श्रीनृसिंहशतकम्
चण्डब्रह्माण्डभाण्डभ्रमणभरबृहद्धोषनिर्घातदैर्घ्यै-
दुर्दैत्यव्याघ्रशीघ्रप्रमथनकथनं सर्वदिक्षु प्रकुर्वन् ।
कौटिल्यक्रूरदंष्ट्रोत्कटचटुलनटत्प्रह्वजिह्वामहोल्कः
प्रह्लादाह्लादहेतुर्दहतु मम महद्रंहसांहो नृसिंहः ॥ १॥
नैष्ठुर्यौजस्विचण्डत्रिदशगिरिमहादण्डसन्ताड्यमान-
ब्रह्माण्डातोद्यभाण्डोड्डमररवसुहृद्भावसम्भावनीयः ।
रुष्टेन्द्रद्वेष्टमुष्टिद्रुघणहतसभामण्डपस्तम्भगर्भा-
दाविर्भूतो विभूत्यै भवतु नरहरेरादिघोषो विशेषात् ॥ २॥
देवद्वेष्ट्ट्प्रवेष्टोद्भटमदविटपिभ्रंशघोषाभिघोरो
दैत्येन्द्रश्रीप्रकोष्ठोत्कटकटकघटाकूजकूटायमानः ।
निर्घोषो दुर्घटं द्राग्घटयतु विकटप्रेतराड्द्वाःकवाटो
द्धाटाट्टध्वानकल्पः प्रकटकटकटाकाटवोत्पाटवोऽसौ ॥ ३॥
अंहःसङ्घातघातं घटयतु निनदो रंहसा नारसिंहः
स्वर्गस्त्रीवर्गरङ्गस्थलपदकलनानन्दिनान्दीनिनादः ।
दैत्येन्द्रापत्यतत्युत्तममहिमभरोद्दामसौभाग्यभेरी-
भाङ्कारो दिग्द्विदन्तश्रुतिचलनकलाध्यायसन्ध्याब्दशब्दः ॥ ४॥
ऊर्मि प्रेङ्खोलखेलामुखरजलनिधिध्वानगानातिपीनः
क्रोधक्रूरस्य शक्रद्विषि हरिवपुषश्चक्रपाणेः प्रघोषः ।
कल्याणं लोकपाल्या विरचयतु हरित्कुञ्जरश्रोत्रपाल्या
बाल्यप्राबल्यशाल्याशुगविकृतिहृतेः श्लाघितो दानपाल्या ॥ ५॥
संवर्ताम्भशुम्भज्जलदकुलगलस्तम्भिगम्भीरताभृ-
न्मन्थाद्रिक्षुब्धदुग्धाब्धिजनिनदविधाजग्धिवैदग्ध्यदिग्धः ।
सम्भूयोज्जृम्भमाणे सुघटधनघृणो दीर्घनिर्घातवर्गे
शीघ्रं निर्घोष एष स्फुरतु हृदि बृहद्धर्घराघोर ऐशः ॥ ६॥
मोहं सौवर्गवर्गे महति बहलयन द्राङ्महर्गेहभाजां
निष्पीतश्रोतगीतो नु सनकजनकश्रोत्रबाधिर्यधुर्यः ।
दिक्कुम्भिस्तम्भकारी प्रतिनिनदसमुत्तालपातालतालु-
श्चण्डो ब्रह्माण्डभेदी भवतु हरिरवः श्रेयसे भूयसे वः ॥ ७॥
ऊर्ध्वप्रोद्धृतधूमध्वज ऋजुज्वालमणिक्यदण्डं (विमलज्वालमणिक्यदण्डं)
नीलपालम्बलीलप्रचलितरसनाराजिविभ्राजिबिम्बम् ।
दीव्यद्दर्वीकरोर्वीपतिविततफणाश्रेणिनिर्माणमन्तः
निर्मायं भावयामः प्रभुशिरसि बृहत्तापमुक्तापहत्यै ॥ ८॥
क्षोणीभृत्पक्षपातादनुनृहरितनुक्षिप्यमाणैर्वितानैः
बाणैर्वैमुख्यलक्ष्यैः श्वसितपवनतः क्षुण्णतत्कण्ठलक्षम् ।
उद्वर्णैर्मण्डलाग्रैरपि चरमचरे खण्डनायारिषण्डे
लाङ्गूलोच्चण्डदण्डं दधदवतु विपन्मण्डलात्कुण्डलीन्द्रः ॥ ९॥
उद्दण्डैर्ज्वालषण्डैर्ज्वलदनलदृशोऽजाण्डदण्डोर्ध्वखण्ड-
स्फोटो भावीति भीत्या प्रथितपृथुफणश्रेणिविस्तारितश्रीः ।
उर्वीवाहो विनेकार्बुदकुलकलनामौलिनिष्ठप्रतिष्ठः
शीघ्रं नो दीर्घपृष्ठप्रभुरभयभृतो भूषणं भावनीयः ॥ १०॥
अग्रप्रोदप्रजाग्रन्मणिगणकिरणैस्तारकोन्मेषचोरं
नीचैरुच्चैरुदञ्चद्विततपृथुफणश्रेणिशाखासहस्रम् ।
लग्नैरग्निस्फुलिङ्गैः स्फुटरुचि निटिलाक्ष्णोऽप्यभीक्ष्णं तथाधः
क्रष्टा कष्टानि दृष्टं फणिपतिमुकुटं कूटसिंहोपरिष्टात् ॥ ११॥
सोमस्पर्शात्प्रकर्षं प्रवहति दधती यक्षिणीचित्रलक्ष्मीं
यत्राभाते यदन्तर्विलसति सततं गुह्यकेशप्रसारः ।
गङ्गाम्भश्शुभ्रमभ्रङ्कषशिवशिखरभ्राजितं राजताद्रेः
देवस्योपर्यहीनोर्जितफणपटलं पाटयेत् सङ्कटं नः ॥ १२॥
पायादाकाशकाशोज्ज्वलकुसुमसज्योतिरुज्जृभिताग्रा
प्रत्यग्रप्राग्रथमुक्ताफलखचितशिखस्वर्णसूचीसखीना ।
क्षुद्रच्छिद्रालिमुद्राविधुपरिधिवलच्चालिनीशालिनीतिः
लीलापारीन्द्रमूर्तेरतिपरुएरुषो भासुरा केसराली ॥ १३॥
