर्णकव्रजो भजताम् ।
कोऽपि घनाघनशावः कोमलरूपोऽद्य दहरगहनं मे ॥ १२॥
कालिन्दीपुळिनान्तरककलितविहारं मनोज्ञमणिहारम् ।
तेजः किमपि विलीनं जागर्तु मदीयहृदि रुचिरलीलम् ॥ १३॥
कानपि भजे विलासान्कस्तिव्रजसुन्दरीरुचिररासान् ।
राधाकटाक्षदासान् राकासितकिरणसखहासान् ॥ १४॥
अतिमुग्धं दधि लब्धुं सुस्निग्धं वस्तु किमपि मम सिद्धम् ।
चारुमुखं तारसखस्मेरनखं तच्चिरादपारसुखम् ॥ १५॥
विकटातिदर्पदुर्मदशकटासुरधूतिधुर्यचरणतलम् ।
प्रकटानुरागरुचिरं सुकटाक्षान्मयि तनोतु ततेजः ॥ १६॥
यमुनाकूलविहारं यमिनामधुनाऽपि हन्त बहुदूरम् ।
महदच्युतकैशोरं मम हृदि वितनोतु नित्यसञ्चारम् ॥ १७॥
बहुतरतरङ्गघद्दितयमुनाशुक्तयुदरगळितमिव नीलम् ।
मुक्ताफलं प्रविचलत्तत्र विचित्रं विभावये हदये ॥ १८॥
सोमाननगोपीजनकौमारहरं प्रवाळलसदधरम् ।
तरुणं कमपि मनोहरचरणं शरणं भजे धृताभरणम् ॥ १९॥
खञ्जितगोपीहृदयं रञ्जितभुवनं श्रयामि गोपशिशोः ।
सञ्जीवितगोसन्तति मञ्जुळमञ्जीरशिञ्जितं नृत्तम् ॥ २०॥
कालीयफणमणिमध्ये नीलतरं नूत्नजातमिवरत्नम् ।
तन्मूर्धन्यस्तपदं चूडालङ्करणमस्तु धाम मम ॥ २१॥
सितकरकिरणत्रस्यद्गोपीरतिकेळिरचिततिमिरभरम् ।
तत्किमपि धाम हृदये नीलतरं नस्तमो निराकुरुताम् ॥ २२॥
निर्मलतरमतिशिशिरं निरुपममवगाहतां मनोरुचिरम् ।
नन्दकिशोरमनोहरशरीरतेजः कळिन्दजापूरम् ॥ २३॥
मह इह मनसि विलग्नं मणिमयकाञ्चीमनोहरवलग्नम् ।
गोपीकटाक्षमग्नं गोप्तुं क्षममेवमां भवविव्रिग्नम् ॥ २४॥
विन्दे पदारविन्दे मन्देतरविभवदे कृतानन्दे ।
नन्दकुलामन्दकला वृन्दविलासस्य कस्यचिद्धाम्नः ॥ २५॥
इतिमहिशूरपुरोत्तमनरपतिचामेन्द्रभूपकुलगुरुणा ।
कलिता स्तुतिर्विजयतां श्रीकृष्णब्रह्मतन्त्रकलिरिपुणा ॥ २६॥
इति श्रीकृष्ण ब्रह्मतन्त्र परकाल महादेशिकानां कृतिषु
प्रपन्नामृतस्तोत्रं सम्पूर्णम् ।
Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com