प्रार्थनाष्टकम्
मया ज्ञातं सर्वं खलु जगदिदं ब्रह्म विमलं
तथैवेह स्वात्मा निगमगुरुवाक्यादनुभवात् ।
तथापीच्छा स्वस्य त्वयि नयनपातस्य न गता
प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ १॥
ममेमामाशाधिं हरसि यदि न त्वं च विपुला-
महं भक्ताधीनो वदसि कथमित्थं प्रियमुधा ।
श्रुतं घार्ण्यं भक्ते तव मयि करोषीह न च किं (घार्ण्यं एवं कारुण्यं)
प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ २॥
अमूल्यान्यस्वार्थे यदि तव रुचिर्नास्ति भगवन्
सतां श्रीरन्यार्था क्व गतमिति वाक्यं च महताम् ।
यथा मेऽस्ति प्रीतिस्त्वयि मयि तव स्वात्मनि न किं
प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ ३॥
त्वदन्यं दुःखघ्नं शरणमुपयामोत्र वद कं
तनूजोर्थोनारी निगमयतिवेषौ वनज्ञतिः ।
तवाप्राप्तौ सर्वे निरयमिव दुःखादसुखदाः
प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ ४॥
गजास्योयं देव्यास्तनुज उत तस्याः पतिहरः
स लोकेशाज्जातस्तदपि हरेस्तत्प्रभृतयः ।
कलांशाः कृष्णस्तु स्वयमिति विभुर्भागवततः
प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ ५॥
मनश्वाञ्चल्यं मे करणकृतदोषं मनसिजं
स्मयं रोषं लोभं न च मम गतिर्द्रक्ष्यसि यदा ।
स्ववात्सल्यं दृष्ट्वा कुरु गुरुदयां स्वात्मशरणे
प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ ६॥
सखा सख्युर्नार्याः पतिरिव तनूजस्य जननी
क्षमस्व त्वं मेऽधं जलनिधिग काकस्य शरणम् ।
यथा पोतादन्यं मम भवदृते नास्ति जगति
प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ ७॥
अहोऽत्राहं धन्यश्चरणमणिशब्द श्रुतिगणं
बहिःश्यामं त्वन्तः सितममरवाग्बुद्ध्यविषयम् । (शुद्धम्)
यतो द्रक्ष्यामीशं रविशतसमापीडशिरसं
प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ ८॥
इति श्रीस्वामिज्ञानदासशिष्यगोपालदासेन विरचितं प्रार्थनाष्टकं सम्पूर्णम् ।
Proofread by Saritha Sangameswaran