वैकुण्ठोत्कण्ठितानामणिमगुणजुषां प्राणिनां प्रीतिभाजां
गात्रादुत्क्रान्तमात्रे सुखमयनिलयप्रापणायापयत्नम् ।
ब्रह्माण्डस्योर्ध्वखण्डेऽरचिषत सृतयो निःसृतैर्यैर्विदार्य-
च्छौर्यं हर्यक्षमू र्तेर्निदधतु हृदि ते केसरा भासुरा नः ॥ १४॥
हृत्कुण्डान्तःप्रचण्डप्रतिघहुतवहश्रीशिरोरोमकूप-
स्तूपद्वारोद्यदंशुस्तबक इति जने बिभ्रति भ्रान्तिमुच्चैः ।
विद्युज्ज्वालावलीजप्रतिभयरसनाच्छिन्नचाञ्चल्यसम्प-
ल्लुम्पेत् प्रत्यूहमत्यूर्जितमिह नृहरेर्भासुरा केसरालिः ॥ १५॥
यैरासीद्यैत्यहत्याहृषितहृदमरश्रेणिपूजावितीर्ण-
प्रोन्मीलन्मल्लिपुष्पस्तबकितशिखरस्वर्णदूर्वासवर्णैः ।
विद्युल्लेखासदृक्षैर्नरहरशिरसि स्थूलनक्षत्रलक्षै -
र्लक्ष्मीरक्ष्मीलभावं विदधतु वृजिनोज्जासने केसरास्ते ॥ १६॥
स्वीयश्रीलेशचौरीश्चिरमचिररुचः स्वोदरोदारदर्यां
पर्याप्तीकृत्य गोप्तुं नभसि घनघटां कोटिकुन्तच्छटाभिः ।
निर्यत्कीलालकुल्यं किल परुषरुषा पाटयन्तीव चेतो
दैत्योरःपाटनाटीकपटहरिसटाधाटिकाटीकतां नः ॥ १७॥
सप्तार्चिर्मित्रसूत्रत्रुटनसुरसृतिस्रस्तनक्षत्रमाला
मल्लीजालाभिसृष्टिद्विगुणितसुमनस्सृष्टिसन्तानवृष्टिः ।
सन्ध्यासम्बध्धशोणम्बुदपटलपटीपाटनक्षेपलक्ष्मी-
रज्यत्काष्ठावधूटीकपटहरिसटास्फाटिकाधूतिरव्यात् ॥ १८॥
स्तब्धाकल्पाब्ध्यनल्पोच्चलदुरुलहरीघोषकल्पादसीय-
ध्वानादव्यक्तभक्तस्तुतिपदसदयग्राहिका साग्रहेव ।
रीत्या साजात्यभाजामतिपरुषरुषामिन्द्रियाणां चतुर्णां
सङ्कोचं लज्जयेवोर्जितमतिदधती पातु कर्णद्वयी नः ॥ १९॥
द्रष्टणां दृष्टिसृष्टेरुपरिकृतभयाविष्टतावृष्टिरुष्टे
न्द्रद्वेष्ट्ट्क्लिष्टजुष्टस्मरणनिजजनानिष्टमुष्टिन्धयं तत् ।
लीलाशैलाटमूर्तेरतिपरुषरुषोद्धाटयत्पाटलश्री-
घाटं विष्णोर्ललाटस्थलमतिविकटं पाटयेत् सङ्कटं नः ॥ २०॥
नृत्यत्कृल्यावलीव प्रलयसमुदयत्कालरात्रीव खेल-
च्चामुण्डामण्डलीवाट्टहसितविकटोत्तालिवेतालिकेव ।
उद्रिङ्गद्रौद्रलक्ष्मीरिव किमुत बृहद्भैरवोद्भासिगर्भा ।
भ्रश्यत्स्वर्भानुवर्गा ध्रुवमवतु विभोर्भीषणा भालभित्तिः ॥ २१॥
उद्यन्निर्धूमधूमध्वजमयनयनाङ्गारधान्याश्रितासौ
तत्तिर्यङ्निर्यदर्चिर्निचयपरिचयेनेव रक्तावसिक्ता ।
साचिव्यक्तत्रिरेखीवलिविलयवती सूतकालाग्निरुद्रे-
वेदानीमेव देवप्रवर तव हरे पातु भालस्थली नः ॥ २२॥
नृत्यन्ती कालरात्रीकरतलविचलत्साचिशूलानुकूला
मुद्रा विद्राविरौद्रान्बुनिधिनाधिवलल्लोलकल्लोललीलाम् ।
बिभ्रत्येतन्मुखान्तःसमुपगतमहाकोपसोपानपालि-
र्गोपायेन्नस्त्रिरेखी निटिलसहचरी चित्रपारीन्द्रमूर्तेः ॥ २३॥
गाङ्गेयाभिख्यया यज्जगति यदुदितं शान्तनुस्फारमोदे
पार्थोनायोधनश्रीरपि यदधिपये चोर्ध्वतेजःप्रसिद्धिः ।
यस्यास्ते कृष्णवर्त्मानुसृतिपरमहो भालतारातिदाहि
भ्रूवल्लीमध्यनेत्रं नरहरिवपुषो नौमि भीष्मस्वरूपम् ॥ २४॥
रुक्षाभिखयां विवस्वद्रथचरणरयक्षुण्णरूक्षेऽन्तरिक्षे
स्फारं स्फारं स्फुरद्भिर्विदधति बहलैरुत्पतद्भिः स्फुलिङ्गैः ।
रूक्षश्रेणीसदृक्षे क्षिपति दिशि दिशि ध्वान्तजाले शिखोल्का-
माला लालाटनेत्रे विहरतु नहरेस्तत्र चित्रे मर्तिनः ॥ २५॥
हृष्टान् वृष्टप्रसूनान्नभसि दिविषदो नूत्नरत्नप्रसूनैः
स्फूर्जत्फुल्लरफुलिङ्गैः सुहृदि हिमहिमैर्ज्वालहस्तैरुदस्तैः ।
शीघ्रं प्रत्यर्घदिर्घीकरणबहुगुणे मज्जयल्लज्जिब्धौ
