श्रीनृसिंहस्तोत्रम्
शैलाग्रावासलोलः प्रणतजनसुखापारवाराशिसोमः
कारुण्याम्भोधिवेलीकृतनिजहृदयश्चन्द्रकोटिप्रकाशः ।
छत्रीभूताहिनाथो वरभयहरभृच्चक्रहस्तः पिनाकी
प्रह्लादप्राणभूतस्तिरयतु तमसां स्तोममायुष्मतस्ते ॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीनरसिंहस्तोत्रं समाप्तम् ।
इति शिष्याशीर्वचनात्मकस्तवाः सम्पूर्णाः ।
Proofread by PSA Easwaran