श्रीनृसिंहद्वादशनामस्तोत्रम्
हरिः ॐ ।
प्रणम्य शिरसा देवं नृसिंहं भक्तवत्सलम् ।
सच्चिदानंदरूपोऽयं परिपूर्ण जगद्गुरूम् ॥
अस्य श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रमंत्रस्य पुरंदर ऋषिः ।
(वेदव्यासो भगवान् ऋषिः ।)
श्रीलक्ष्मीनृसिंहो देवता । अनुष्टुप् छन्दः । क्ष्रौम्बीजम् ।
ॐ श्री शक्तिः । ॐ श्रीलक्ष्मीनृसिंहप्रीत्यर्थेजपे विनियोगः ॥
अथ न्यासः -
ॐ क्ष्रां अंगुष्ठाभ्यां नमः ।
ॐ क्ष्रीं तर्जनीभ्यां नमः ।
ॐ क्ष्रूं मध्यमाभ्यां नमः ।
ॐ क्ष्रैं अनामिकाभ्यां नमः ।
ॐ क्ष्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्ष्रः करतलकरपृष्ठाभ्यां नमः ॥
ॐ क्ष्रां हृदयाय नमः ।
ॐ क्ष्रीं शिरसे स्वाहा ।
ॐ क्ष्रूं शिखायै वषट् ।
ॐ क्ष्रैं कवचाय हुं ।
ॐ क्ष्रौं नेत्रत्रयाय वौषट् ।
ॐ क्ष्रः अस्त्राय फट् ।
अथ ध्यानम् ।
लक्ष्मीशोभितवामभागममलं सिंहासने सुंदरं
सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरम् ।
सर्वाधीशकृतान्तपत्रममलं श्रीवत्सवक्षःस्थलं
वन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंहं विभुम् ॥
प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी ।
तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥ १॥
पञ्चमं नारसिंहश्च षष्ठः कश्यपमर्दनः ।
सप्तमो यातुहन्ता च अष्टमो देववल्लभः ॥ २॥
नव प्रह्लादवरदो दशमोऽनन्तहस्तकः ।
एकादशो महारुद्रो द्वादशो दारुणस्तथा ॥ ३॥
द्वादशैतानि नामानि नृसिंहस्य महात्मनः ।
मन्त्रराजेति विख्यातं सर्वपापविनाशनम् ॥ ४॥
क्षयापस्मारकुष्ठादितापज्वरनिवारणम् ।
राजद्वारे महाघोरे सङ्ग्रामे च जलान्तरे ॥ ५॥
गिरिगह्वार आरण्ये व्याघ्रचोरामयादिषु ।
रणे च मरणे चैव शमदं परमं शुभम् ॥ ६॥
शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात् ।
आवर्तयेत्सहस्रं तु लभते वाञ्छितं फलम् ॥ ७॥
इति श्रीब्रह्मपुराणे ब्रह्मनारदसंवादे
श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रं सम्पूर्णम् ।
variations
वज्रनखस्तृतीयं तु चतुर्थन्तु विदारणः ।
सप्तमं रिपुहन्ता च
द्वादशं करुणानिधिः
Encoded by Ganesh Kandu kanduganesh at gmail.com
Proofread by Ganesh Kandu, PSA Easwaran