नेत्रं सद्वीतिहोत्रं दहतु नरहरे रंहसांह स्तृणानि ॥ २६॥
वेल्लजिह्वोल्बणेन प्रचलितबहलज्वालजिह्वासहस्रं
स्फारस्फूर्जत्स्फुलिङ्गस्फुटमणिपटलं प्रांशुरत्नांशुभासा ।
सार्धं मोर्ध्वर्ध्वासिन्धुस्थलवसतिजुषा भोगिमूर्धाभिषिक्ते-
नाबद्धस्पर्धमद्धावतु हरिनयनं भालभद्रासनेद्धम् ॥ २७॥
लोके वारप्रवृत्तिः समुदयति यतः सन्नराजीवचित्ते
बिभ्राणश्चक्रबन्धूकरणकुतुकितां यो निशाशेषभातः ।
नित्यं धत्ते सदृक्षोदयमनुविनतानन्दनोल्लासधारी
सश्रीपारीन्द्रमूर्तेरपहरतु तमो भालहग्बालहेलिः ॥ २८॥
चूडापातालपालोल्बणमणिकिरणाकर्षणोदञ्चितैत-
स्फूर्जत्फूङ्कारसङ्कोचितविततशिखापाणिरभ्यासभाग्भ्याम् ।
सार्धं दृग्भ्यां सखीभ्यामिव कुतुकवशादंशुपांसुप्रपञ्चै-
रञ्चन्त्वन्योन्यखेलां जयति नरहरेर्भालदग्बालिकेयम् ॥ २९॥
खद्योतद्योतलेशो दिन इव न दरं द्योतते वैधुतोऽग्निः-
यस्याग्रे नोग्रभावाग्रहमपि वहते स ग्रहग्रामणीश्च ।
और्वो दुर्वारदुर्वासित इव विगलद्गर्वमम्भोधिगर्भे
लीनो यद्धेतिहीनो विहरतु नृहरेस्तत्र नेत्रे मतिर्नः ॥ ३०॥
यन्मित्रो वीतिहोत्रोऽप्यतिशयदहनाध्यायमध्यापितौ तौ-
शक्तौ सम्यग्ग्रहीतुं न किमपि निबिडोत्ताडितावंशुवेत्रः ।
एको रक्तावसेकादरुण इति गतः ख्यातिमन्योऽपि धाम्ना
दुःखाद्येवस्य तेजो गुरुनिटिलतटीलोचनं मोहयेन्नः ॥ ३१॥
लक्ष्मीवक्षोजकुम्भस्थलकृतललितालीकबाह्लीकलेपः
प्रह्वप्रह्लादमौलावतुलवलयिनी शोणशाटी यदर्चिः ।
रूक्षेन्द्रद्वेष्ट्ट्सृष्टेरुपरि निपतिता पावकास्त्रस्य वृष्टि-
र्द्यष्टिर्लालाटिकी नः कपटहरितनोः पाटयेत् सङ्कटं सा ॥ ३२॥
मञ्जिष्ठामञ्जुचेलव्यजनमिव वलत्तन्तुजालं समन्तात्
आस्यान्तर्लास्यवत्याः श्रमशमनकरं रोषलक्ष्मीयुवत्याः ।
घोणादण्डोपरिष्टात् प्रकटितमरुणं श्लिष्टशोणांशुवेष्टं
वृत्तं हन्ता नु दन्तावलदलनतनोरक्षि सन्तापमन्तः ॥ ३३॥
उद्वेल्लज्ज्वालवल्लीच्छलमृदुलचलच्छोणचेलाञ्चलश्री-
स्फारैः फुल्लैः स्फुलिङ्गैः खलु खचितशिखामन्दमन्दारवृन्दैः ।
स्वध्यातृणां नृणां साभयवरकरता कीर्तिता सिंहमूर्तेः
बन्धुकच्छायबन्धुच्छविरवतु विभोर्भैरवी भालदृष्टिः ॥ ३४॥
माद्यद् दुर्दानवोद्यन्मददलनफलं भक्तभूयोविपत्ति-
प्रत्यादेशं फलं चाकलयितुमसुरश्रेष्ठनिष्ठा फलं च ।
कोपश्रीपाटलायाः कपटनृहरिहृद्भ्राजभानोद्भवायाः
पुल्लत्फुल्लत्रयीवोल्लसतु मदशुभस्यापनेत्री त्रिनेत्री ॥ ३५॥
मायागन्धं निरुन्धन् भुवि पदकमलाभोगसम्पादहेतुः
संवादी तापदाने परमहिमकरेणात्तकारुण्यसम्पत् ।
यत्पातः शत्रुजाते सुहृदि च सदृशो दिव्यपारीन्द्रमूर्ते-
र्जैत्री सा नस्त्रिनेत्री भवभयविभवस्यापनेत्री भवित्री ॥ ३६॥
ज्वालावल्ली विशाला स्फुरति नरहरेर्भालनेत्रालवाले
तामेवोच्चैः स्फुलिङ्गस्फुटकुसुमघटां कोटि देशे दधाना ।
अद्धा यद्धेतुकोच्चावचफलपटलप्रायतामायतालं
संवर्तोद्वृत्तवाह्निद्युमणिगणबृहद्भानुदम्भोलिवर्गः ॥ ३७॥
सार्धं योद्धुं समृद्धैर्नभसि भपतिना दुर्जयैर्ध्वान्तयोधैः
धृष्णिश्रेणीभटानामहमहमिकया सत्वरोदित्वराणाम् ।
वाहासङ्घट्टपिष्टाङ्गदमणिपटलीप्रांशुपिष्टातवृष्टाः
कष्टानां सन्तु नष्टयै नरहरिवपुषो फालदृष्टेः स्फुलिङ्गाः ॥ ३८॥
भक्तप्राणिप्रहाणिप्रचलदसिलतापाणिदुर्दैत्यहत्या-
तिक्रूरक्रोधयोधप्रचलनखचितश्मश्रुलेखासखी नः ।
रौद्रश्रीकाद्रवेयीद्रुतललनवलज्जिह्विका प्रोज्जिहाना-
