निर्वेदतारावली
तर्केषु कर्कशतरापि मदीयवाणी नैवोज्जहाति मृदुतां कविताप्रसङ्गे ।
दंष्ट्राग्रमुद्भटसुरारिगिरीन्द्रभेदि कान्ताधरे नरहरेः सुकुमारमेव ॥ १॥
कदा वा सुस्नातो जलनिधिसुतानाथचरण-
द्वयाम्भोजश्रद्धासुरसरिति शुद्धात्महृदयः ।
दुहानं निर्वाणं वसुतिलकमष्टाक्षरमनुं
मुदा जापाञ्जापं निमिषमिव नेष्यामि दिवसान् ॥ २॥
कदा वा निर्लज्जं सुखतदितरे चापि तुलयन्
समो निन्दास्तुत्योरपि कलितशीतोष्णसहनः ।
प्रकृत्येवोन्मत्तो दनुजरिपुनामानि बहुधा
जपञ्छृण्वन् गायन् निमिषमिव नेष्यामि दिवसान् ॥ ३॥
कदा वा सम्मोहान् विषयजनितान् बुद्बुदनिभान्
धिगित्येतानल्पान् जडजनमनोमोहनफलान् ।
परित्यज्य प्राज्ञैर्मुररिपुपदाब्जैकशरणैः
परिष्वक्तः सुख्यन् निमिषमिव नेष्यामि दिवसान् ॥ ४॥
कदा वा संसर्गं परमपुरुषध्यानविमुखैः
सुखभ्रान्त्या पङ्के महति निपतद्भिः परिहरन् ।
सतां सङ्गाज्जानन्नथ च हरिदास्यैकविभवं
स्वमात्मानं हृष्यन् निमिषमिव नेष्यामि दिवसान् ॥ ५॥
कदा वा दीनोऽपि प्रबलदनुजारातिचरण-
द्वयाम्भोजश्रद्धाकवचखचिताङ्गो गतभयः ।
अपेहि त्वं दूरं यमभट वृथा ते प्रहरणं
मयीति व्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ६॥
कदा वा सत्कर्माण्यनुदिनमुदारेण मनसा
यथाशक्त्यातिष्ठन् हरिचरणयोरर्पितफलः ।
सुधीभिस्त्रय्यन्तप्रवणमतिभिः साधु विमृशन्
गुरूणां श्रीसूक्तीर्निमिषमिव नेष्यामि दिवसान् ॥ ७॥
कदा वा वेतालीं द्रुहिणशतपूर्णायुरवधिं
विवेकं धुन्वानां विफलधनचिन्तां विजहति ।
नवादर्शस्वच्छे मम मनसि नाथे प्रतिफल-
त्यमन्दानन्दोऽहं निमिषमिव नेष्यामि दिवसान् ॥ ८॥
कदा वा दावाग्नेर्मृग इव हरिद्वेषिजनता-
मुखालोकाद् भीतो भगवदनुभूत्याहितहृदाम् ।
सतां तु प्रेक्षातः कुवलयदृशां कामुक इव
प्रहर्षादुन्मत्तो निमिषमिव नेष्यामि दिवसान् ॥ ९॥
कदा वा जित्वारीन् षडपि परवृत्त्याहमसतां
कथायामुत्तीर्णो निपुणगणनां प्रागिव ततः ।
सतामेव प्राप्तस्त्रिदशमहितैर्दास्यविभवै-
रमीषां निर्विष्टैर्निमिषमिव नेष्यामि दिवसान् ॥ १०॥
कदा वा घोरेभ्यो जठरपिठरापूरणकृते
कृतेभ्यः पापेभ्यो निरयजनकेभ्योऽतिचकितः ।
हरे लक्ष्मीकान्त द्विरदवरबन्धो मधुरिपो
दयस्वेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ११॥
कदा वा कान्तारे विषमविषयाख्ये तत इतो
यथेच्छासञ्चारात् कथमपि निवर्त्याङ्घ्रियुगले ।
मुरारेरालाने हृदयमुरुदन्तावलमिमं
निरुन्धन् निष्पन्दं निमिषमिव नेष्यामि दिवसान् ॥ १२॥
कदा वा मांसासृङ्मयवपुषि सम्प्रोषितरुचि-
स्तटित्कल्पे स्वल्पे त्रिदशनिलयोत्थेऽपि च सुखे ।
महानन्दब्रह्मानुभवकुतुकी कालगणना-
समासक्तो नित्यं निमिषमिव नेष्यामि दिवसान् ॥ १३॥
कदा या कामाद्यैरनुपहतचित्तेन मुरजित्-
पदैकालम्बेन प्रशमनिधिना केनचिदिह ।
क्वचिज्जुष्टे देशे कृतवसतिरन्यानधिगते
तदीयैः संलापैर्निमिषमिव नेष्यामि दिवसान् ॥ १४॥
कदा वा नाथैकप्रवणहृदयेषु त्रिकरणैः
स्वसत्तालोपादेर्जनितमपराधं परिहरन् ।
प्रभोराज्ञासेतोः सकृदपि महानिग्रहफलाद्
विभेदात् सन्त्रस्तो निमिषमिव नेष्यामि दिवसान् ॥ १५॥
