श्रीपञ्चघाटीस्तोत्रम्
धाटिपञ्चकम्
श्रीमद्वेङ्कटनाथार्यः कवितार्किक केसरी ।
वेदान्ताचार्य वर्य्यो में सन्न्निधत्तांसदा हृदि ॥
पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनि-
र्बौद्धध्वान्तनिरासवासरपतिर्जैनेभकण्ठीरवः ।
मायावादिभुजङ्गभङ्गगरुडस्त्रैविद्यचूडामणिः
श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥ १॥
पाषण्डषण्डगिरिखण्डनवज्रदण्डाः
प्रच्छन्नबौद्धमकरालयमन्थदण्डाः ।
वेदान्तसारसुखदर्शनदीपदण्डाः
रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः ॥ २॥
चारित्रोद्धारदण्डं चतुर्नयपथालङ्क्रियाकेतुदण्डं
सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् ।
त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डं
धत्ते रामानुजार्यः प्रतिकथकशिरोवज्रदण्डं त्रिदण्डम् ॥ ३॥
त्रय्या माङ्गल्यसूत्रं त्रियुगयुगपथारोहणालम्बसूत्रं
सद्विद्यादीपसूत्रं सगुणनयकथासम्पदां हारसूत्रम् ।
प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं
रक्षासूत्रं यतीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ ४॥
पाषण्डसागरमहावडवामुखाग्निः ।
श्रीरङ्गराजचरणाम्बुजमूलदासः ।
श्रीविष्णुलोकमणिमण्डपमार्गदायी
श्रीरामानुजो विजयते यतिराजराजः ॥ ५॥
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
इति श्रीपञ्चघाटी स्तोत्रं सम्पूर्णम् ॥
श्री श्रीवत्सचिह्नमिश्रादिभिरनुगृहीतमिति प्रथितं
Proofread by PSA Easwaran psaeaswaran at gmail.com