सा नागद्वेषिमूर्तेर्विहरतु हृदये वेल्लिता चिल्लिवल्ली ॥ ३९॥
लास्येनोल्लास्यमाना निरवधिविगलद्योधगोधिप्रतोली-
यावत्क्रोधावकीर्णाञ्चलचपलचलच्चामरोड्डामरश्रीः ।
घोणादण्डाग्रजाग्रज्जयपरिचयकृद्वैजयन्ती जयन्ती
रौद्रस्य द्रागभद्रं विघटयभु हठाद्भ्रूद्वयी नृद्विपारेः ॥ ४०॥
दुर्दान्तध्वान्तभेकप्रतिभयसरयश्वासफूत्कार घोरा
प्रेङ्खोलश्मश्रुलेखाच्छलचलरसनाद्वन्द्वविभ्राजमाना ।
वेष्टुं वा लम्बमानाननबिलनिलयं भालभित्तेरधस्तात् ।
स्याद्धोणादीर्घपृष्ठी मदघविघटिनीकूटशैलाटमूर्तेः ॥ ४१॥
सूर्यादिज्योतिरुर्जस्वलकरपटलीमोटनालम्पटोऽसौ-
दैत्येन्द्रोद्दामधामद्युमणिघृणिघटालङ्घनेनाभिघाती ।
लोकालोकाद्रिरीत्युत्प्रतिघ इव तदुत्तुङ्गशृङ्गत्वभङ्गे
जङ्घालो जङ्घनीतुच्छलहरिपरुषश्वासवातोऽघसङ्घान् ॥ ४२॥
क्रूरक्रोधाग्निकीलक्कथित इव पृथुश्वासभूमा नृसिंह-
स्योग्राणामग्रगाणामनुतनुघटितरफारविस्फोटकोटिः ।
वार्धिनामैक्यमृद्धं घटयितुमिव जङ्घालजङ्घालताभ्रू (जङ्घालझम्झासमीरो)
द्रागंहःसङ्घनीतिर्मतं सकलशुभोल्लङ्घनी जङ्घनीतु ॥ ४३॥ (नीतिर्मम, शुभोल्लङ्घने)
द्वीपान्तर्द्योतमानक्षितिधरनिकरक्षुद्रतामुद्रितौजा
लोकालोकाद्रिमूर्धाञ्चलचलनधनश्लाघनीयापदानः ।
द्राग्मित्त्याघातजातप्रतिघुरितरयभ्रान्तगाङ्गेयरेणु-
भ्राजद्ब्रह्माण्डभाण्डः स्फुरतु हृदि हरेः श्वासरूपी नभस्वान् ॥ ४४॥
घोणाश्वभ्रोरुगर्भादतिपरुषखरश्वासधारानिरस्ता-
कालव्यालद्वयीवोद्यतफणयुगलीश्रोत्रगर्भप्रदेशे
नेत्रायुर्वायुयायिन्यसुरपरिषदः स्थूलतालालितान्ता (नेत्रायुर्वायुपायिन्य)
स्मेरा श्मश्रुद्वयी नो द्विपदलनतनोस्तुङ्गभासङ्गताव्यात् ॥ ४५॥
कौटिल्येनैव ल्खल्वाचरितपरिचिता वक्रताशुभ्रताभ्यां
न्यस्यन्ती क्षीरकण्ठद्विजनपतिघटाकण्ठपीठे प्रकोष्ठम् ।
ताभ्यां तिग्मत्वयुग्भ्यां नगरवरवधूनेत्रकोणान्तमैत्री
दंष्ट्रधाटी स्फुटा नः कपटहरितनोः पाटयेत् पापकूटम् ॥ ४६॥
आविर्भूयास्यगर्भाद्रवमसुरवधूगर्भविभ्रंशभीमं
जिह्वां चालोक्य दैत्यक्षतजरसझरीग्रासलोलामिवोग्राम् ।
कूरास्थिग्रन्थिकोटीविघटनकटुतोद्धाटिनीवातिघोरा
पायाच्छैलाटचेष्टानुकृतिकृतिभृतो दन्तधाटी प्रभोर्नः ॥ ४७॥
प्रह्लादोद्रिक्तनिद्रप्रमदकुमुदिनीजागरारागराजो
रुष्टेन्द्रद्वेष्ट्ट्द्य्ष्टिस्फुटपुटकघटादर्शिताक्षुद्रनिद्राः ।
विध्वस्तातिप्रशस्तामरनिवहमहासाध्वसध्वान्तधाराः
लीलाशैलाटमूर्तेर्दशनशशिकलाश्रेणयः प्रीणयन्तु ॥ ४८॥
दैत्योरःपीठपाटप्रकटविकटरुट्कक्खटोघृष्टदंष्ट्रा
सङ्घट्टस्पष्टदृष्टज्वलनकणगणश्रेणयोऽनिष्टनष्टौ ।
जायन्तां जागरूका विदलितदनुजव्यूहवाहोर्जितेजः
पूगप्रोद्गीर्णचूर्णप्रचयसमरुचो रंहसा सिंहमूर्तेः ॥ ४९॥
निर्यल्लालाटदृष्टिज्वलनघृणिघटाप्लुष्टदुष्टौघवंश-
स्थूलास्थिग्रन्थिकूटस्फुटनचटचटाट्टारवस्फारशङ्काम् ।
कुर्वन् गीर्वाणवर्गेऽद्भुतकलननभोभाजि निश्शेषयेन्नो
दोषान् रोषप्रपोषो मिषहरिवपुषो दन्तसङ्घट्टघोषः ॥ ५०॥
मन्दारोदारसिन्दूरकशिशुबिसिनीबन्धुबन्धूकसन्ध्या-
निर्यन्निर्यासकार्याकृतिरिव कलितारुण्यतारुण्यसम्पत् ।
सप्तार्चिस्तप्तखड्गप्रतिनिधिरधिकोल्लासिलौल्योल्बणश्री-
रास्तां नस्तापभाजां नरहरिरसनावासनाशासनाय ॥ ५१॥
सौक्षम्येणाग्नेर्निदाने वदन इह सतः क्रोधदोधूयमान-
प्राणद्राघिष्ठभस्त्राजवनपवनतो दीप्तिशीलेव कीला ।
