नृसिंहनवरत्नस्तवः
श्रीकृष्णलीला शुकमुनि विरचितः ।
उग्रं वीरमुदुन्मदिष्णुषु महाविष्णुं ज्वलन्तं ज्वल-
द्गर्वं गर्विषु सर्वतोमुखमसुध्वंस नृसिंहं द्रुहः
अग्र्यं भीषणमद्भुताद्भुततमं भद्रं भवध्वंसिन (भवध्वंसनं)
मृत्युं मृत्युषु मृत्युमृत्युममृतं सोऽहं नमाम्यन्वहम् ॥ १॥ (तत्त्वं मृत्युषु)
कौमोदक्यां कुमार्यां किमिह बहुमतिर्नन्दकः कन्दुखान-
चक्रं धिक्कारभूमिर्जगति सुविदिता शृङ्गवच्छार्ङ्गशक्तिः ।
शूलं तूलास्थि पाशः पशुषु विषहतां सैव वज्रेऽप्यवज्ञे-
त्युद्रिक्तं दैत्यमुच्चैर्दहति नखमुखे त्वां निदध्यान्नृसिंहः ॥ २॥ (निधत्तान्नृसिंहः)
माणिक्यस्तम्भगर्भे मुहुमुहुमुहिति प्राक्क्षणे प्रेक्ष्यमाणः (प्राङ्कणे)
पश्चादेतत्पुरस्ताद् भुगुभुगुभुगिति स्फूर्जितौर्जित्य वह्निः ।
प्रारब्धक्रोधभारं भुरभुरभुरिति भ्रान्तकान्तिः परस्तात् (भुरुभुरुभुरिति)
पश्चान्निश्चूर्णितारिस्फुडुफुडुफुडिति त्वां निदध्यान्नृसिंहः ॥ ३॥
निर्भिण्णस्तम्भगर्भान्नभसि परिपतन्नुत्पतन् निष्पतन् द्राग्
दैत्येन्द्रोद्रिक्तवक्षस्तटखनननखः प्रौढगाढाट्टहासः । (प्रौढिगाढाट्टहासम्)
तद्रक्तोद्रिक्तधाराधुरुधुरुधुरिति ध्वाननिर्धूतधैयं
निर्घुष्टोद्धट्टनोद्यद्द्रुतनटनसटस्त्वां निपिंष्टान्नृसिंहः ॥ ४॥
उग्रः खड्गाग्रकोटीखरनखरमुखक्षुण्णदैत्येन्द्रवक्षः-
पीठप्रौढप्रलोठत्पृथुलफाणिफणाभीषणस्फीतपाणिः ।
वीरक्रूरप्रभावप्रतिहासितजरत्कल्पकल्पान्तरुद्र-
क्रीडावीळार्हकेळीभ्रमितभ्रुवनदृक् त्वां निकृन्तान्नृसिंहः ॥ ५॥
उ द्भ्राभ्यद्भ्रद्रकाळीनिनदमुरुमहाभैरवारावगर्भं
विभ्राम्यद्वीरभद्रद्रुतगतिबहलोद्रिक्तनृत्तान्तरुद्रम् । (नृत्ताद्रिरुद्रम्)
प्रभ्राभ्यत्पाञ्चजन्यप्रतिरवभरितप्रौढिमुद्राद्रिकुञ्जं
विभ्राम्यद्वीरसिंहध्वनिधुतगगनं त्वां निरुन्ध्यान्नृसिंहः ॥ ६॥
(अतः परं अन्य हस्तलिखिते पद्यमिदमधिकतया दृश्यते-
घोरव्याघूर्णवीरभ्रमिततरतरत्तारकादीप्तदृष्टि-
र्दष्टान्निर्दष्टसृक्वस्थपुटमुखपुटाटपोविभ्रान्तजिह्वः ।
नीरन्ध्रध्वानधाराभरभरितहरिद्रन्धरुद्धाट्टहासः
संहृष्टभ्रूसटोग्रभ्रुकुटिभृशपटुर्भर्जतु त्वां नृसिंहः ॥
पुष्टोद्घुष्टाट्टहासस्फुटपटिमभरप्रस्फुरद्ब्रध्नबिम्बं (पुष्टोत्पुष्टट्टहास)
क्षुभ्यद्ब्रह्माण्ड खण्डक्षुभितघुमुघुमृद्घूर्णनानार्णवौघम् । (भाण्डक्षुभित)
विभ्यद्विभ्रश्यदभ्रभ्रमणघणघणक्रुष्टनक्षत्रलक्ष
प्रक्षोदक्षोदशोभोद्भटभुवनमभिद्रुह्यतु त्वां नृसिंहः ॥ ७॥
क्षुभ्नीयात् त्वां नृसिंहो घहघहघहिति क्रोधघुष्टाट्टहासै-
रुत्कृन्तात् त्वां नृसिंहः कटकटकटिति क्रुष्टदंष्ट्रोग्रदन्तैः ।
उद्धूयात् त्वां नृसिंहो घटघटघटिति प्रोद्धतोद्यत्सटाभि-
निर्दह्यात् त्वां नृसिंहो धुरुधुरुधुरिति प्रस्फुरद्विष्फुलिङ्गैः ॥ ८॥ (भुरुभुरुभुरिति)
स्तम्भं दैत्येन्द्रवक्षःस्थलमपि युगपत् पाटयन् पाटलाभै- (वक्षस्तटमपि)
रम्भोभिः सान्द्रसिक्तद्रवविभव मयैस्तर्पयंस्तत्पितॄंश्च ।
जम्भारातीभकुम्भस्थलदलनभयत्रस्तगीर्वाणसेना-
गम्भीरस्तोत्रधारापरिमलहृषितो भर्जतु त्वां नृसिंहः ॥ ९॥
अहङ्कारग्रन्थेरिति दलनमन्त्राणि पठतां (ग्रन्धरिति)
त्रिसन्ध्यं सन्ध्यायेत् त्रिजगदधिदैवं नरहरिम् ।
अभङ्गानातङ्कानपि सपदि जित्वा निजरिपू-
नवन्ध्यैरैश्वर्यैरभिमतजयश्रीर्विजयते ॥ १०॥
अमुना मनुनाशु कृष्णलीलाशुकयोगीन्द्रमुनीन्द्रगुम्भितेन ।
वहतां पठतां जयं जयश्रीर्नरसिंहं नवरत्नमण्डलेन ॥ ११॥ (भजतां वहतां जयं)
वीरश्रोत्ररसायनैस्त्रिभुवनप्रौढैरमीभिः स्तवै-
र्वीरश्रीनरसिंहपादकमलद्वन्द्वं मुहुः प्रीयताम् ।
आरब्धाभिनवप्रमोदलहरीभारस्फुरान्निस्सर-
नीरन्ध्रस्थितरोमहर्षभरितं नृत्यन्तु वागीश्वराः ॥ १२॥
(नृसिंहनवरत्नत्तनामकोऽयं स्तवः श्रीकृष्णलीलाशुकमुनि-विरचित
इति एतदुपान्तिमाद् ``अमुना मनुने'' त्यादिपद्यादवगम्यते ।)
इति श्रीकृष्णलीलाशुकमुनिविरचितः नृसिंहनवरत्नस्तवः सम्पूर्णः ।
Proofread by Mohan Chettoor