श्रीपरशुरामाष्टाविंशतिनामावलिः
भूभारभरणार्थाय मायामानुषविग्रहाय नमः ।
जनार्दनांशसम्भूताय । स्थित्युत्पत्त्यप्ययेश्वराय । भार्गवाय ।
जामदग्न्याय । पित्राज्ञापरिपालकाय । मातृप्राणप्रदाय ।
श्रीमते । क्षत्रियान्तकराय । प्रभवे । रामाय । परशुहस्ताय ।
कार्तवीर्यमदापहाय । रेणुकादुःखशोकघ्नाय । विशोकाय ।
शोकनाशनाय । नवीननीरदश्यामाय । रक्तोत्पलबिलोचनाय ।
घोराय । दण्डधराय । धीराय । ब्रह्मण्याय । ब्राह्मणप्रियाय ।
तपोधनाय । महेन्द्राद्रौ न्यस्तदण्डाय । प्रशान्तधिये ।
सिद्धगन्धर्वचारणैरुपगीयमानचरिताय ।
जन्ममृत्युजराव्याधिदुःखशोकभयातिगाय नमः ॥ २८
पायाद्वो जमदग्निवंशतिलको वीरव्रतालङ्कृतो
रामो नाम मुनीश्वरो नृपवधे भास्वत्कुठारायुधः ।
येनाशेषहताहिताङ्गरुधिरैः सन्तर्पिताः पूर्वजाः
भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तकारीकृता ॥
इति श्रीपरशुरामाष्टाविंशतिनामावलिः समाप्ता ।
Proofread by PSA Easwaran