क्रोधान्धानां नखानामसुरवरहृदो दर्शनायेव सम्यक्-
प्रह्वा जिह्वा मदंहः प्रदहतु महिमोन्नाहभृन्नारसिंही ॥ ५२॥
निष्क्रान्तेवानयन्ताद्गलरववलतः साध्वसध्वस्तधैर्यात् (निष्क्रान्तेवानयनाद्गलरववलतः)
प्रोन्मीलत्कम्पसम्पद्भयमयचरितोद्भावनप्रेक्षयेव ।
दंष्ट्राभिः स्पष्टरोचिःपटलकरघटाघट्टनीभिः प्रद्यष्टा-
श्वासेव स्वान्तदेशे नरहरिरसना वासनाशासनी स्यात् ॥ ५३॥
दैतेयोद्दामधामद्रुमदहनधृताटोपनोपाग्निकीला
प्रह्लादोद्रिक्तभक्तिच्छलनिलयचलच्छोणकेतुच्छीवर्नः ।
स्याज्जिह्वा नारसिंही विबुधपतिशुभा दृष्टवासन्तवार्ता-
श्लिष्टश्रीवल्लिहृष्टप्रथमकिसलयश्रीरनिष्टप्रणष्टयै ॥ ५४॥
चञ्चत्पञ्चप्रकारे मुख इह भवितुं साम्प्रतं पञ्च जिह्वाः
व्यक्तैकाग्रे महोग्रा पुनरपि भवितारश्चतस्रोऽधिपार्श्वम् ।
इत्यालोच्येव सीमाजिवटविषुतया कर्णजाहां जिहाने
स्मर्तव्ये सिंहमूर्तेर्भुशमपशरणैः सृक्कणी चक्रपाणेः ॥ ५५॥
प्रेङ्खन्निःश्वासलेखं प्रकटकटकटस्फोटविस्पष्टदंष्ट्रं
श्मश्रुस्मेरत्वभीष्मं कुटिलमविकटभ्रूकुटीभ्राजमानम् ।
क्रोधक्रूक्षिचक्रं सरभसरसनाभीमतं श्रीमतङ्ग- (सरभसरसनाभीषणं)
द्वेष्टुर्द्राग्द्वेष्टु वक्त्रं मम विषमदशास्रष्टुरिष्टं गरिष्ठम् ॥ ५६॥
दंष्ट्रासङ्घट्टघोरज्वलदनलकणश्रेणिकर्णप्रसूने
प्रोद्यन्निर्घोषवाद्ये प्रचलितबहलज्वालजिह्वामहोल्के ।
रौद्रश्रीलास्यरङ्गे प्रकटविकटरुट्सूत्रधारप्रचारे
सद्यो विद्योतमानद्विपदलनतनोरानने नो रतिः स्यात् ॥ ५७॥
वह्निप्राचीरदीप्रप्रस्रुमरपरितःकेसरे स्पष्टदंष्ट्रा
कुड्यासंश्लिष्टयष्टिप्रचयपरिचिते भ्रूलतातोरणाढ्ये ।
जाग्रत्प्रग्रीवमित्रप्रतिभयनयने प्रह्वाजिह्वालतोद्य-
त्सोपाने रौद्रलक्ष्मीगृह इव नृहरेरानने माननास्ताम् ॥ ५८॥
निस्त्रिंशस्रंसनं प्राक्सृजति करतलाज्जिह्वया नारसिंहे
दंष्ट्राभिः कृत्तशस्त्रीपटलविघटने भ्रूलताविभ्रमेण ।
कोदण्डभ्रंशचण्डे शितविशिखहरे श्रीकटाक्षच्छटाभिः
दृष्टानां दृष्टिमात्रात् प्रतिकृतिकृतिनि प्रीतिरास्तां मुखे नः ॥ ५९॥
उद्यज्जिह्वामहोल्के मुखरिमखरनिर्घोषनिर्घातघोरे
भ्रूवल्लीश्मश्रुलेखाविलसितविलसद्धूमकेतुप्रकाशे ।
सक्रोधा क्षुद्रचक्षुस्त्रिकविकसनसन्दर्शितार्कत्रयीके
तस्यास्ये स्यान्नमस्यासुरकुलदलना दर्शिता जन्यसैन्ये ॥ ६०॥
दंष्ट्राधाटीकठोरक्रकचपरिचयेनाप्यखण्डस्वरूपा
संङ्कोचं कण्ठघोषेण च न च दधती भीषणेनोल्बणेन ।
लोके जिह्वापुटेऽप्यस्वलितपदवती भारती यत्र वासं
मा सन्धत्तेऽप्रमत्ते हृदि भवतु हरेर्द्रागुपास्यं तदास्यम् ॥ ६१॥
सप्तार्चिःखण्डषण्डस्तबकितकुहरा चुल्लिकेवोल्लसन्ती
दीर्णा दीर्घादरीवोद्धुररुधिरसुहृद्धाराधुरीणा ।
पातालद्वारिवोद्यत्फणिफणमणिरुक्कन्दकीवृन्दलीढा-
लीलाहर्यक्षमूर्तेः क्षपयतु विपुला वक्त्रकुक्षिर्मदंहः ॥ ६२॥
गर्जश्रीनिर्जिताम्भोधरपटलहठाकृष्टविद्युत्कलाप
प्रायां प्राप्तां समुद्रादपि परिभावनो वैद्रुमी वल्लरीं वा ।
रौद्रश्रीवीरवर्यावरवरणविधादन्तबन्धूकमालां
बिभ्रद्यैत्यान्त्रमालामतिपरुषरुषः पातु देवस्य कण्ठः ॥ ६३॥
माधुर्योद्रेकधुर्यं निजसहजपरिष्कारवर्यं विसृज्य-
क्रौर्यश्रीवार्यमाणावसरमपरसन्दैत्यपालान्त्रनालम् ।
घोराकारां घृणायाः पदमपि दधती धार्यमाणां हठेन
ग्रीवा श्रीर्वारणारेः शरणमिह परं पीवरी वामनी वः ? ॥ ६४॥
