श्रीपाण्डुरङ्गसुप्रभातंम्
उत्तिष्ठ पाण्डुरङ्गेश उत्तिष्ठ रुक्मिणीप्रिय ।
उत्तिष्ठोत्तिष्ठ सर्वेश त्रैलोक्यं मङ्गलं कुरु ॥ १॥
उत्तिष्ठोत्तिष्ठ गोविन्द नन्दानन्दविवर्धन ।
उत्तिष्ठ पण्ढरीनाथ भक्तकार्यं समाचर ॥ २॥
मातः पयोधितनये जगदादिभूते
ब्रह्मादिदेवजननि श्रितदुःखहन्त्रि ।
श्रीकृष्णनाथपदपङ्कजदास्यनिष्ठे
श्रीपाण्डुरङ्गदयिते तव सुप्रभातम् ॥ ३॥
सौन्दर्य-मार्दव-कृपादि-गुणालये च
मातः स्वभक्तजनकल्पलते प्रसन्ने ।
श्रीरुक्मिणीतिविदिते हरिलग्नचित्ते
श्रीपाण्डुरङ्गदयिते तव सुप्रभातम् ॥ ४॥
विघ्नेश-सूर्य-शिव-शक्ति-धनाधिपेश
वागीश-वायु-विबुधेश-मरुद्गणाद्याः ।
त्वद्द्वारिबद्धकरसम्पुटतः पठन्ति
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ ५॥
नारायणाङ्घ्रिसरसीरुहजा-सुनीला-
गोदावरी-शरयु-भीमसमुद्भवाङ्गाः ।
नद्यः प्रसन्नसलिला जगदुः प्रभाते
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ ६॥
प्रह्लाद-नारद-शुकार्जन-पुण्डरीक
व्यासाम्बरीष-बलि-शौनक भीष्ममुख्याः ।
त्वत्पादपद्म-मकरन्द-रसानुसक्ताः
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ ७॥
कूजन्ति कोकिलमिषेण मुदात्र सिद्धाः
नृत्यच्छिखण्डिमिषतो मुदमावहन्ति ।
गुञ्जारवेण मधुपाः पदपङ्कजरक्ताः
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ ८॥
त्वद्याम्य-पार्श्वगत-गोपिगणाङ्गनस्था
गाढानुरागभरतो बत मुक्तकेशी ।
सद्मस्थिताश्च मृदु केलिशुकाः पठन्ति
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ ९॥
त्वत्सङ्गिसङ्गिजनसङ्ग-मनीषया च
त्वत्पादधूलिकणमज्जनलब्धुकामाः ।
देवास्त्वदत्रनगरे तृणलोष्टदेहाः
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १०॥
वाय्व्ग्निशक्रविधिशङ्करसोममुख्या
देवाः ससिद्ध-ऋषिकिन्नरबन्दिमुख्यैः ।
त्वत्क्षेत्रवाससमुपासनलालसा वै
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ ११॥
सौवर्णपद्म-करवीर-सुपारिजाताः
खर्जूर-चूत-बदरी-सुकपित्थवृक्षाः ।
त्वां स्वीयपुष्पफलसम्भृतो उअजन्ति
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १२॥
यस्याङ्घ्रिकञ्जयुगसम्भवसीधुपान
पुष्टान् विलोक्य सुजनान् विबुधा लषन्ति ।
मर्त्येजनुर्निरतिशायि-सुखाप्ति-हेतु
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १३॥
पित्रोश्च सेवनरतं निजभक्तवर्यं
श्रीपुण्डरीकमनघं शुभकृत्तमं तम् ।
पुष्ट्वा वरैर्वससि देव सदास्य भूमौ
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १४॥
माण्डव-कण्व-ऋभु-शङ्ख-मृकण्डसूनु-
व्यासात्रि-कश्यप-वसिष्ठ-पराशराद्याः ।
क्षेत्रप्रदक्षिणकराः प्रवदन्त्य्युषायां
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १५॥
त्वन्मन्दिरस्थशिखराग्रनिरीक्षणेन
तत्प्राप्तवारि-निकरेषु सुमज्जनेन ।
प्राप्ताः कृतार्थपदवीं स्तवमुज्जगन्ति
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १६॥
