निरोधलक्षणम्
यच्च दुःखं यशोदाया नन्दादीनां च गोकुले ।
गोपिकानां तु यद्दुःखं तद्दुःखं स्यान्मम क्वचित् ॥ १॥
गोकुले गोपिकानां च सर्वेषां व्रजवासिनाम् ।
यत्सुखं समभूत्तन्मे भगवान् किं विधास्यति ॥ २॥
उद्धवागमने जात उत्सवः सुमहान्यथा ।
वृन्दावने गोकुले वा तथा मे मनसि क्वचित् ॥ ३॥
महतां कृपया यावद्भगवान् दययिष्यति ।
तावदानन्दसन्दोहः कीर्त्यमानः सुखाय हि ॥ ४॥
महतां कृपया यद्वत्कीर्तनं सुखदं सदा ।
न तथा लौकिकानां तु स्निग्धभोजनरूक्षवत् ॥ ५॥
गुणगाने सुखावाप्तिर्गोविन्दस्य प्रजायते ।
यथा तथा शुकादीनां नैवात्मनि कुतोऽन्यतः ॥ ६॥
क्लिश्यमानाञ्जनान्दृष्ट्वा कृपायुक्तो यदा भवेत् ।
तदा सर्वसदानन्दहृदिस्थं निर्गतं बहिः ॥ ७॥
सर्वानन्दमयस्यापि कृपानन्दः सुदुर्लभः ।
हृद्गतः स्वगुणाच्छ्रुत्वा पूर्णः प्लावयते जनान् ॥ ८॥
तस्मात्सर्वं परित्यज्य निरुद्धैः सर्वदा गुणाः ।
सदानन्दपरैर्गेयाः सच्चिदानन्दता ततः ॥ ९॥
अहं निरुद्धो रोधेन निरोधपदवीं गतः ।
निरुद्धानां तु रोधाय निरोधं वर्णयामि ते ॥ १०
हरिणा ये विनिर्मुक्तास्ते मग्ना भवसागरे ।
ये निरुद्धास्त एवात्र मोदमायान्त्यहर्निशम् ॥ ११॥
संसारावेशदुष्टानामिन्द्रियाणां हिताय वै ।
कृष्णस्य सर्ववस्तूनि भूम्न ईशस्य योजयेत् ॥ १२॥
गुणेष्वाविष्टचित्तानां सर्वदा मुरवैरिणः ।
संसारविरहक्लेशौ न स्यातां हरिवत्सुखम् ॥ १३॥
तदा भवेद्दयालुत्वमन्यथा क्रूरता मता ।
बाधशङ्कापि नास्त्यत्र तदध्यासोऽपि सिद्ध्यति ॥ १४॥
भगवद्धर्मसामर्थ्याद्विरागो विषये स्थिरः ।
गुणैर्हरेः सुखस्पर्शान्न दुःखं भाति कर्हिचित् ॥ १५॥
एवं ज्ञात्वा ज्ञानमार्गादुत्कर्षो गुणवर्णने ।
अमत्सरैरलुब्धैश्च वर्णनीयाः सदा गुणाः ॥ १६॥
हरिमूर्तिः सदा ध्येया सङ्कल्पादपि तत्र हि ।
दर्शनं स्पर्शनं स्पष्टं तथाकृतिगती सदा ॥ १७॥
श्रवणं कीर्तनं स्पष्टं पुत्रे कृष्णप्रिये रतिः ।
पायोर्मलांशत्यागेन शेषभागं तनौ नयेत् ॥ १८॥
यस्य वा भगवत्कार्यं यदा स्पृष्टं न दृश्यते ।
तदा विनिग्रहस्तस्य कर्तव्य इति निश्चयः ॥ १९॥
नातः परतरो मन्त्रो नातः परतरः स्तवः ।
नातः परतरा विद्या तीर्थं नातः परात्परम् ॥ २०॥
इति श्रीवल्लभाचार्यविरचितं निरोधलक्षणं समाप्तम् ।
Proofread by PSA Easwaran