मायाहर्यक्षमूर्तेः क्षयसमयपयोवाहसाहस्रगर्ज-
स्फूर्जन्निर्घोषसम्भावितविदलनदिक्सन्धिसन्धुक्षणाय ।
उन्मीलत्कान्तितन्तूत्कटकरजघटासूचिसाचिव्यभाजो
विष्वद्रीचोऽनुविश्वोपकृतिकृतिभृतो भावये बाहुदण्डान् ॥ ६५॥
नम्रा दैतेयसम्राद्प्रतिभयपृतनाघातगुर्वीं किलोर्वीं
दीव्यद्यर्वीकरोर्वीपतिफणपरिषत्खर्वतां पर्वतान्ताम् ।
उद्धर्तं प्रोद्धुरा नु प्रतिदिशवलिताः सर्वतोऽखर्वमूर्तेः
साहस्रा बाहवस्ते मम हृदि महिमोन्नाहवाहः स्फुरन्तु ॥ ६६॥
दीप्रं यद्विप्रचित्तप्रभवमृगदृशां क्षिप्रमोददधानं
निप्रघ्नद्विप्रवर्यप्रतिभयरयभृत्कैटभाटोपलोपम् ।
चक्रं हर्यक्षमूर्तेः शरणमहमहोरात्रमार्तो भृशार्ते
रेमि द्राक्कालनेमिक्षतजरसलन्नेमि कस्माद्विभेमि ॥ ६७॥
वह्निज्वालाभजिह्वावगलनविकलत्वाम्बुना सन्नवक्त्रं (विकलस्वाम्बुना)
निर्घोषैः कण्ठकम्बोश्चकितमिव महामौनमुद्रां दधानम् ।
घोणाघ्राणप्रहीणं जलजमिव सितं पाणिभूषायमाणं
शत्रुभ्यस्त्राणहेतोः शरणय नृहरेरम्बुजाक्षस्य कम्बुम् ॥ ६८॥
ऋक्चक्रेणेव चक्रं प्रथनमधिमधुग्रासिकोग्राकृतीति
क्रौर्येण क्रौञ्चभेदे पटुरिति विकटां श्रीमहासेनशक्तिम् ।
दम्भोलिं जम्भशत्रोरहिहननमहासाहसीस्रद्धसन्तो
दैत्योरस्त्रोटयन्तस्तृणमिव नृहरेः पाणिजाः प्रीणयन्तु ॥ ६९॥
दैत्येन्द्रध्वानसन्ध्याध्वनिमुकुलितदिक्पालमालासुखर्धि-
स्वाध्यायारम्भपूर्वोदितसतनुदशोङ्कारिकाकारिभाजः ।
नागानामिन्द्रियाणां दशसृणिसदृशाः प्राणिनां प्रीतिभाजां
प्रायः पारीन्द्रमूर्तेर्मम दश नखरास्ते खराः स्युः सुखाय ॥ ७०॥
साक्षादालक्ष्यमाणं युधि दलदगदाघातशोथप्रथिम्ना
दिङ्नागानां विषाणोरुमुसलशकलैः पाण्डुनिर्भग्नमग्नैः ।
दैतेयव्याघ्रवक्षःप्रबलमदगदं शीघ्रमुल्लाघयन्तो
भूशल्योद्धारकल्याभवभयभिषजः पाणिजाः पान्तु युष्मान् ॥ ७१॥
उन्मीलत्कालखण्डोत्पलममलिनकङ्कालखण्टैः कुमुद्व-
त्तद्वद्ये व्यक्तमुल्कामुकुलितकमलं स्रागसृक्काभिपूर्णम् ।
हंसापत्यातिरक्तं सुररिपुवरहृल्लक्ष्यहर्यक्षमूर्तेः
क्रौर्यक्रीडातटागं क्षणमधिविदधुस्ते नखाः स्युः सुखाय ॥ ७२॥
उद्रिङ्गद्रक्तलेखारुणवसनलताकर्षमुच्चैस्त्रिलोकी
लक्ष्मीदैत्येन्द्रवक्षःस्थलपृथुलशिलास्थेयसीमिर्ष्येयेव ।
आकर्षन्तो द्विरूढां विबुधपरिवृतेनैव बाढं विधातुं
निर्भीति प्रीणयन्तु छलहरिवपुषः पाणिजाः प्राणिजातम् ॥ ७३॥
वक्षःसीमन्तयन्तो नभिदुरभिदुरोरच्छदछेददक्षा
यत्किञ्चिद्विघ्ननिघ्ना इव घनमघवद्वज्रघातोत्थशोथैः ।
स्थूलास्थिग्रन्थिकूटे निबिडकडकडोड्डामराम्रेडितेन
क्रीडन्तश्शक्रशत्रोर्नरहरिनखरास्ते खराः स्युः सुखाय ॥ ७४॥
चापल्येनापतन्तीमिव शिरसि रसज्ञां प्रतप्तासिलेखा-
भीमामालोक्य सीमान्तरगतकमलाकौस्तुभश्रीव भीत्या ।
तारादारांशुधाराप्रतिमघनतमोल्लासवल्लोमवल्ली-
लीनश्रीवत्सलक्ष्म क्षपयतु दुरितं लक्षहर्यक्षवक्षः ॥ ७५॥
अव्यादाकाशकाशस्तबकपरिणतः कूर्मलोम्नां विवर्तो
दृष्टान्तश्यामशृङ्गस्य च हरिदुदयच्चित्रलेखैकमित्रम् ।
मिथ्यद्वैरथ्यसज्जद्विपदलनतनोर्देहपूर्वापरर्द्धि-
स्थित्यर्थापत्तिसाध्यं भवभयविकटान्मङ्क्षु नो मध्यमव्यात् ॥ ७६॥
दैत्येन्द्रो दीर्घनिद्रामधित शितशिखैस्तन्नखैः खण्डितोरः
कण्डूतिर्यत्र हस्तस्खलदसिफलकस्फारपादप्रसारः ।
चञ्चज्जानूपधाना तनुरुहनिवहप्रच्छदनाढ्या
मञ्चेतः स्थैर्यपट्वाक्रमतु कपटहर्यक्षदक्षोरुखट्वा ॥ ७७॥
