पञ्चपञ्चाशद्विष्णुनामानि
अग्निरुवाच -
जपन् वै पञ्चपञ्चाशद्विष्णुनामानि यो नरः ।
मन्त्रजप्यादिफलभाक्तीर्थेष्वर्चादि चाक्षयम् ॥ १॥
पुष्करे पुण्डरीकाक्षं गयायाञ्च गदाधरम् ।
राघवञ्चित्रकूटे तु प्रभासे दैत्यसूदनम् ॥ २॥
जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे ।
वाराहं वर्धमाने च काश्मीरे चक्रपाणिनम् ॥ ३॥
जनार्दनञ्च कुब्जाम्रे मथुरायाञ्च केशवम् ।
कुब्जाम्रके हृषीकेशं गङ्गाद्वारे जटाधरम् ॥ ४॥
शालग्रामे महायोगं हरिं गोबर्धनाचले ।
पिण्डारके चतुर्वाहुं शङ्खोद्धारे च शङ्खिनम् ॥ ५॥
वामनञ्च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥ ६॥
विष्णुं महोदधौ विद्याद्गङ्गासागरसङ्गमे ।
वनमालञ्च किष्किन्ध्यां देवं रैवतकं विदुः ॥ ७॥
काशीतटे महायोगं विरजायां रिपुञ्जयम् ।
विशाखयूपे ह्यजितन्नेपाले लोकभावनम् ॥ ८॥
द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् ।
लोकाकुले रिपुहरं शालग्रामे हरिं स्मरेत् ॥ ९॥
पुरुषं पूरुषवटे विमले च जगत्प्रभुम् ।
अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ॥ १०॥
उत्पलावर्तके सौरीं नर्मदायां श्रियः पतिम् ।
दामोदरं रैवतके नन्दायां जलशायिनम् ॥ ११॥
गोपीश्वरञ्च सिन्ध्वब्धौ माहेन्द्रे चाच्युतं विटुः ।
सहाद्रौ देवदेवेशं वैकुण्ठं मागधे वने ॥ १२॥
सर्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् ।
आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम् ॥ १३॥
वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् ।
पर्वते पर्वते रामं सर्वत्र मधुसूदनम् ॥ १४॥
नरं भूमौ तथा व्योम्नि वशिष्ठे गरुडध्वजम् ।
वासुदेवञ्च सर्वत्र संस्मरन् भुक्तिमुक्तिभाक् ॥ १५॥
नामान्येतानि विष्णोश्च जप्त्वा सर्वमवाप्नुयात् ।
क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम् ॥ १६॥
तत्सर्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् ।
यः पठेत् शृणुयाद्वापि निर्मलः स्वर्गमाप्नुयात् ॥ १७॥
इत्याग्नेये महापुराणे पञ्चपञ्चाशद्विष्णुनामानि नाम
चतुरधिकत्रिशततमोऽध्यायः ॥ ३०४॥
Proofread by Sunder Hattangadi