श्रीनृसिंहभुजङ्गप्रयातस्तवः
(श्रीनृसिंहपर्वते)
ऋतं कर्तुमेवाशु नम्रस्य वाक्यं सभास्तम्भमध्याद्य आविर्बभूव ।
तमानम्रलोकेष्टदानप्रचण्डं नमस्कुर्महे शैलवासं नृसिंहम् ॥ १॥
इनान्तर्दृगन्तश्च गाङ्गेयदेहं सदोपासते यं नराः शुद्धचित्ताः ।
तमस्ताघमेनोनिवृत्त्यै नितान्तं नमस्कुर्महे शैलवासं नृसिंहम् ॥ २॥
शिवं शैववर्या हरिं वैष्णवाग्र्याः पराशक्तिमाहुस्तथा शक्तिभक्ताः ।
यमेवाभिधाभिः परं तं विभिन्नं नमस्कुर्महे शैलवासं नृसिंहम् ॥ ३॥
कृपासागरं क्लिष्टरक्षाधुरीणं कृपाणं महापापवृक्षौघभेदे ।
नतालीष्टवाराशिराकाशशाङ्कं नमस्कुर्महे शैलवासं नृसिंहम् ॥ ४॥
जगन्नेति नेतीति वाक्यैर्निषिद्ध्यावशिष्टं परब्रह्मरूपं महान्तः ।
स्वरूपेण विज्ञाय मुक्ता हि यं तं नमस्कुर्महे शैलवासं नृसिंहम् ॥ ५॥
नतान्भोगसक्तानपीहाशु भक्तिं विरक्तिं च दत्वा दृढां मुक्तिकामान् ।
विधातुं करे कङ्कणं धारयन्तं नमस्कुर्महे शैलवासं नृसिंहम् ॥ ६॥
नरो यन्मनोर्जापतो भक्तिभावाच्छरीरेण तेनैव पश्यत्यमोघाम् ।
तनुं नारसिंहस्य वक्तीति वेदो नमस्कुर्महे शैलवासं नृसिंहम् ॥ ७॥
यदङ्घ्र्यब्जसेवापराणां नराणां विरक्तिर्दृढा जायतेऽर्थेषु शीघ्रम् ।
तमङ्गप्रभाधूतपूर्णेन्दुकोटिं नमस्कुर्महे शैलवासं नृसिंहम् ॥ ८॥
रथाङ्गं पिनाकं वरं चाभयं यो विधत्ते कराब्जैः कृपावारिराशिः ।
तमिन्द्वच्छदेहं प्रसन्नास्यपद्मं नमस्कुर्महे शैलवासं नृसिंहम् ॥ ९॥
पिनाकं रथाङ्गं वरं चाभयं च प्रफुल्लाम्बुजाकारहस्तैर्दधानम् ।
फणीन्द्रातपत्रं शुचीनेन्दुनेत्रं नमस्कुर्महे शैलवासं नृसिंहम् ॥ १०॥
विवेकं विरक्तिं शमादेश्च षट्कं मुमुक्षां च सम्प्राप्य वेदान्तजालैः ।
यतन्ते विबोधाय यस्यानिशं तं नमस्कुर्महे शैलवासं नृसिंहम् ॥ ११॥
सदा नन्दिनीतीरवासैकलोलं मुदा भक्तलोकं दृशा पालयन्तम् ।
विदामग्रगण्या नताः स्युर्यदङ्घ्रौ नमस्कुर्महे शैलवासं नृसिंहम् ॥ १२॥
यदीयस्वरूपं शिखा वेदराशेरजस्रं मुदा सम्यगुद्घोषयन्ति ।
नलिन्यास्तटे स्वैरसञ्चारशीलं चिदानन्दरूपं तमीडे नृसिंहम् ॥ १३॥
यमाहुर्हि देहं हृषीकाणि केचित्परेऽसूंस्तथा बुद्धिशून्ये तथान्ये ।
यदज्ञानमुग्धा जना नास्तिकाग्र्याः सदानन्दरूपं तमीडे नृसिंहम् ॥ १४॥
सदानन्दचिद्रूपमाम्नायशीर्षैर्विचार्यार्यवक्त्राद्यतीन्द्रा यदीयम् ।
सुखेनासते चित्तकञ्जे दधानाः सदानन्दचिद्रूपमीडे नृसिंहम् ॥ १५॥
पुरा स्तम्भमध्याद्य आविर्बभूव स्वभक्तस्य कर्तुं वचस्तथ्यमाशु ।
तमानन्दकारुण्यपूर्णान्तरङ्गं बुधा भावयुक्ता भजध्वं नृसिंहम् ॥ १६॥
पुरा शङ्करार्या धराधीशभृत्यैर्विनिक्षिप्तवह्निप्रतप्तस्वदेहाः ।
स्तुवन्ति स्म यं दाहशान्त्यै जवात्तं बुधा भावयुक्ता भजध्वं नृसिंहम् ॥ १७॥
सदेमानि भक्त्याख्यसूत्रेण दृब्धान्यमोघानि रत्नानि कण्ठे जना ये ।
धरिष्यन्ति तान्मुक्तिकान्ता वृणीते सखीभिर्वृता शान्तिदान्त्यदिमाभिः ॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः श्रीनृसिंहभुजङ्गप्रयातस्तवः सम्पूर्णः ।
Proofread by PSA Easwaran