न्यस्ते रोषेण साचिप्रसृमरपरितो दीधितौ यत्र रक्ते
मध्ये नम्रत्वकम्रं कुवलयमभितः सङ्गतोत्तुङ्गताकम् ।
उत्तानस्वर्णदण्डायुतकनकशलाका[लिलालित्यशालि
च्छत्राभामाप तापानपनुदतु हरेर्वामजङ्घाप्रकाण्डः ॥ ७८॥
स्तम्भोद्भूतस्य भूमेरूपरि लिपदसृक्चन्दनं स्यन्दमाना-
धोऽनूनारुण्यलक्ष्यादिति सुतपृतनापादघातार्तिभाजः ।
फाले श्रीखण्डपुण्ड्रं लिखदिव नखरज्योत्स्नया वत्सलत्वात्
प्रह्लादस्य प्रणामप्रवणितशिरसः पातु पादद्वयी नः ॥ ७९॥
रुन्धन्तीवारिबन्धूनधिरुधिरधुनीबन्धुबन्धूकमूर्ते-
राकृष्याशानुविश्वाः स्वयमपि युगपद्योजयन्तीव भान्ति ।
द्वैतं द्यावापृथिव्योर्दलयितुमुदयन्मांसलानीचवीचिः
विश्वद्रीची मरीचीततिररुणसमीचीनरोचिर्विचिन्त्या ॥ ८०॥
अस्थानद्वारि तिष्ठन् असुरवरहृदो दारुणायैकनिष्ट-
क्रोधः श्रीपृष्ठनिष्ठप्रततफणबृहद्दीर्घपृष्ठस्थविष्ठः ।
प्रह्लादाप्तप्रतिष्ठः प्रबलदनुजनुःसैन्यविन्यस्तनिष्ठः
पायाद्देवो वसिष्ठप्रभवभवनुतो देवगोष्ठीगरिष्ठः ॥ ८१॥
दन्तेभ्यः पाणिजेभ्यस्तुहिनगुभगिनीस्तोमलेखासुहृद्भयो
नो बिभ्यत्यब्धिशब्दश्रवणपरवशाघोरगम्भीरघोषात् ।
और्वज्वालालतायाः कणकुसुमहृदप्युग्रजिह्वालताया-
यस्याङ्के निर्विशङ्कं जयति जलाधिजा सैष देवोऽवताद्वः ॥ ८२॥
एष ब्रह्माण्डभाण्डामितविततवपुः सज्जनस्वान्तदेशे
स्वच्छन्दामन्दलीलो विषयसमुदयाकुञ्चितत्त्वाञ्चितेऽपि ।
काष्ठाकैवल्यलक्ष्म्या जगति कतिपयैः कल्मिभिः कार्यदृष्टया
देवः श्रीमान् नृसिंहोऽवतु परममहानप्यणोरप्यणीयान् ॥ ८३॥
उच्चैर्घुष्टप्रहृष्टत्रिदशगणघनश्लाघनाघूर्णनोद्य-
न्मूर्धाधोध्वस्तपुष्पस्तबकविकसितैस्तारकाचक्रवालैः ।
दृष्टोरः पाटरुष्टिस्फुटविकटसटाकम्पसम्पत्तिचक्र-
च्छिन्नैराच्छादिताङ्गच्छलनृहरितनुर्यच्छताद्वाञ्छितं नः ॥ ८४॥
आभातीतेन्दुधामासदरिदरकरः सर्वमानव्यमाभृ-
त्कायोदारस्सदारोचितदशनखरः कोऽपि तत्त्वाधिकारी ।
आभातीतेन्दुधामा सदरि करः सर्वदा नव्यमाभृ- (सदर)
त्कायोदारः सदारोचितदशनखरः कोऽपि तत्त्वाधिकारी ॥ ८५॥
तिष्ठन्नम्भोजपृष्ठे जलनिधिजनुषो रोचिषा राजमानो
विद्युज्ज्वालाकलापोज्ज्वलविपुलसटाकीर्णविस्तीर्णवक्त्रः ।
जान्वोर्विन्यस्तहस्तः कटितटविवलद्योगपट्टस्फुटश्री-
भाजोः शङ्खारिधारी जयति नरवपुश्चित्रपारोन्द्रवक्त्रः ॥ ८६॥
पातूरःपीठपट्टाश्रितजलधिजनिर्योगपट्टाभिरामो
दैत्योरःपाटकट्टारकखरनखरो भ्राजदट्टाट्टघोषः ।
संसारक्लेशहट्टापहरणमहिमा यो हृदट्टाधिवासी
भक्तानां देवभट्टारककलितनुतिः पीतपट्टांशुकः सः ॥ ८७॥
सत्रासत्राणर्त्री रिपुसुतविपदः साधु नाना धुनाना-
मारामाराजिवक्षा नखविदलितदुष्टासुरा भासुराभा ।
सामासामादिगीता निजपदकमलालम्बतारावतारा
भीमाभीमार्थदक्षा तनुरवतु सुधा भानुमालानुमाला ॥ ८८॥
प्राप्ता मुद्राविले शेन परममहता येन यः सन्तरण्या
कारां पृथ्वीं दधानो वरभुजगवरत्रासरक्षां विभाति ।
गाङ्गश्रीशोभमानां स्वतनुमवतु नः शं खलूच्चैर्महिम्ना
पारावारप्रभावः स नृहरिरपरा यस्य मैनीह मूर्तिः ॥ ८९॥
ज्यायस्याभासमाना भवति न तनुरुट्छालिनी यारिराजी-
श्यामा क्षीरोदनीरोच्छ्वसनकुशलिनी या कृतोद्वृत्तपाता ।
हन्यान्मूर्तिर्हरेः सा दुरितमतिबला काच्छपी नाम मात्रा-
तिक्रान्ता दीर्घपृष्ठं परमपि दधती मान्दरश्रीनिधानम् ॥ ९०॥
देहो यस्याम्बुवाहोपलसितरुचिभृद्यः सरस्वत्युपास्यः
