प्रबोधनस्तोत्रम् अथवा दशावतार सुप्रभातम्
वृन्दावने हरिप्रबोधनविधिः ।
व्रतचूडामणिः
(अत्रैव हि प्रकर्तव्यः प्रबोधस्तु हरेः खग ।
हतः शङ्खासुरो दैत्यो नभंसः शुक्लपक्षके ।
एकादश्यां ततो विष्णुः चातुर्मास्येषु सुप्तवान् ।
क्षीरोदधौ जाग्रतोऽसावेकादश्यां तु कार्तिके ।
अतः प्रबोधनं कार्यमेकादश्यां तु वैष्णवैः ॥)
प्रबोधनस्तोत्रम्
उत्तिष्टोत्तिष्ठ शङ्खघ्न उत्तिष्ठ श्रुतिसाधक ।
उत्तिष्ठ जगदाधार त्रैलोक्यं मङ्गलं कुरु ॥ १॥
उत्तिष्ठ धरणीधार मन्थानगिरिधारक ।
कूर्मरूपधरोत्तिष्ठ त्रैलोक्यं मङ्गलं कुरु ॥ २॥
उत्तिष्टोत्तिष्ठ वाराह दंष्ट्रोद्भृतवसुन्धर ।
हिरण्याक्षप्राणधातिन् त्रैलोक्यं मङ्गलं कुरु ॥ ३॥
हिरण्यकशिपुघ्न त्वं प्रह्लादानन्ददायक ।
लक्ष्मीपते समुत्तिष्ठ त्रैलोक्यं मङ्गलं कुरु ॥ ४॥
उत्तिष्ठ बलिदर्पघ्न देवेन्द्रपददायक ।
उत्तिष्ठादितिपुत्र त्वं त्रैलोक्यं मङ्गलं कुरु ॥ ५॥
उत्तिष्ठ हैहयाधीशसमस्तकुलनाशन ।
रेणुकाघ्न त्वमुत्तिष्ठ त्रैलोक्यं मङ्गलं कुरु ॥ ६॥
उत्तिष्ठ रक्षोदमन अयोध्यास्वर्गदायक ।
समुद्रसेतुकर्तस्त्वं त्रैलोक्यं मङ्गलं कुरु ॥ ७॥
उत्तिष्ठ कंसहरण मदघूर्णित लोचन ।
उत्तिष्ठ हलपाणे त्वं त्रैलोक्यं मङ्गलं कुरु ॥ ८॥
उत्तिष्ठ त्चं गयावासिन् त्यक्तलौकिकवृत्तिक ।
उत्तिष्ट पद्मासनग त्रैलोक्यं मङ्गलं कुरु ॥ ९॥
उत्तिष्ठ म्लेच्छनिवह खड्गसंहारकारक ।
अश्ववाह युगान्त त्वं त्रैलोक्यं मङ्गलं कुरु ॥ १०॥
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ ११॥
इत्युक्त्वा शङ्खभेर्यादि प्रातः काले तु वादयेत्
वीणावेणु मृदङ्गादि नृत्तगीतादि कारयेत् ॥
उत्थापयित्वा देवेशं पूजां तस्य विधाय च ।
सायं काले प्रकर्तव्यः तुलस्युद्वाहको विधिः ॥
Encoded and proofread by Shree Devi Kumar