पञ्चश्लोकी
(श्रीवैकुण्ठनाथस्तुतिरूपा)
आब्रह्मकीटमपरैर्दुरतिक्रमा या
यत्प्रेरिता गुणमयी तरुणीव माया ।
तामप्यहो तरति कोऽपि कदाचिदेव
यस्य प्रसादवशतस्तमिमं नताः स्मः ॥ १॥
सङ्कल्पमात्रसचिवो जगदेतदादौ
सृष्ट्वा य एष कुतुकी तदनुप्रविश्य ।
सत्यानृतादिविविधव्यपदेशमेति
तस्मै नमो नम इदं पुरुषोत्तमाय ॥ २॥
प्रभवति विधिः स्रष्टुं लोकानिमान् सचराचरान्
शशधरधरो हर्तुं यस्य प्रसादलवांशतः ।
स्वयमवति यो विष्ण्वात्मानं प्रपद्य कृपानिधि-
र्विमलमनसां चेतोधाम्ने श्रियः पतये नमः ॥ ३॥
अशुद्धेऽस्मिन्नन्तर्जगति परिनुन्नेऽपि परथा
दयास्रोतस्विन्या निरवधिविकारास्तदुदिताः ।
न सज्जन्ते यस्मिन्नधिनलिनपत्रं जलकणा
यथैनं प्राचीनं पुरुषमिह वन्देमहि वयम् ॥ ४॥
असारं संसारं सरुचि विसृजन्तः शमधना-
श्चिराद् योगारूढा निजहृदयनालीकमुकुलम् ।
समुद्धाट्य श्रीमच्चरणयुगलं यत्प्रयतनै-
र्निषेवन्ते धन्यास्तदिदमवतंसो भवतु नः ॥ ५॥
इति श्रीपञ्चलकी समाप्ता ।
स्तोत्रसमुच्चयः २ (६४)
Proofread by Rajesh Thyagarajan