पातालक्ष्माखरांशुप्रतिमनखगणो यो हिरण्याक्षजेता ।
यो नन्दोल्लासकान्तो विलसति बहुलोमावली यस्य धाम्नि
श्रेयो दद्यात् स देवो निजजनमहसे लब्धभूदारभावः ॥ ९१॥
उद्यत्प्रह्लादसम्पन्नखरकररुचिः सर्वदा राजदन्त-
श्रीधारी योरिधा रास्त्रन्थरविवरणो योऽनुरज्यद्रसज्ञः (?) । (योरिदा)
चिल्लीलास्याधिकारी विकसिततनुरुट्केसरी कोऽपि लोके
कल्याणं स स्वतुल्यः प्रणयतु परितोऽलङ्क्रियाभासमानः ॥ ९२॥
लोकप्रह्लादसद्भाद्रपदजनमतिप्रोल्लसद्येवकार्या-
यासाराम्भोदधानध्वनिविभववती चुम्बितार्काक्षमाला ।
कौपीनप्रीतधात्रीवलनियमलयालोकहर्षप्रकाशा
शुक्लाक्षी स्फोटभीमा हरितनुरवताद्वामनी चाधिका सा ॥ ९३॥
प्रस्वापद्वर्धनीया शशिदरपरशुभ्राजिता दानवार्या
पारीचर्यादितक्ष्मोपकृतिगुरुमहादेवशास्त्राधिकारा ।
भार्गव्याभासमाना हृदि मम बहुशोकार्तिवीर्याविरास्तां
मूर्ति देवस्य कापि प्रतिदिनमविताम्नायशैलीमुखश्रीः ॥ ९४॥
यो गाधेयाग्निनेत्री गतदुरितशतानन्दसूर्या च तारा-
भर्तुर्लक्ष्मीं दधाराह्रियत किल ययाप्युच्चकैरावणश्रीः ।
या वैदेह्याप्तभीतिक्षयकरमहिमा साधु सा राघवीति-
ख्याता मूर्तिर्हरेर्नो वसतु हृदि पराभूतमायाकुरङ्गा ॥ ९५॥
योऽभूत् सन्तापसक्ता लवनखरघटाहारिहस्तो यदीया-
सच्चक्रे सूतमृत्युङ्करणकुशलता सूर्यजाकर्षशीलः ।
यश्चेतोहारिहालाहलभृति बहलप्रीतिरुत्तालकेतुः
प्रेयो वृन्दावनः कौरवगुरुरभितः श्रीहरी रक्षतां नः ॥ ९६॥
प्रत्यक्षादिप्रमाणोनभिमतपरलोकप्रहर्षो नयज्ञे
प्रह्लादे चान्तनिष्ठे घृणयति घृणिमाल्यच्छविद्योतितो यः ।
सर्वेषां मूलहेतुः किल यदभिमतो भावहावप्रसिद्धः
संसारादुद्धरेन्मां कपटहरितनुः शुद्धबुद्धस्वरूपः ॥ ९७॥
सार्धं दुष्टैः प्रवृद्धैः कलियुगमलहृत्सिन्धुजारोहशाली
योऽभूद्येवाधिराजप्रणयवशतया लब्धजन्मानुकारः ।
संसारे सत्यधर्मा चरणपरवशो यः कृपाणां समुद्रः
देवोऽभूद्रोगहन्ता भवतु नरहरिर्भास्वदन्तः प्रकाशः ॥ ९८॥
दैत्यानां कालदण्डः स्फुरतु हृदि हरेश्चण्डलाङ्गूलदण्डः
शक्रश्रीलास्यदण्डः स्वजनघनकृपाकेतनोल्लासदण्डः ।
आपद्गोषण्डदण्डः सुरपुरतरुणीत्रासभाण्डौघदण्डः
स्वर्लोकच्छत्रदण्डस्त्रिपुरनिजजनुर्घोषणातोद्यदण्डः ॥ ९९॥
स्वर्गे संसर्गवत्या दितितनुजभुजा वीर्यलक्ष्मीयुवत्याः
प्रोदस्तं किन्नु दस्ता कलितकचकुलं क्ष्मातले पातनाय ।
क्रोधश्रीबाहुदण्डं वलयितसितरुङ्मण्डलं तत्प्रचण्डं
चेतो ब्रह्माण्डकेतोः स्मरहरिवपुषो वालहस्तप्रकाण्डं (?) ॥ १००॥
ऊष्माकूष्माण्डषण्डो दयतु हृदि न ते यातु नो यातुनो भीः
प्रेताः के तावदष्टौ त्यजत मयि महाभैरवा वैरवार्ताम् ।
रुष्टत्वेतेन दुष्टग्रहगणगणनाकालकङ्कालसम्प-
त्सम्पन्ना ते मदास्यं मदायितुमुदभून्मापयन्नारसिंहं (?) ॥ १०१॥
क्षिपं सर्पापसर्प व्रज वनगजते विद्रव छिद्रदेशा-
दद्रेर्निर्गच्छ तुच्छद्रविण न हि मदादच्छभल्ल प्रयच्छ ।
मा सिंह त्रास रंहः शरभ सरभसं याहि शार्दूल दूरा-
दाह्वा जिह्वाञ्चलं नश्वपलयति यतश्चित्रपञ्चास्यमूर्तेः (?) ॥ १०२॥
कश्चित् कौत्सववंशकैरववनीप्राकाशराकापतिः
कृत्वा मर्त्यहरेरमर्त्यकलितां श्लोकैः शतैर्मौक्तिकैः ।
मालां दूषणदूरणाय गुणवद्विज्ञानशाणार्चितां (दूषणदारणाय)
सत्कण्ठार्पणतो जगाम परमानन्दं स गङ्गाधरः ॥ १०३॥
इति श्रीनृसिंहशतकं सम्पूर्णम् ।
Proofread by Saritha Sangameswaran