नृसिंहारात्रिकम्
वन्दे वन्दितपादं भजतां सुखकन्दं
यत्पदनखकररञ्जितमुकुटं सुरवृन्दम् ।
यच्चरणार्पिततुलसी श्रीमन्मकरन्दं
वेदं गायति भजते षट्पदमुनिवृन्दम् ॥
जयदेव जयदेव नृहरे गुणनिलया ।
पालय मामतिदयया नृहरे श्रमनिलया ॥ जयदेव ॥ १॥
वासितकृष्णासुतटं सिद्धेश्वरनिकटं
वारिततृष्णा कपटं भक्तार्पितसुपटम् ।
श्रीधृतसत्कटिसुतटं विदितासुरकपटं
शोभितमस्तकसुसटं यन्मुखमति विकटम् ॥ जयदेव ॥ २॥
केसरमण्डिततुण्डं बहुपूरितगण्डं
चक्राद्यङ्कितदण्डं दुष्टार्पितदण्डम् ।
उदरार्पितगजदण्डमसुराधिपचण्डं
प्रह्लादार्पितपिण्डं कमलाधिकमुण्डम् ॥ जयदेव ॥ ३॥
संसाराम्बुधिघूर्णोद्धारं मां तूर्णं
सुतदारैरतिजीर्णं कल्मषगिरिचूर्णम् ।
अश्वत्थात्मकपूर्णं शोभितबहुपर्णं
रूपं भजतां नः स्याद्यामवातकिरणम् ॥ जयदेव ॥ ४॥
कमलोद्भवकमलाकरवन्दितपदकमलं
करकमलोद्धृतकमलं नाशितकलिजमलम् ।
हृतविधिमुखहृत्कमलममलीकृतविमलं
माधवमधुकरकमलं वारित निजशमलम् ॥ जयदेव ॥ ५॥