कदा वा खण्डेन्दुप्रतिमनखरेखांशुलहरी-
परीवाहैः शश्वन्मनसि विमलैः क्षालितमलः ।
गलत्सम्मोहाश्रु प्रकटपुलकं चापि चरणौ
हरेर्ध्यायन्ध्यायं निमिषमिव नेष्यमि दिवसान् ॥ १६॥
कदा वा कंसारेश्चरणपरिचर्याप्रणयिनां
सतां सङ्गं लब्ध्वा सुकृतपरिपाकैकसुलभम् ।
पवित्रं चित्रं तच्चरितममृतस्यन्दसुभगं
ततः श्रावंश्रावं निर्मिषमिव नेष्यामि दिवसान् ॥ १७॥
कदा वा कालिन्दीतटपरिसरे वेणुनिनदैः
पवित्रे सुत्रामप्रभृतिमहिते वल्लवशिशोः ।
जनित्वा बन्धूको वकुलविटपी वाथ कुटज-
स्त्रिभिस्तापैस्त्यक्तो निमिषमिव नेष्यामि दिवसान् ॥ १८॥
कदा वा गोपीनां करकमलसंवाहनविधि-
क्षमं श्रुत्यन्तेषु प्रथितविभवं वल्लवशिशोः ।
पदाम्भोजं श्रीमद्विजयरथभूषायितमहं
हृदि प्रेम्णा रुन्धन् निमिषमिव नेष्यामि दिवसान् ॥ १९॥
कदा वा सन्त्रस्तो विषमविषयाहीन्द्रपटलात्
पुमांसं प्राचीनं रविकुलनरेन्द्रं शरणयन् ।
अये पाहि स्वामिन् सकृदवनतत्राणकुतुक
प्रसीदेति क्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ २०॥
कदा वा सामोदैर्मरकतशिलाभङ्गसुभगै-
र्वनात् स्वेनानीतैस्तुलसिदलवृन्दैरभिनवैः ।
समभ्यर्च्य श्रीमद्रघुपतिपदत्राणयुगलं
दधानो मूर्ध्नाहं निमिषमिव नेष्यामि दिवसान् ॥ २१॥
कदा वा सद्वृत्तो जगति गणनीयो धुरि सतां
स्थिरप्रज्ञः श्रीमान् भरत इव सन्त्यज्य ममताम् ।
गृहारामक्षेत्रादिषु रघुपतेस्तानि चरणे
समर्प्य स्वस्थोऽहं निमिषमिव नेष्यामि दिवसान् ॥ २२॥
कदा वा गभ्भीरे प्रकृतिमरुकान्तारजठरे
वृथा यातायातैः श्रममधिगतः केवलमहम् ।
गुणारामे रामे सकलसुलभायां गुरुकृपा-
सुधावाप्यां मज्जन् निमिषमिव नेष्यामि दिवसान् ॥ २३॥
कदा वा वैदेहीरमणचरणन्याससुभगे
मरुत्पोताक्रान्ते महति सरयूरोधसि वसन् ।
मनुं श्रीरामेति प्रणतजनचिन्तासुरतरुं
जपञ्छश्वद् भक्त्या निमिषमिव नेष्यामि दिवसान् ॥ २४॥
कदा वा साकेते सकलजगदंहः प्रशमनं
रजः स्रस्तं वीथ्यां रघुकुलपतेरङ्घ्रिजलजात् ।
प्रतीकेष्वालिम्पन् निटिलभुवि कुर्वेंश्च तिलकं
वहन् मूर्ध्ना धन्यो निमिषमिव नेष्यामि दिवसान् ॥ २५॥
कदा वा साकेते रथचरणशङ्खाङ्कुशयव-
ध्वजाम्भोजच्छत्राङ्कितचरणमुद्रापरिचयैः ।
प्रतोल्यां पुण्यायां रघुकुलसुधांशोः परिलुठन्
सुरेन्द्रैर्लाल्योऽहं निमिषमिव नेष्यामि दिवसान् ॥ २६॥
कदा वा रक्ताम्भोरुहदलसुवर्णाङ्गुलितलं
नमन् नाकिश्रेणीमकुटमणिरोचिःशबलितम् ।
पदं सीताजानेः कनकमयपीठे विनिहितं
दृशा साक्षात्कुर्वन् निमिषमिव नेष्यामि दिवसान् ॥ २७॥
कदा वापादाग्रं रघुतिलकमाचूडमुचितै-
रनर्धैर्लावण्यैरिव विलसितं भूषणगणैः ।
चिरं दर्शन्दर्शं प्रमदभरनिःष्पन्दनयनः
कृतार्थम्मन्योऽहं निमिषमिव नेष्यामि दिवसान् ॥ २८॥
इति श्रीकौशिकरङ्गनाथसूरिकृता निर्वेदतारावली समाप्ता ।
स्तोत्रसमुच्चयः २ (६३)
The nirvedatArAvalI (63) is a fine specimen of
devotional lyric expressing the yearning of the
devotee to be constantly engaged in the service
of the Lord repeating his names.
Proofread by Rajesh Thyagarajan