पद्मं च कुण्डलमथापि च चन्द्रभागा
तीर्थानि पापहरणानि सुपुण्यदानि ।
त्वत्क्षेत्रभूमिमधिगम्य रटन्ति कल्ये
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १७॥
श्रीनारदः सरसिसम्भवजातजाया
दुर्गा च विश्वजननी भुवनेश्वरी च ।
त्वद्द्वारदेशमधिकृत्य पठन्त्युषस्सु
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १८॥
श्रीपाण्डुरङ्ग हरवन्द्य त्रिदष्ट्रघातिन्
श्रीपुण्डरीकमुनिवर्य-वरप्रदायिन् ।
श्रीरुक्मिणीश बलदेवसुपूजिताङ्घ्रे
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १९॥
मन्दातिमन्दमतिपापरताल्पचित्त
संसारसागरसमुद्धरणावतीर्ण ।
मायापते यदुपते जगदेकबन्धो
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २०॥
श्रीपाण्डुरङ्ग निख्लेश धनुर्धरोऽसि
क्षेत्रं धनुः शरवरस्तव चन्द्रभागा ।
लक्ष्यं समस्तशमलं निजबोधनाश्यं
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २१॥
उत्कर्षिनी च विमला च क्रियाऽथ ज्ञाना-
योगा तथा वितथताऽनुग्रहेशना च ।
प्रह्वीतिशक्तिनवकं गिरति स्तवं ते
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २२॥
श्रीपुण्डरीकमुनिदत्तमृदासने ते
पादारविन्दयुगलं सममेव नाथ ।
नासाग्रदृष्टि-कटिहस्ततया स्थितोऽसि
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २३॥
श्रीवत्ससन्मकरकुण्डलकौस्तुभाश्च
पीताम्बरं तुलसिदाम दरोथ पद्मम् ।
एतानि भूषवराणि तवाश्रितानि
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २४॥
आषाढकार्तिकसिते तव देव यात्रा
चैकादशीव्रतमलं हरिनामद्घोषः ।
एतैः प्रसीदसि सदा भगवन् स्वभक्तान्
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २५॥
निर्माण-रक्षण्-विनाशकरोस्यथापि
कर्तृत्वभावरहितोऽसि-सदाव्ययोऽसि ।
श्रीरामकृष्णनरसिंहकृतावतार
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २६॥
श्रीपौण्डरीकनगरं किल चन्द्रभागा
श्रीविष्णुपाद-सुषमा पुलिनं च नद्याः ।
एतत्त्वदीयवसतेः शुभनामशेयं
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २७॥
ज्ञानेश्-नाथ-जगमित्र-तुका-निळोबा
नामा-जनी-सखु-मीरादि-समस्त-सन्तः ।
श्रीविठ्ठलेश तव पादयुगं प्रपन्नाः
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २८॥
अस्मत्कुलाग्रजननास्तव भक्तवर्या
गुण्डाख्यसद्गुरुवराश्च तदीय वंश्याः ।
सर्वे प्रभातसमये प्रपठन्ति नित्यं
श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २९॥
श्रीपण्ढरीपुरपतेरिह सुप्रभातं
ये श्रद्धयाप्रतिदिनं मनुजाः पठन्ति ।
ते पाण्डुरङ्गकृपया हरिपादपद्म-
भक्तिं समाप्य निजबोधयुता भवन्तु ॥ ३०॥
तव विठ्ठल दसोऽहं चन्द्रशेखरनामभाक् ।
सुप्रबातस्तवं भक्त्या त्वत्कृपार्थं समर्पये ॥ ३१॥
श्री चन्द्रशेखरमहाराज देगलूरकरविरचितं
श्रीपाण्डुरङ्गसुप्रभातं सम्पूर्णम् ॥
पुण्डलीकवरदा हरि विठ्ठल ।
श्रीज्ञानदेव-तुकाराम ।
सद्गुरु गुण्डमाहाराज की जय ।
सद्गुरु हरिमाहाराज की जय ।