परमार्थस्तुतिः
वेदान्तदेशिककृता ।
(गृध्रसरसि)
श्रीमद्गृध्रसरस्तीरपारिजातमुपास्महे ।
यत्र तुङ्गैरतुङ्गैश्च प्रणतैर्गृह्यते फलम् ॥ १॥
गुरुभिस्त्वदनन्यसर्वभावैः गुणसिन्धौ कृतसम्प्लवस्त्वदीये ।
रणपुङ्गव वन्दिभावमिच्छन् अहमस्म्येकमनुग्रहास्पदं ते ॥ २॥
भुवनाश्रय भूषणास्त्रवर्गं मनसि त्वन्मयतां ममातनोतु ।
वपुराहवपुङ्गव त्वदीयं महिषीणामनिमेषदर्शनीयम् ॥ ३॥
अभिरक्षितुमग्रतः स्थितं त्वां प्रणवे पार्थरथे च भावयन्तः ।
अहितप्रशमैरयत्नलभ्यैः कथयन्त्याहवपुङ्गवं गुणज्ञाः ॥ ४॥
कमला निरपायधर्मपत्नी करुणाद्याः स्वयमृत्विजो गुणास्ते ।
अवनं श्रयतामहीनमाद्यं स च धर्मस्त्वदनन्यसेवनीयः ॥ ५॥
कृपणाः सुधियः कृपासहायं शरणं त्वां रणपुङ्गव प्रपन्नाः ।
अपवर्गनयादनन्यभावाः वरिवस्यारसमेकमाद्रियन्ते ॥ ६॥
अवधीर्य चतुर्विधं पुमर्थं भवदर्थे विनियुक्तजीवितः सन् ।
लभते भवतः फलानि जन्तुः निखिलान्यत्र निदर्शनं जटायुः ॥ ७॥
शरणागतरक्षणव्रती मां न विहातुं रणपुङ्गवार्हसि त्वम् ।
विदितं भुवने विभीषणो वा यदि वा रावण इत्युदीरितं ते ॥ ८॥
भुजगेन्द्रगरुत्मदादिलभ्यैस्त्वदनुज्ञानुभवप्रवाहभेदैः ।
स्वपदे रणपुङ्गव स्वयं मां परिचर्याविभवैः परिष्क्रियेथाः ॥ ९॥
विमलाशयवेङ्कटेशजन्मा रमणीया रणपुङ्गवप्रसादात् ।
अनसूयुभिरादरेण भाव्या परमार्थस्तुतिरन्वहं प्रपन्नैः ॥ १०॥
इति वेदान्तदेशिककृता परमार्थस्तुतिः समाप्ता ।
Proofread by PSA Easwaran