परत्वादिपञ्चकम्
श्रीवात्स्यवरदगुरुभिरनुगृहीतं
श्रीरस्तु ।
श्रीमते हयग्रीवाय नमः ।
श्रीमते रामानुजाय नमः ॥
वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् ।
भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥
उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मल-
ज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणैः ।
जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं
श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥ १॥
आमोदे भुवने प्रमोद उत सम्मोदे च सङ्कर्षणं
प्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम् ।
कुर्वाणान् मतिमुख्यषड्गुणवरैर्युक्तांस्त्रियुग्मात्मकैः
व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे ॥ २॥
वेदान्वेषणमन्दराद्रिभरण क्ष्मोद्धारणस्वाश्रित-
प्रह्लादावनभूमिभिक्षणजगद्विक्रान्तयो यत्क्रियाः ।
दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं
कालिन्द्या अतिपापकंसनिधनं यत्क्रीडितं तं नुमः ॥ ३॥
यो देवादिचतुर्विधेष्टजनिषु ब्रह्माण्डकोशान्तरे
सम्भक्तेषु चराचरेषु निवसन्नास्ते सदान्तर्बहिः ।
विष्णुं तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरं
स्वाङ्गुष्ठप्रमितं च योगिहृदयेष्वासीनमीशं भजे ॥ ४॥
श्रीरङ्गस्थलवेङ्कटाद्रिकरिगिर्यादौ शतेऽष्टोत्तरे
स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे ।
अर्चारूपिणमर्चकाभिमतितः स्वीकुर्वते विग्रहं
पूजां चाखिलवाञ्छितान् वितरते श्रीशाय तस्मै नमः ॥ ५॥
प्रातर्विष्णोः परत्वादिपञ्चकस्तुतिमुत्तमाम् ।
पठन् प्राप्नोति भगवद्भक्तिं वरदनिर्मिताम् ॥ ६॥
इति परत्वादिपञ्चकं समाप्तम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com