श्रीपद्मनाभनतिदशकम्
विश्वं दृश्यमिदं यतः समयवद्यस्मिन्य एतत् पुनः
भासा यस्य विराजतेऽथ सकलं येनेह या निर्मितम् ।
यो वाचां मनसोऽप्यगोचरपदं मायातिगो भासते
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ १ ॥
लोके स्थावरजङ्गमात्मनि तु यः सर्वेषु जन्तुष्वलं
चैतन्यात्मतया विशन् विलसति ज्ञानस्वरूपोऽमलः
नो लिप्तः पयसेव पङ्कजदलं मायाश्रयस्तद्गुणैः
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ २॥
यस्येशस्य निषेवयानवमया त्वाचार्यवर्यानना-
दुद्भूतप्रतिमोपदेशविकसत्साद्वर्त्मनावाप्तया ।
मिथ्यात्वं जगतः स्फुटं हृदि भवेत्रज्जौ यथाहेस्तथा
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ३॥
रूपं यस्य मृगं न चेह मनुजं नो कर्म जातिं च नो
न द्रव्यं न गुणं स्त्रियं न पुरुषं नैवासुरं नो सुरम् ।
नैवासच्च सदित्यनन्तधिषणाः प्राहुर्महान्तो बुधाः
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ४ ॥
मार्ताण्डो गगनोदितस्तु तिमिरं यद्वत्पिनष्टि क्षणात्
शीतं चानुपमं यथा च हुतभुग् रोगान्यथैवौषधम् ।
अज्ञानं खिल तद्वदेव कृपया योऽसौ विदत्ते हतं
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ५॥
कल्पान्ते तु चराचरेऽथ भुवने नष्टे समस्ते पुनः
गम्भीरेण तथामितेन तमसा व्याप्ते च दिङ्मण्डले ।
योऽसौ भाति तथा विभुर्वितिमिरस्तेजः स्वरूपोऽनिशं
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ६॥
लोके चात्र समाधिषट्कविकसद्दिव्यप्रबोधोज्ज्वल-
स्वान्ताः शान्ततमा जितेन्द्रियगणा धन्यास्तु संन्यासिनः ।
मुक्तिं यत्करुणालवेन सरसं सम्प्राप्नुवन्तीह ते
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ७॥
कृत्वा हन्त मखान्यथाविधि पुमान् स्वर्गेच्छया भूतले
तेषां तत्र फलं च पुण्यसदृशं भुङ्क्ते च नातोदिकम् ।
सेवा यस्य दधाति मुक्तिममलामानन्दसान्द्रां स्थिरं
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ८॥
स्वेनैवेह विनिर्मितं खलु जगत्कृत्स्नं स्वतो लीलया
स्वेनेदं परिपालितं पुनरिह स्वेनैव सन्नाशितम् ।
पश्यन्तो मुदितः प्रभुर्विलसति श्रेयोऽयनं सात्वतां
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ९॥
चित्ते यस्य तु यादृशी प्रभवति श्रद्धा निजाराधने
तद्वत्तत्परिपालनाय विहितश्रद्धाय विश्वात्मने ।
सच्चित्पूर्णसुखैकवारिधि लसत्कल्लोलरूपाय वै
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ १०॥
जयतु जयतु सोऽयं पद्मनाभो मुकुन्दः
निजचरणरतानां पालने बद्धदीक्षः ।
अविकलमपि चायुः श्रीसुखारोग्यकीर्तिः
प्रतिदिनमपि पुष्णन् स्वानुकम्पासुधाभिः ॥
एवं जगत्त्रयगुरोः कमलावरस्य
सङ्कीर्तनं गुणगणाब्धिलवस्य किञ्चित् ।
देवस्य तस्य कृपयैव कृतं मयेदं
सन्तो गृणन्तु रसिकाः किल सप्रमोदम् ॥
इति स्वाति तिरुनाळ् महाराजा विरचतम् श्रीपद्मनाभनतिदशकं सम्पूर्णम् ।
Encoded by P. P. Narayanaswami swami at mun.ca
Proofread by P. P. Narayanaswami, Psa Easwaran
The champU kAvyam, `syAnandUrapura varNana prabandham' penned by Maharaja
SvAti tirunAL of Travanacore/ Trivandrum, deals with the mammoth temple
of Lord PadmanAbha, the various temple rituals, pUja, and the festivals
associated with the temple, and so on. The work is a champU (prose
mixed with poerty) arranged in 10 stabakas, and in the last stabakam
(verses 15 to 26), the following prayer to Lord Padmanabha appears. It is
appropriately called `padmanAbha nati dashakam.' The verses, addressed
to Lord Padmanabha, follow the same style, construction and philosophy,
as that of Adi Sankara's `shrIdakshinamurthi Stotram.'
References :
1. `shri svAti tirunAL jIvitavuM kRithikaLum' (in malayalam)
by Dr. V. S. Sharma, National Book Stall, Kottayam (1985) - 1128 pages
2. `Sri Padmanabha Shatakam and Syanandurapura varnana Prabandham'
(Sanskrit text with Tamil commentary by V S V Gurunurrthi Sastrigal),
Swathi Tirunal Krithis Publication Committe, Trivandrum (1973) - 457 page
3. Syanandurapuravarnana Prabandha (Digital Library of India
99999990177833 ) Maharaja Ramavarmakulashekhara Perumal, with commentary
of Rajarajavarma Koil Tampuran, Edited by T. Ganapati Shastri, 1920,
228 pgs