श्रीनरसिंहस्तोत्रम् २
%३६
जय जय भयहारिन् भक्तचित्ताब्जचारिन्
जय जय नयचारिन्दृप्तमत्तारिमारिन् ।
जय जय जयशालिन्पाहि नः शूरसिंह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ १॥
असुसमरधीरस्त्वं महात्मासि जिष्णो
अमरविसरवीरस्त्वं परात्मासि विष्णो ।
सदयहृदय गोप्ता त्वन्न चान्यो विमोह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ २॥
खरतरनखरास्त्रं स्वारिहत्यै विधत्से
परतरवरहस्तं स्वावनायैव धत्से ।
भवभयभयकर्ता कोऽपरास्ताक्ष्र्यवाह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ ३॥
असुरकुलबलारिः स्वेष्टचेतस्तमोऽरिः
सकलखलबलारिस्त्वं स्वभक्तारिवैरी ।
त्वदित स इनदृक् सत्पक्षपाती न चेह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ ४॥
सकलसुरबलारिः प्राणिमात्रापकारी
तव भजकवरारिर्धर्मविध्वंसकारी ।
सुरवरवरदृप्तः सोऽप्यरिस्ते हतो ह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ ५॥
दहनादहहाब्धिपातनाद्गरदानाद्भृगुपातनादपि
निजभक्त इहावितो यथा नरसिंहापि सदाव नस्तथा ॥ ६॥
निजभृत्यविभाषितं मितं खलु कर्तुं त्वमृतं दयाकर
प्रकटीकृतमिध्ममध्यतो निजरूपं नरसिंह धीश्वर ॥ ७॥
नाराधनं न हवनं न तपो जपो वा
तीर्थं व्रतं न च कृतं श्रवणादि नो वा ।
सेवा कुटुम्बभरणाय कृतादिदीना
दीनार्तिहन् नरहरेऽघहरे ह नोऽव ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीनरसिंहस्तोत्रं सम्पूर्णम् ।