श्रीपरशुराम प्रातःस्मरणम्
भगवते श्रीपरशुरामाय नमः ।
प्रातःस्मरामि भृगुनाथमुखारविन्दं
प्रातर्नमामि भृगुनाथपदारविन्दम् ।
प्रातर्जपामि वचसा भृगुनाथनामं
प्रातर्भजामि भृगुनाथमनाथबन्धुम् ॥ १॥
श्रीरामभार्गवपदं मनसा भजामि
श्रीरामभार्गवपदं वचसा स्मरामि ।
श्रीरामभार्गवपदं हि सदा नमामि
श्रीरामभार्गवपदं शरणं प्रपद्ये ॥ २॥
श्रीभार्गवं ब्रह्मसमानरूपं
जितेन्द्रियं वेदविदां वरिष्ठम् ।
श्रीरेणुकायाः जठरात्प्रसूतं
नमामि मूर्ध्ना जमदग्निपुत्रम् ॥ ३॥
नमः परशुरामाय जामदग्न्याय ते नमः ।
ब्रह्मदेवाय देवाय रेणुकासूनवे नमः ॥ ४॥
दुःखदारिद्र्यहर्तारं दातारं सर्वसम्पदाम् ।
परशुरामं महावीरं भूयो भूयो नमाम्यहम् ॥ ५॥
श्लोकपञ्चकमिदं स्तोत्रं प्रातःकाले तु यः पठेत् ॥
सर्वदुःखविनिर्मुक्तो सर्वत्र विजयी भवेत् ॥ ६॥
इति बद्रीप्रसादमहर्षिकृतं प्रातःस्मरणं सम्पूर्णम् ॥
Proofread by PSA Easwaran