नृसिंहार्तिक्यम्
यः कनककशिपुरकरोत्साधौ संरम्भं
पुष्ट्वा गर्वं क्रोधं सद्वेषं दम्भं
कर्तुमृतं (१)भृत्यवचो भित्त्वाशु स्तम्भं
मार्तण्डमिवात्मानं कृतवानसि भान्तम् ॥ १॥
जय देव जय देव श्रीनरहरिमूर्ते ! ।
यत्तव नाम्नि फलमलं तन्नेष्टापूर्ते(२) । ध्रुव०॥
भो भगवन् ! (३)सर्वसुजनमानसजलजाले !
करुणा सर्वत्र कृता नैकस्मिन्बाले
मोचय मामपि दीनं पतितं भवजाले
यत्तेजोऽस्ति तव नखे न हि तत्करवाले ॥ २॥
प्रहादं पितुरिव मां मोहादव दासं
दह दुरितं द्रुतमिद्धो दमुना (४) इव घासम्(५)
दीनानामसि बन्धुर्मा कुरु परिहासं
भक्तमयूरघनार्पय पदपङ्कजवासम् ॥ ३॥
इति श्रीरामनन्दनमयूरेश्वरकृतं नृसिंहार्तिक्यं सम्पूर्णम् ।
१। भृत्यस्य दासस्य प्रसादस्य वचः ।
२। इष्टं यशादिविधानम् । आपूर्त कूपादिखननं तस्मिन् ।
३। सर्वेषां सुजनाना मानसं पङ्कजमिव तत्र अलिर्भृगः तत्सम्बुद्धौ ।
४। दमुनाः अग्निः ।
५। तृणम् ।
Proofread by Rajesh Thyagarajan